Enter your Email Address to subscribe to our newsletters


—डॉ. सम्पूर्णानंद स्पोर्ट्सस्थानके 'ॐ'कारोच्चारणस्य मंत्राणां च गूंजनेन जनैः कृतः सामूहिक योगःवाराणसी, 21 जूनमासः (हि.स.)।द्वादशस्य अन्तरराष्ट्रीययोगदिवसस्य अवसरे रविवासरे आदियोगीभगवतः शिवस्य नगरी काशी सम्पूर्णतया योगमयी दृश्यते स्म। गृहेषु, गङ्गातटेषु, सार्वजनिकोद्यानेषु, नौकासु, बजडेषु, विश्वविद्यालयेषु, महाविद्यालयेषु तथा नगरात् आरभ्य ग्राम्याञ्चलानां पुलिसस्थानकेषु पर्यन्तं योगस्य प्रवाहः अभवत्। उदयमानसूर्यं प्रणम्य जनाः सूर्यनमस्कारं कृतवन्तः तथा च विविधयोगासनानां माध्यमेन स्वस्थजीवनस्य सन्देशं प्रसारितवन्तः। अस्मिन् योगमहाभियाने अर्धजनसंख्या अर्थात् महिलाः अपि न पश्चादवर्तन्त। जिलाभरे लक्षशः जनाः विविधस्थलेषु सामूहिकं व्यक्तिगतं च योगाभ्यासं कृतवन्तः।
नगरस्य सिगरास्थिते डॉ सम्पूर्णानन्दक्रीडाङ्गणे योगदिवसस्य विशालतमः कार्यक्रमः आयोजितः। सूर्योदयस्य अरुणिमायां मध्ये ॐकारोच्चारणस्य वैदिकमन्त्राणां च निनादेन सामूहिकयोगोत्सवस्य शुभारम्भः अभवत्। आनन्दकानननाम्ना विख्याते काश्यां आयोजिते अस्मिन् कार्यक्रमे महापौरः अशोककुमारतिवारी, नगरायुक्तः हिमांशुनागपालः अन्ये च गण्यमान्यजनाः उपस्थिताः आसन्। तेषां सान्निध्ये सहस्रशः नागरिकाः एकत्र प्राणायामं विविधयोगासनाभ्यासं च कृत्वा स्वस्थसन्तुलितजीवनस्य सन्देशं दत्तवन्तः।
नगरायुक्तः हिमांशुनागपालः अवदत् यत् आयोजनस्य भव्यतां सुव्यवस्थिततां च सुनिश्चितीकर्तुं नगरनिगमेन व्यापकाः सिद्धताः कृताः आसन्। प्रातः षड्वादनात् पूर्वमेव क्रीडाङ्गणे योगासनपटलानि, पेयजलम्, स्वच्छता, सुरक्षा च सम्यक् व्यवस्थिताः आसन्।
एतस्मिन्नेव क्रमे महात्मागान्धीकाशीविद्यापीठस्य क्रीडाक्षेत्रे राष्ट्रियप्राकृतिकचिकित्सासंस्थानस्य पुणेनगरस्य तथा आयुषमन्त्रालयस्य सहयोगेन सामूहिकयोगाभ्यासकार्यक्रमः आयोजितः। कार्यक्रमे विश्वविद्यालयस्य कुलपतिः प्रो आनन्दकुमारत्यागी, उत्तरप्रदेशसरकारस्य राज्यमन्त्री स्वतन्त्रप्रभारयुक्तः रवीन्द्रजायसवालः तथा जिलाधिकारी सत्येन्द्रकुमारः अपि सहभागी अभवन् तथा च योगस्य महत्त्वं प्रतिपादितवन्तः।
वाराणसीपुलिसपङ्क्तौ पुलिसआयुक्तस्य मोहितअग्रवालस्य नेतृत्वे शतशः पुलिसाधिकारिणः जवानाश्च सामूहिकयोगाभ्यासं कृतवन्तः। पुलिसआयुक्तः सर्वान् स्वस्थजीवनशैलीस्वीकरणाय नियमितयोगाभ्यासाय च प्रेरितवान्। अस्मिन्नवसरे अपरपुलिसआयुक्तः, त्रयाणां क्षेत्राणां डीसीपीपदाधिकरणः, एसीपीपदाधिकरणः अन्ये च अधिकारिणः योगाभ्यासं कुर्वन्तः दृष्टाः।
तथैव नगरस्य सर्वेषु पुलिसस्थानकेषु स्थानकप्रभारिणः पुलिसकर्मिणश्च योगदिवसावसरे विशेषसत्राणि आयोजितवन्तः। पुलिसउपमहानिरीक्षकः अपि स्वकार्यालयपरिसरे अधिकारिभिः कर्मचारीभिश्च सह योगाभ्यासं कृतवान्।
अपरत्र गङ्गातटे आयोजितेषु योगदिवसकार्यक्रमेषु विदेशीयपर्यटकाः अपि उत्साहपूर्वकं सहभागी अभवन्। वेदपाठीबटुकैः सह विदेशीयपर्यटकाः योगसाधनां कुर्वन्तः दृष्टाः, येन भारतीययोगपरम्परायाः वैश्विकी स्वीकृतिः इति सन्देशः प्रसारितः।
तथैव रेलपुलिसउपाधीक्षकस्य नेतृत्वे जीआरपीबलस्य जवानाः अधिकारिणश्च वाराणसीजङ्क्शनपरिसरे सामूहिकयोगाभ्यासं कृत्वा योगस्य प्रति जागरूकतायाः सन्देशं दत्तवन्तः।
काश्यां अन्तरराष्ट्रीययोगदिवसस्य उत्साहः प्रभातकालात् आरभ्य प्रातः अष्टवादनपर्यन्तं दृष्टः। शिवस्य नगरी, या अनादिकालात् आनन्दकाननम् अर्थात् आनन्दस्य वनम् इति कथ्यते, सा पुनरेकवारं योगस्य माध्यमेन विश्वाय स्वास्थ्यस्य, सन्तुलनस्य, सकारात्मकजीवनशैल्याः च सन्देशं दत्तवती।
Hindusthan Samachar / Dheeraj Maithani