कोलकातानगरे भारतीयनौसेनायै त्रीणि स्वदेशीयुद्धपोतानि समर्पितानि, प्रधानमन्त्री अवदत्— भारतं इदानीं रक्षाक्षेत्रे प्रमुखनिर्मातारूपेण उदेति
नवदेहली, जूनमासस्य २१ दिनाङ्कः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे पश्चिमबङ्गस्य कोलकातानगरे श्यामाप्रसादमुखर्जी-पत्तने आयोजिते भव्यसमारोहे भारतीयनौसेनायै त्रीणि अत्याधुनिकानि स्वदेशीयुद्धपोतानि— आईएनएस अग्रय, आईएनएस दूनागिरिः तथा आईएनएस स
कोलकाता के श्यामा प्रसाद मुखर्जी पोर्ट पर रविवार को आयोजित कार्यक्रम के दौरान भारतीय नौसेना में शामिल किए गए तीन अत्याधुनिक स्वदेशी युद्धपोतों व जहाजों आईएनएस अग्रय, आईएनएस दूनागिरी और आईएनएस संशोधक के कमीशनिंग समारोह के अवसर पर उपस्थित प्रधानमंत्री नरेन्द्र मोदी।


भारत के तीन अत्याधुनिक स्वदेशी युद्धपोत व जहाज आईएनएस अग्रय, आईएनएस दूनागिरी और आईएनएस संशोधक (प्रतीकात्मक चित्र)।


नवदेहली, जूनमासस्य २१ दिनाङ्कः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे पश्चिमबङ्गस्य कोलकातानगरे श्यामाप्रसादमुखर्जी-पत्तने आयोजिते भव्यसमारोहे भारतीयनौसेनायै त्रीणि अत्याधुनिकानि स्वदेशीयुद्धपोतानि— आईएनएस अग्रय, आईएनएस दूनागिरिः तथा आईएनएस संशोधकः— राष्ट्राय समर्पितवान्। अस्मिन् अवसरे नौसेनाध्यक्षस्य वरिष्ठसैन्याधिकारिणां च उपस्थितौ प्रधानमन्त्री सूत्रं छित्त्वा त्रीण्यपि पोतानि औपचारिकरूपेण भारतीयनौसेनायां समावेशितवान्।

समारोहे प्रधानमन्त्री नौसेनां तथा एतेषां परियोजनानां सम्बद्धान् वैज्ञानिकान्, अभियन्तॄन्, श्रमिकांश्च अभिनन्दितवान्। सः अवदत् यत् समुद्रीयसामर्थ्यं विना कश्चन देशः महाशक्तिरूपेण प्रतिष्ठां प्राप्तुं न शक्नोति, यतः विकासः, सुरक्षा, समृद्धिश्च समुद्रेण सह सम्बद्धाः सन्ति। अद्य विश्वस्य अधिकांशः व्यापारः समुद्रमार्गेण भवति, विश्वं संयोजयन्ति विशाल-दत्तांश-जालानि अपि समुद्रतलेन एव गच्छन्ति। भविष्ये आवश्यकखनिजानि, गभीरसमुद्रीयसंसाधनानि, ऊर्जायाः नवीनस्रोतांसि च समुद्रेण सह एव सम्बद्धानि भविष्यन्ति।

अस्मिन् एव कार्यक्रमे त्रीणां युद्धपोतानां नौसेनायां आधिकारिकप्रवेशस्य समये पारम्परिक-बिगुल-ध्वनिना सह राष्ट्रध्वजः नौसेनाध्वजश्च आरोहितौ। विश्व-हाइड्रोग्राफी-दिवसस्य अवसरे देशस्य अत्याधुनिकः जलसर्वेक्षणपोतः आईएनएस संशोधकः भारतीयनौसेनायाः भागत्वेन सम्मिलितः। प्रधानमन्त्री पोतानां निरीक्षणम् अकरोत् तथा तेषु नियुक्तव्यैः चालकदल-सदस्यैः सह मिलित्वा तान् प्रोत्साहितवान्।

रक्षाक्षेत्रे आत्मनिर्भरतायाः विषये बलं दत्त्वा प्रधानमन्त्री अवदत् यत् भारतं केवलं रक्षोपकरणानां क्रेता भवितुम् न इच्छति, अपितु प्रमुखनिर्मातारूपेण उदेति। गतवर्षेषु भारतीयनौसेना स्वस्य परिसरे चत्वारिंशदधिकानि ‘मेड् इन इण्डिया’ युद्धपोतानि पनडुब्बी इत्यादयश्च समावेशितवती। आईएनएस विक्रान्तत: आरभ्य अद्यपर्यन्तस्य यात्रा भारतस्य वर्धमानात्मनिर्भरतायाः प्रतीकम् इति सः अवदत्।

रक्षोत्पादनस्य विवरणं प्रस्तौति स्म प्रधानमन्त्री यत् २०१४ तमे वर्षे देशस्य रक्षोत्पादनं प्रायः चत्वारिंशत्सहस्रकोटि-रूप्यकाणि आसीत्, यत् अधुना वर्धित्वा १.८ लक्षकोटि-रूप्यकाणि अभवत्। रक्षानिर्यातः अपि सप्तशतकोटि-रूप्यकेभ्यः वर्धित्वा प्रायः चत्वारिंशत्सहस्रकोटि-रूप्यकाणि प्राप्तः। अद्य भारतीय-रक्षोपकरणानि प्रायः अशीति-देशेषु निर्यात्यन्ते।

प्रधानमन्त्री अवदत् यत् अधुना समयः आगतः यदा भारतं सामुद्रिकशक्तेः उच्चतरस्तरं प्रति गन्तव्यम्। तदनुरूपं भारतं नौकानिर्माणक्षेत्रस्य कृते नूतनदृष्ट्या अग्रे गच्छति। गतवर्षेषु अनेके नीतिगतसुधाराः कृताः, देशीयनिर्माणक्षमतावर्धनाय विशेषपदानि अपि गृहीतानि। नौकानिर्माणम्, नौकामरम्मतम्, एमआरओ च विशाल-राष्ट्रीय-अभियानरूपेण परिगण्यन्ते।

सः अवदत् यत् एतत् पत्तनं देशस्य प्रथमोद्योगमन्त्रिणः डाॅ. श्यामाप्रसादमुखर्जी इत्यस्य नाम्ना नामितम् अस्ति। भारतदेश: यं नूतनं सामुद्रिकयुगं प्रति अग्रे गच्छति, तस्मिन् पश्चिमबङ्गस्य भूमिका अत्यन्तं महत्त्वपूर्णा भविष्यति। अत्र पत्तनानां, उद्योगानां, प्रतिभायाः, कौशलस्य च अपारः सम्भारः वर्तते, यः सामुद्रिकार्थव्यवस्थां नूतनशिखरं प्रति नेतुं समर्थः अस्ति। अग्रिमेषु कालेषु पश्चिमबङ्गः भारतस्य ब्लू-इकोनॉमी, सामुद्रिक-निर्माणोद्योगस्य, रसदव्यवस्थायाः तथा तटीयविकासस्य प्रमुखकेन्द्रं भविष्यति।

उल्लेखनीयं यत् भारतीयनौसेनायाः वारशिप-डिज़ाइन-ब्यूरो द्वारा अभिकल्पितानां एतेषां त्रीणां पोतानां निर्माणं कोलकातास्थितेन गार्डन रीच शिपबिल्डर्स एण्ड इञ्जीनियर्स संस्थया कृतम्। तेषां निर्माणे पञ्चसप्ततिशताधिकं स्वदेशीयसामग्रीणाम् उपयोगः कृतः, द्विशताधिकानि एमएसएमई संस्थानि च सहभागिन्यः आसन्।

आईएनएस दूनागिरिः प्रोजेक्ट्–१७ए अन्तर्गतं निर्मितः ६,६७०-टन-भारयुक्तः १४९-मीटर-दीर्घः अत्याधुनिकः स्टेल्थ-फ्रिगेट् अस्ति। अयं ब्रह्मोस-प्रक्षेपास्त्रैः तथा मध्यम-दूरत्व-पृष्ठतः-आकाश-प्रक्षेपास्त्र-प्रणाल्या सुसज्जितः अस्ति।

आईएनएस अग्रयः अर्णाला-श्रेण्याः पनडुब्बी-प्रतिरोधि-उथलजल-युद्धपोतः अस्ति। सप्तसप्तति-मीटर-दीर्घः अयं युद्धपोतः उथल-समुद्रप्रदेशेषु शत्रोः पनडुब्बीनां अन्वेषणं विनाशं च कर्तुं समर्थः अस्ति।

आईएनएस संशोधकः ३,४००-टन-भारयुक्तः उन्नतः जलसर्वेक्षणपोतः अस्ति, यः हाइड्रोग्राफिक-सर्वेक्षणे, सामुद्रिक-मानचित्रणे, सामुद्रिक-वैज्ञानिक-दत्तांश-सङ्ग्रहे च महत्त्वपूर्णां भूमिकां निर्वहिष्यति। अयं आधुनिक-अधोजल-सर्वेक्षण-प्रणालीभिः तथा दूरनियन्त्रित-सर्वेक्षण-प्रणालीभिः सुसज्जितः अस्ति।

Hindusthan Samachar / Divya Ranjan