Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 21 जूनमासः (हि.स.)।द्वादशमस्य अन्ताराष्ट्रिययोगदिवसस्य अवसर उपलक्ष्ये रविवासरे पुलिस लाइन परेड ग्राउण्डमध्ये सामूहिकयोगाभ्यासकार्यक्रमस्य आयोजनम् अभवत्। कार्यक्रमे विन्ध्याचलपरिक्षेत्रस्य पुलिस आरक्ष्युपमहानिरीक्षिका पूनम तथा आरक्ष्यधीक्षिका अपर्णा रजत कौशिकः पुलिसाधिकारिभिः कर्मचारिभिः च सह योगाभ्यासं कृतवत्यौ।
कार्यक्रमे मुख्यातिथिरूपेण उत्तरप्रदेशपर्यटनविभागस्य महानिदेशकः डॉ वेदपति मिश्र सहभागी अभवत्। पुलिसाधिकारिभिः तस्य पुष्पगुच्छप्रदानेन स्वागतं कृतम्। योगगुरुणा ज्वाला सिंहेन उपस्थितेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च विविधयोगासनानां प्राणायामस्य च अभ्यासः कारितः। सः नियमितयोगाभ्यासं स्वस्थजीवनस्य आधारः इति वर्णयन् करो योगः रहो निरोगः इति सन्देशं प्रदत्तवान्।
अस्मिन् अवसरे योगस्य शारीरिकमानसिकलाभानां विषये अपि प्रकाशः क्षिप्तः तथा सर्वे जनाः स्वदैनिकजीवने योगस्य समावेशाय प्रेरिताः।
कार्यक्रमस्य समापनसमये पुलिस उपमहानिरीक्षिका पूनम मुख्यातिथिं डॉ वेदपति मिश्रं तथा पुलिस अधीक्षिका अपर्णा रजत कौशिक योगगुरुं ज्वाला सिंहं स्मृतिचिह्नं प्रदाय सम्मानितवती।
अस्मिन् अवसरे अपर पुलिस अधीक्षकः नगरक्षेत्रस्य, सर्वे क्षेत्राधिकारीणः, प्रतिसार निरीक्षकः तथा पुलिस लाइन एवं पुलिस कार्यालयस्य अधिकारिणः कर्मचारीणश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani