Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, २१ जूनमास: (हि.स.)। विश्वस्य प्राचीनतमस्य जूना-अखाडा-इत्यस्य आचार्यमहामण्डलेश्वरः स्वामी अवधेशानन्दगिरिः नेपालप्रवासकाले नेपालस्य जीवद्देव्याः कुमारीदेव्याः दर्शनं विधिवत् पूजनञ्च अकरोत्। जीवद्देव्याः कुमारीदेव्याः दर्शनं पूजनञ्च कृत्वा सः एतादृशः प्रथमः प्रमुखः धर्माचार्यः अभवत्।
कुमारीदेव्याः दर्शनानन्तरं भावविह्वलः स्वामी अवधेशानन्दगिरिः पत्रकारैः सह संक्षिप्तवार्तालापे अवदत् यत् जगज्जनन्याः भगवत्याः जगदम्बायाः साक्षात् प्रतिमूर्तिरूपायाः नेपालस्य जीवद्देव्याः कुमारीदेव्याः दर्शनपूजनयोः सौभाग्यं मया प्राप्तम्। सः समस्तं हिन्दूसमाजम् आहूतवान् यत् यदा कदापि श्रद्धालवः आराध्यदेवस्य पशुपतिनाथस्य अस्यां देवभूमौ आगच्छेयुः, तदा कुमारीदेव्याः दर्शनस्य सौभाग्यमपि अवश्यं प्राप्नुयुः।
स्वामी अवधेशानन्दगिरिः अपि अवदत् यत् एतादृश्याः धार्मिक-आध्यात्मिक-पौराणिकमहत्त्वयुक्तायाः जीवद्देव्याः दर्शनं न केवलं नेपाल-भारतयोः सम्बन्धान् अधिकं सुदृढान् करिष्यति, अपितु समग्रविश्वस्य कल्याणायापि सहायकरूपेण भविष्यति।
अयं विशेषावसरः धार्मिकसांस्कृतिकदृष्ट्या अत्यन्तं महत्त्वपूर्णः मन्यते। नेपालस्य प्राचीनपरम्परायां कुमारीदेवी जीवद्देवीरूपेण पूज्यते। विशेषतः नेवार-समुदाये तस्याः विशेषमहत्त्वम् अस्ति। तेषां मान्यतानुसारं कुमारीदेवी शक्तेः, संरक्षणस्य, मङ्गलस्य च प्रतीका अस्ति। शताब्दीपुरातना एषा परम्परा नेपालस्य सांस्कृतिकपरिचयस्य महत्त्वपूर्णः अंशः अस्ति।
स्वामी अवधेशानन्दगिरेः एषः उपक्रमः नेपालस्य आध्यात्मिकपरम्परायाः वैश्विकस्तरे नूतनां प्रतिष्ठां प्रदास्यतीति मन्यते। विशेषज्ञानां मतेन अनेन तीर्थयात्रिणां कृते नूतनम् आध्यात्मिकद्वारम् उद्घाटितं भविष्यति।
विशेषज्ञाः वदन्ति यत् अधुना पशुपतिनाथमन्दिरदर्शनार्थं नेपालम् आगच्छन्तः विश्वस्य विभिन्नदेशेभ्यः श्रद्धालवः जीवद्देव्याः कुमारीदेव्याः दर्शनमपि स्वतीर्थयात्रायाः अङ्गत्वेन स्वीकरिष्यन्ति। अनेन न केवलं धार्मिकपर्यटनस्य प्रोत्साहनं भविष्यति, अपितु नेपालस्य अद्वितीयासु सांस्कृतिक-आध्यात्मिकपरम्परासु अन्ताराष्ट्रिय-श्रद्धालूनां रुचिरपि वर्धिष्यते।
हली नेवा गुठी इति संस्थायाः पदाधिकारिणः, ये वसन्तपुरे स्वामी अवधेशानन्दगिरेः स्वागतं कृतवन्तः, मन्यन्ते यत् एष: प्रयत्न: नेपालस्य आध्यात्मिकपर्यटनाय नूतनमायामं प्रदास्यति। अनेन श्रद्धालवः एकस्यामेव यात्रायां पशुपतिनाथस्य जीवद्देव्याः कुमारीदेव्याश्च दर्शनं कर्तुं शक्नुवन्ति। तेन नेपालस्य धार्मिकपरिचयः अधिकं सुदृढः भविष्यतीति अपेक्षा वर्तते।
Hindusthan Samachar / Divya Ranjan