अन्ताराष्ट्रिय-योगदिवसे रेड्-रोड्-मार्गे भव्यः योगोत्सवः, प्रधानमन्त्री नरेन्द्रमोदी अवदत्— योगः मानवचेतनया सह संयोजनस्य माध्यमम्
कोलकातानगरम्, २१ जूनमासः (हि.स.)। द्वादशतमस्य अन्ताराष्ट्रिय-योगदिवसस्य अवसरे रविवासरे कोलकातानगरस्य रेड्-रोड्-मार्गे भव्यः योगोत्सवः आयोजितः। अस्मिन् कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी योगाभ्यासे सहभागित्वं कृतवान्। तेन सह पश्चिमबङ्गराज्यस्य मु
रेड रोड पर योग दिवस कार्यक्रम में पीएम मोदी सीएम शुभेंदु अधिकारी और राज्यपाल आर एन रवि


कोलकातानगरम्, २१ जूनमासः (हि.स.)। द्वादशतमस्य अन्ताराष्ट्रिय-योगदिवसस्य अवसरे रविवासरे कोलकातानगरस्य रेड्-रोड्-मार्गे भव्यः योगोत्सवः आयोजितः। अस्मिन् कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी योगाभ्यासे सहभागित्वं कृतवान्। तेन सह पश्चिमबङ्गराज्यस्य मुख्यमन्त्री शुभेन्द्वधिकारी, राज्यपालः आर.एन. रविः, राज्यसर्वकारस्य मन्त्रिणः, विधानसभाध्यक्षः रथीन्द्रनाथ-बसुः, विधायकाः, छात्राः छात्र्यश्च, क्रीडकाः, योगसाधकाः तथा विविधसङ्गठनानां प्रतिनिधयः उपस्थिताः आसन्। प्रधानमन्त्रीणः आगमनं योगदिवसस्य मुख्यकार्यक्रमं च दृष्ट्वा समग्रक्षेत्रे सुदृढा सुरक्षा-व्यवस्था कृता आसीत्।

प्रधानमन्त्री नरेन्द्रमोदी रविवासरस्य प्रातःकाले रेड्-रोड्-मार्गम् आगत्य मञ्चात् देशवासिभ्यः अन्ताराष्ट्रिय-योगदिवसस्य शुभकामनाः अददात्। सः अवदत् यत् जूनमासस्य एकविंशतितमः दिवसः वर्षस्य सः दिवसः अस्ति, यस्मिन् पृथिव्याः कस्यचित् भागे दीर्घतमः दिवसः भवति। किन्तु अन्ताराष्ट्रिय-योगदिवसत्वेन अस्य मान्यताप्राप्तेः अनन्तरम् अस्य दिवसस्य महत्त्वम् अधिकं वर्धितम्। योगः सर्वान् संयोजयितुं समर्थं माध्यमम् अस्ति, तथा च अद्य जूनमासस्य एकविंशतितमः दिवसः विश्वस्य महत्तमेषु उत्सवेषु अन्यतमः अभवत् इति सः उक्तवान्।

प्रधानमन्त्री अवदत् यत् योगः भारतस्य प्राचीनपरम्परायाः अंशः सन्नपि अधुना सम्पूर्णविश्वस्य जीवनशैल्याः अभिन्नः भागः भवति। भारते हिमालयात् हिन्द-महासागरपर्यन्तं, पूर्वोत्तरप्रदेशेभ्यः बङ्गप्रदेशपर्यन्तं, पश्चिमे सौराष्ट्रप्रदेशपर्यन्तं योगस्य ऊर्जा दृश्यते इति तेन उक्तम्। कोलकातानगरे योगदिवसस्य कार्यक्रमे सहभागित्वं स्वकीयं सौभाग्यम् इति अपि सः अवदत्।

सः पश्चिमबङ्गस्य आध्यात्मिक-सांस्कृतिक-परम्परायाः उल्लेखं कृत्वा अवदत् यत् एषा श्रीअरविन्दस्य, स्वामि-विवेकानन्दस्य, श्रीरामकृष्ण-परमहंसस्य च पावनी भूमि अस्ति। अस्यां भूमौ योगदिवसस्य आयोजनं विशेषमहत्त्वं धारयति। श्रीअरविन्दस्य विचारान् उद्धृत्य प्रधानमन्त्री अवदत् यत् श्रीअरविन्दः स्वस्य समग्रजीवनं योगेन सह सम्बद्धम् अमन्यत। वस्तुतः योगः मानवचेतनया सह संयोजनस्य मार्गः अस्ति।

प्रधानमन्त्री कोलकातानगरस्य नागरिकाणाम् अपि प्रशंसाम् अकरोत्। योगदिवसस्य आयोजनार्थं स्वच्छतायां, सुव्यवस्थायां नागरिककर्तव्यपालने च नगरवासिनः महान् परिश्रमः कृतवन्तः इति तेन उक्तम्। नागरिकानां एषः उत्साहः सहयोगश्च प्रशंसनीयः इति अपि सः अवदत्।

प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् योगः केवलम् एकदिवसीयकार्यक्रमत्वेन न सीमितः भवेत्, अपितु दैनन्दिनजीवनस्य अभिन्नः भागः भवेत्। योगः स्वस्थजीवनाय साहाय्यं करोति तथा मानसिक-शारीरिक-स्वास्थ्ययोः संवर्धनस्य मार्गं प्रदर्शयति। योगः जीवनशैल्यां सन्तुलनम् आनयति तथा वयोवृद्धावस्थायामपि जनान् ऊर्जस्विनः धारयति। श्रीकृष्णेन अपि श्रीमद्भगवद्गीतायाम् योगस्य महत्त्वम् प्रतिपादितम् इति तेन उक्तम्। समाजः स्वस्थः चेत् राष्ट्रमपि स्वस्थं भविष्यति इति प्रधानमन्त्री अवदत्।

प्रधानमन्त्रिणः सम्बोधनानन्तरं रेड्-रोड्-मार्गे सामूहिक-योगाभ्यासः प्रारब्धः। अस्मिन् समये मुख्यमन्त्री शुभेन्दु-अधिकारी प्रधानमन्त्रिण: नरेन्द्रमोदिनः स्वागतं कृत्वा अवदत् यत् पश्चिमबङ्गे योगस्य प्राचीना परम्परा वर्तते। प्रधानमन्त्रीणः उपस्थित्या राज्ये योगदिवसस्य आयोजनम् ऐतिहासिकम् अभवत्। दीर्घकालपर्यन्तं राज्यसर्वकार-स्तरे योगदिवसविषये विशेष: प्रयत्न: न अभवत्, किन्तु अधुना राज्ये योगं प्रति जनानाम् उत्साहः वर्धितः इति सः अवदत्।

मुख्यमन्त्री पुनः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वेन तेषां निर्णयैश्च अद्य पश्चिमबङ्गे योगदिवसस्य एतादृशं विशालम् आयोजनं सम्भवम् अभवत्। रेड्-रोड्-मार्गे आयोजितस्य योगकार्यक्रमस्य कृते द्विलक्ष-सप्तपञ्चाशत्सहस्राणि (२,५७,०००) जनाः पञ्जीकृतवन्तः इति तेन उक्तः। योगदिवस-कार्यक्रमे सहभागित्वाय प्रधानमन्त्रीणं प्रति धन्यवादः अपि ज्ञापितः।

रेड्-रोड्-मार्गे मुख्यः योगकार्यक्रमः प्रातः प्रायः षट्-वादन-त्रिंशन्निमेषसमये प्रारब्धः। कार्यक्रमे प्रधानमन्त्रिणा सह प्रायः पञ्चत्रिंशत्सहस्र-जनानां योगाभ्यासस्य व्यवस्था कृता आसीत्। सहभागिभ्यः प्रातः षट्-वादन-पञ्चदशनिमेषपर्यन्तं कार्यक्रमस्थले प्रवेशस्य निर्देशः दत्तः आसीत्। प्रातःकालादेव नगरस्य विविध-भागेभ्यः जनाः रेड्-रोड्-मार्गस्य दिशि आगच्छन्तः दृष्टाः।

योगदिवसस्य कार्यक्रमे सहभागिनां सुविधार्थं रविवासरस्य प्रातःकालात् एव कोलकाता-मेट्रो-सेवाः प्रारब्धाः। ब्लू-रेखा, ग्रीन-रेखा सहिताः सर्वाः मेट्रो-रेखाः प्रातः चतुर्वादनानन्तरं सञ्चालिताः, येन दूरस्थप्रदेशेभ्यः आगच्छन्तः सहभागिनः समयेन रेड्-रोड्-मार्गम् उपगन्तुं शक्नुयुः।

प्रधानमन्त्रिणः आगमनं दृष्ट्वा रेड्-रोड्-मार्गे तदुपकण्ठप्रदेशेषु च बहुस्तरीया सुरक्षा-व्यवस्था कृता आसीत्। बहुसंख्यकाः आरक्षककर्मिणः सुरक्षा-बलस्य सदस्याश्च नियुक्ताः आसन्। यातायातव्यवस्थायाः सुचारुसञ्चालनार्थम् अपि विशेषाः प्रबन्धाः कृताः। कार्यक्रम-स्थले प्रवेशार्थं निर्धारितः समयः सुरक्षा-परीक्षणस्य व्यवस्थाश्च सुनिश्चिताः आसन्।

अन्ताराष्ट्रिय-योगदिवसस्य अवसरे रेड्-रोड्-मार्गे आयोजितः अयं कार्यक्रमः पश्चिमबङ्गस्य कृते विशेषमहत्त्वपूर्णः अभवत्। प्रधानमन्त्री नरेन्द्रमोदिनः उपस्थित्या, सहस्रशः जनानां सहभागित्वेन, व्यापक-प्रशासनिक-सज्जाभिश्च कोलकातानगरे योगदिवसस्य मुख्य-कार्यक्रमः सफलतया सम्पन्नः।

Hindusthan Samachar / Divya Ranjan