ओडिशाराज्ये जूनमासस्य २४ दिनाङ्के राज्यव्यापि-नागर-जनसम्पर्क-कार्यक्रमस्य शुभारम्भः, द्विवर्षीय-उपलब्धीनां भविष्यति प्रदर्शनम्
भुवनेश्वरनगरम्, जूनमासस्य २१ दिनाङ्कः (हि.स.)। ओडिशा-राज्यस्य आवास-नागरविकास-विभागः जूनमासस्य २४ दिनाङ्के राज्यव्यापि-नागर-जनसम्पर्क-कार्यक्रमस्य शुभारम्भं करिष्यति। एषा योजना राज्यसर्वकारस्य द्विवर्ष-समापनस्य अवसरे प्रारभ्यते। अस्याः उद्देश्यं नाग
ओडिशा शासन


भुवनेश्वरनगरम्, जूनमासस्य २१ दिनाङ्कः (हि.स.)। ओडिशा-राज्यस्य आवास-नागरविकास-विभागः जूनमासस्य २४ दिनाङ्के राज्यव्यापि-नागर-जनसम्पर्क-कार्यक्रमस्य शुभारम्भं करिष्यति। एषा योजना राज्यसर्वकारस्य द्विवर्ष-समापनस्य अवसरे प्रारभ्यते। अस्याः उद्देश्यं नागरिकसहभागितायाः संवर्धनम्, नागरविकासे प्राप्तानां प्रमुखोपलब्धीनां प्रदर्शनम् तथा राज्यस्य नागरभविष्यस्य निर्माणे जनसहभागितायाः प्रोत्साहनम् अस्ति।

अस्य कार्यक्रमस्य राज्यस्तरीयः मुख्यसमारोहः पुरी-नगरनिगमस्य टाउन-हॉल-भवने अपराह्णे ३:३० वादने भविष्यति। अस्मिन् आवास-नागरविकास-सार्वजनिक-उद्यममन्त्री डॉ.कृष्णचन्द्र-महापात्रः उपस्थितो भविष्यति। तदनन्तरं राज्यस्य सर्वेषु नागरस्थानीय-निकायेषु—नगरनिगमेषु, नगरपालिकासु तथा अधिसूचित-क्षेत्र-परिषद्सु—समकालीनरूपेण कार्यक्रमाः आयोजयिष्यन्ते, येन सामान्यनागरिकाणां प्रत्यक्षसम्पर्कः सुनिश्चितः भविष्यति।

अयं कार्यक्रमः “विकसित-ओडिशाराज्याय जनसहभागिता : सशक्तनागरिकाः – समावेशीनगराणि” इति विषयवस्तुनः आधारेण आयोज्यते। अस्य उद्देश्यं गतद्विवर्षयोः पेयजल-आपूर्तौ, स्वच्छतायाम्, सुलभ-आवासेषु, नागराधारभूत-संरचनायाम्, सार्वजनिक-परिवहने तथा डिजिटल-शासने प्राप्तानां प्रगतीनां जनसामान्यस्य समक्षं प्रस्तुतीकरणम् अस्ति।

अधिकारिणां मते एषा योजना शासनस्य नागरिकाणां च मध्ये सहभागितां सुदृढां कर्तुं तथा विकसित-ओडिशा २०३६ एवं विकसित-भारतम् २०४७ इति दृष्टिकोणानुसारं ओडिशायाः विकासयात्रायां सार्वजनिक-स्वामित्वस्य भावनां वर्धयितुं निर्मिता अस्ति।

कार्यक्रमकाले नागरिकेभ्यः प्रमुख-नागरविकास-परियोजनानां, प्रवर्तमान-कल्याणकारी-योजनानां तथा भावि-नागर-परिवर्तन-सम्बद्ध-योजनानां विषये विस्तृतसूचना प्रदास्यते। केन्द्र-राज्यसर्वकारयोः विविधयोजनानां, यासु ‘सहयोग:’ इति योजना अपि अन्तर्भवति, लाभार्थिभ्यः कार्यादेशाः, अनुमतिपत्राणि तथा अधिकारपत्राणि पारदर्शि-प्रक्रियया वितरिष्यन्ते।

अस्मिन्नवसरे स्वच्छताकर्मिणः, करसङ्ग्रहकर्तारः, स्वसहायतासमूहाः, सामुदायिक-सहयोगिनः तथा अन्ये अग्रपङ्क्तेः नागरसेवाप्रदातारः स्वकीययोगदानस्य कृते सम्मानिताः भविष्यन्ति।

जनभागीदार्याः प्रोत्साहनार्थं विभागेन QR-कोड-आधारितः डिजिटल-प्रतिक्रिया-मञ्चः तथा भौतिक-प्रतिक्रिया-केन्द्राणि अपि प्रारभ्यन्ते। एतेषां माध्यमेन नागरिकाः स्वविचारान् दातुं, समस्याः पञ्जीकर्तुं तथा नागरसेवासु स्वप्रतिक्रियाः प्रदातुं शक्नुवन्ति।

पुरी-नगरे आयोज्यमाने राज्यस्तरीये कार्यक्रमे अपरमुख्यसचिवा उषापाढ़ी ओडिशायाः नागरपरिवर्तनविषये विस्तृतां प्रस्तुतिं दास्यति। तदतिरिक्तं आवास-स्वच्छता-पेयजल-सार्वजनिक-परिवहन-मेट्रो-दृष्टिकोण- तथा डिजिटल-शासन-सम्बद्ध-उपलब्धीनाम् आधारेण निर्मिता वृत्तचित्र-प्रदर्शिनी अपि भविष्यति। कार्यक्रमे लाभार्थिनां अनुभव-विनिमयः, डिजिटल-प्रतिक्रिया-प्रणाल्याः शुभारम्भः तथा मन्त्री डॉ.महापात्रस्य सम्बोधनम् इत्यादयः प्रमुख-आकर्षणानि भविष्यन्ति।

राज्यस्य सर्वेषु नागरस्थानीय-निकायेषु प्रत्यक्ष-प्रसारणम्, योजनाविषयक-जागरूकता-शिविराणि, लाभार्थि-संवादाः, उपलब्धि-पुस्तिकानां वितरणम् तथा सूचना-निवारण-सुविधाभिः सह स्थानीय-कार्यक्रमाः आयोजयिष्यन्ते।

वरिष्ठाधिकारिणः अवदन् यत् सर्वेभ्यः नगरायुक्तेभ्यः कार्यपालकाधिकारिभ्यश्च नागरिकानां अधिकतम-सहभागिता, स्थलव्यवस्थापनम् तथा सेवासु सुचारु-व्यवस्था सुनिश्चितुं निर्देशाः प्रदत्ताः। एकया वास्तविक-समय-निरीक्षण-प्रणाल्या सहभागिता, सेवावितरणम् तथा प्राप्त-सूचनानां निरीक्षणं क्रियते।

आवास-नागरविकास-विभागेन विश्वासः व्यक्तीकृतः यत् एषा योजना जनविश्वासं दृढीकर्तुं, नागरिकसहभागितां वर्धयितुं तथा ओडिशां समावेशिनः, सततस्य, नागरिककेन्द्रितस्य च नागरविकासस्य दिशि अधिकं अग्रे नेतुं समर्था भविष्यति।

Hindusthan Samachar / Divya Ranjan