Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्री कबरई बांधस्य अंतर्गता पुनर्वासक्षतिपूर्तिः चापि प्रदत्ता
महोबा, 21 जूनमासः (हि.स.)।मुख्यमन्त्री योगीआदित्यनाथः रविवासरे उत्तरप्रदेशस्य महोबाजनपदे आयोजितात् कार्यक्रमात् पूर्वं बालकानाम् अन्नप्राशनसंस्कारम् अकरोत्। तेन अत्र प्रदर्शनीयाः अपि अवलोकनं कृतम्। विविधयोजनानां लाभार्थिभ्यः चेकपत्राणि, कुञ्चिकाः, स्वीकृतिपत्राणि, प्रमाणपत्राणि च प्रदत्तानि।
अस्य अवसरस्य समये मुख्यमन्त्री योगीआदित्यनाथः पात्रेभ्यः विविधकल्याणकारीयोजनानां लाभान् प्रदत्तवान्। एतेषु श्रीकृष्णपाठकाय मुख्यमन्त्रीबालसेवायोजनायाः अन्तर्गतं चलनसङ्गणकयन्त्रम्, शुभमाय मुख्यमन्त्रीबालसेवायोजनायाः अन्तर्गतं चलनसङ्गणकयन्त्रम्, ममताकुशवाहायै चन्दायै च एनआरएलएमयोजनायाः अन्तर्गतं स्वयं सहायता समूहाय द्विकोटिचत्वारिंशल्लक्षसप्तचत्वारिंशदधिकलक्षरूप्यकाणां चेकपत्रं प्रदत्तम्।
तथैव सुशीलायै मुख्यमन्त्रीआवासयोजनायाः ग्रामीणघटकस्य अन्तर्गतं गृहकुञ्चिका, दीपेशखरे महोदयाय मुख्यमन्त्रीअभ्युदययोजनायाः अन्तर्गतं समीक्षाधिकारीरूपेण चयनप्रमाणपत्रम्, मैजाफातिमायै कॉक्लियरइम्प्लाण्टयोजनायाः अन्तर्गतं चिकित्साव्ययार्थं षट्लक्षरूप्यकाणां स्वीकृतिराशिः, दिनेशाय सीएमयुवाउद्यमीविकासअभियानस्य अन्तर्गतं चतुर्लक्षपञ्चाशत्सहस्ररूप्यकाणां चेकपत्रम्, मिथिलेशाय कस्टमहायरिङ्गसेण्टरस्य कुञ्चिका, विनोदकुमाराय फार्ममशीनरीबैङ्कयोजनायाः अन्तर्गतं अष्टलक्षरूप्यकाणां चेकपत्रं प्रदत्तम्।
मुख्यमन्त्री कबरईबन्धयोजनायाः अन्तर्गतं पुनर्वासप्रतिपूर्तिं अपि प्रदत्तवान्।
अस्य अवसरस्य समये मुख्यमन्त्री योगीआदित्यनाथः कबरईबन्धयोजनायाः अन्तर्गतं पुनर्वासप्रतिपूर्तिं अपि प्रदत्तवान्। एतेषु विद्यादेव्यै द्विकोटिषट्षष्टिलक्षाधिकरूप्यकाणां चेकपत्रम्, लक्ष्मीनारायणाय पञ्चपञ्चाशल्लक्षषट्षष्टिसहस्राधिकरूप्यकाणां चेकपत्रम्, धर्मेन्द्रसिंहयादवाय एकत्रिंशल्लक्षाष्टानवतिसहस्राधिकरूप्यकाणां चेकपत्रम्, पूरनलालाय चतुर्विंशल्लक्षषडशीतिसहस्राधिकरूप्यकाणां चेकपत्रम्, राजेन्द्राय षोडशलक्षषड्विंशतिसहस्राधिकरूप्यकाणां चेकपत्रम्, मुन्न्यै चतुर्दशलक्षसप्तसप्ततिसहस्राधिकरूप्यकाणां चेकपत्रम्, अमरनाथाय दशलक्षपञ्चाण्णवतिसहस्राधिकरूप्यकाणां चेकपत्रम् तथा संजयसिंहाय नवलक्षाष्टानवतिसहस्राधिकरूप्यकाणां चेकपत्रं प्रदत्तम्।
Hindusthan Samachar / Dheeraj Maithani