योगो भारतस्य आत्मा सनातनसंस्कृतेः शाश्वत चेतना च : राज्यपालः
नैनीतालम्, 21 जूनमासः (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य अवसरे उत्तराखण्डस्य राज्यपालः सेवानिवृत्तः लेफ्टिनेण्टजनरल गुरमीतसिंहः रविवासरे लोकभवने आयोजिते सामूहिकयोगाभ्यासकार्यक्रमे सहभागितां कृत्वा उक्तवान् यत् योगः भारतस्य आत्मा, अस्माकं संस्कृतेः
नैनीताल लोकभवन में योगाभ्यास करते राज्यपाल।


नैनीतालम्, 21 जूनमासः (हि.स.)।

अन्ताराष्ट्रिययोगदिवसस्य अवसरे उत्तराखण्डस्य राज्यपालः सेवानिवृत्तः लेफ्टिनेण्टजनरल गुरमीतसिंहः रविवासरे लोकभवने आयोजिते सामूहिकयोगाभ्यासकार्यक्रमे सहभागितां कृत्वा उक्तवान् यत् योगः भारतस्य आत्मा, अस्माकं संस्कृतेः प्राणः तथा सनातनसभ्यतायाः शाश्वती चेतना अस्ति। तेन उक्तं यत् योगं व्यक्तेः परिवारपर्यन्तं, परिवारात् समाजपर्यन्तं, समाजात् विश्वकल्याणपर्यन्तं महायात्रायाः माध्यमं कर्तव्यम्।

राज्यपालः उक्तवान् यत् अन्ताराष्ट्रिययोगदिवसः भारतस्य सनातनसंस्कृतेः, ऋषिपरम्परायाः तथा आध्यात्मिकचेतनायाः वैश्विकोत्कर्षस्य महापर्व अस्ति। अद्य सम्पूर्णं विश्वं भारतस्य तस्याः ज्ञानपरम्परायाः सम्मानं करोति, या मानवतायै स्वास्थ्यस्य, सन्तुलनस्य, शान्तेः तथा आत्मबोधस्य मार्गं प्रदर्शितवती। तेन उक्तं यत् योगः शरीरस्य, मनसः, बुद्धेः, आत्मनः तथा परमात्मनः दिव्यमिलनस्य सेतुः अस्ति तथा सन्तुलितसार्थकजीवनस्य विज्ञानम् अस्ति। राज्यपालः उक्तवान् यत् हिमालयस्य तपोभूमिः उत्तराखण्डः प्राचीनकालात् योगस्य, ध्यानस्य तथा आध्यात्मिकसाधनायाः केन्द्रं वर्तते तथा अत्रतः प्राप्तं ज्ञानं मानवतायै आत्मोन्नतेः मार्गं प्रदत्तवान्।

तेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः उपक्रमस्य उल्लेखं कृत्वा उक्तं यत् योगः अद्य वैश्विकजनान्दोलनं जातम् अस्ति तथा संयुक्तराष्ट्रसङ्घेन अन्ताराष्ट्रिययोगदिवसस्य मान्यता भारतस्य सांस्कृतिकशक्तेः सम्मानः अस्ति। तेन उक्तं यत् योगः प्रकृत्या सह सामञ्जस्यं, संयमितजीवनं, पर्यावरणसंरक्षणं तथा सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति भावनां साकारयति। राज्यपालेन सर्वेभ्यः जनभ्यः योगं स्वजीवनस्य संस्कारः, परिवारस्य परम्परा तथा राष्ट्रनिर्माणस्य आधारः कर्तुम् आह्वानं कृतम्।

कार्यक्रमे कुमाऊँविश्वविद्यालयस्य योगविभागस्य विद्यार्थिभिः योगाभ्यासस्य तथा लयबद्धयोगस्य प्रस्तुतिर्दत्ता।

अस्य अवसरस्य समये परिसहायराज्यपालः अमितश्रीवास्तवः, सुमितकुमारशादिजा, संयुक्तनिदेशकः सूचना डॉ नितिनउपाध्यायः, कन्ट्रोलरः प्रमोदचमोली तथा लोकभवनस्य अधिकारीणः कर्मचारिणश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani