Enter your Email Address to subscribe to our newsletters

फर्रुखाबादम्, 21 जूनमासः (हि.स.)।विश्वसंगीतदिवसस्य अवसरे रविवासरे उत्तरप्रदेशस्य फर्रुखाबादजनपदे कलार्पणसंस्थया संगीतगोष्ठ्याः आयोजनम् अभवत्। अस्याम् कलाकारैः शास्त्रीयरागैः सह नूतनपुरातनगीतानां प्रस्तुतीकरणम् कृतम्।
नगरस्य जोगराजस्ट्रीटस्थिते संगीतकारस्य नीरजशुक्लस्य निवासे आयोजितायाम् अस्यां संगीतगोष्ठ्यां कलाकारैः उत्कृष्टप्रस्तुतिभिः सर्वेषां मनांसि मोहितानि।
कार्यक्रमस्य शुभारम्भः सरस्वत्याः समक्षं पुष्पार्पणेन कृतः। संगीतविधासंयोजकः ईशान्तमिश्रः संस्थायाः ध्येयगीतस्य गायनम् अकरोत्।
वरिष्ठसंगीतकारः नीरजशुक्लः तेरा राम जी करेंगे बेडा पार इत्यादिभजनानां उत्कृष्टां प्रस्तुतीम् अकरोत्।
ईशान्तमिश्रः प्यार दीवाना होता है मस्ताना भी होता है इति गीतं प्रस्तुतवान्।
अन्ताराष्ट्रीयगिटारवादकः सूरजशाक्यः स्वयमेव रचितायाः धुनः आधारेण गिटारवादनसहितां प्रस्तुतीम् अकरोत्। आयुषशुक्लः ढोलकवादनं क्लबबॉक्सवादनं च अकरोत्।
तबलावादकः निशियादवः उत्कृष्टां प्रस्तुतीम् अकरोत् यस्याम् नीरजशुक्लः सूरजशाक्यः च संगतिम् अकुरुताम्। रुद्राक्षशुक्लः ओरी सखि मङ्गल गाओ रे इति गीतस्य प्रस्तुतीम् अकरोत्।
वैभवसोमवंशी कैशियोवादनेन स्वां प्रस्तुतीम् अकरोत्।
निर्दोषशुक्लेन रामचरितमानसस्य चौपाय्याः संगीतमयी प्रस्तुतिर्दत्ता।
कार्यक्रमे नीरजशुक्लः संस्थया संगीतशिरोमणि सम्मानेन सम्मानितः। संगीतकारः नीरजशुक्लः संगीतसम्बद्धानां सूक्ष्मविषयाणां विषये प्रकाशं कुर्वन् अवदत् यत् कलासाधनया जीवने निखारः आयाति। संगीतं मनः मोदयति आत्मानं तर्पयति च। तत् विकारान् अपि नाशयति।
कार्यक्रमस्य सञ्चालनं संयोजकेन वैभवसोमवंशिना कृतम्। कार्यक्रमस्य व्यवस्थां मनोजकश्यपः राममोहनशुक्लः राजगौरवपाण्डेयः दिलीपकश्यपः इत्यादयः संभालितवन्तः।
Hindusthan Samachar / Dheeraj Maithani