विश्वयोगदिवसे काठमाण्डूनगरस्य सामूहिकयोगकार्यक्रमे स्वास्थ्यलाभानां सन्देशः प्रदत्तः
काठमाण्डूनगरम्, २१ जूनमासः (हि.स.)। नेपालस्य राजधान्या: काठमाण्डूनगरस्य दशरथ-रङ्गशालाक्रीडाङ्गणे रविवासरे द्वादशे विश्वयोगदिवसे भव्यः सामूहिकयोगकार्यक्रमः आयोजितः। अयं कार्यक्रमः नेपालस्य शिक्षा-तथा-क्रीडामन्त्रालयेन आयोजितः, यस्मिन् बहुसंख्यया शास
नेपाल में योग दिवस का कार्यक्रम


काठमाण्डूनगरम्, २१ जूनमासः (हि.स.)। नेपालस्य राजधान्या: काठमाण्डूनगरस्य दशरथ-रङ्गशालाक्रीडाङ्गणे रविवासरे द्वादशे विश्वयोगदिवसे भव्यः सामूहिकयोगकार्यक्रमः आयोजितः। अयं कार्यक्रमः नेपालस्य शिक्षा-तथा-क्रीडामन्त्रालयेन आयोजितः, यस्मिन् बहुसंख्यया शासकीयाधिकारिणः, कर्मचारीणः योगविशेषज्ञाश्च सहभागिनः अभवन्।

अस्मिन् कार्यक्रमे नेपालसर्वकारस्य मुख्यसचिवः सुमनराज-आर्यालः, विभिन्नमन्त्रालयानां सचिवाः, शासकीयकर्मचारिणः तथा योगगुरवः उपस्थिताः आसन्। सर्वे सहभागिनः सामूहिकरूपेण योगाभ्यासं कृत्वा योगस्य महत्त्वं तस्य स्वास्थ्यलाभांश्च प्रतिपादितवन्तः। अस्य वर्षस्य विश्वयोगदिवसकार्यक्रमस्य माध्यमेन अपि एष एव सन्देशः प्रदत्तः यत् आधुनिकजीवनशैल्याः विविधसमस्यानां मध्ये योगः प्रभावकारी स्वाभाविकश्च समाधानरूपेण उद्भूतः अस्ति।

प्रतिवर्षं जूनमासस्य एकविंशतितमे दिने अन्ताराष्ट्रिययोगदिवसः आचर्यते। अस्य दिवसस्य उद्देश्यं योगस्य माध्यमेन शारीरिक-मानसिक-आध्यात्मिकस्वास्थ्यविषये जनेषु जागरूकतां वर्धयितुम् अस्ति। नेपालसर्वकारः अपि प्रतिवर्षम् अस्मिन् अवसरे विविधकार्यक्रमान् आयोजयति, येन सामान्यजनाः स्वस्थजीवनशैलीम् अवलम्बितुं प्रेरिताः भवेयुः। विशेषज्ञानां मते नियमितयोगाभ्यासेन तनावः न्यूनीभवति, मानसिकैकाग्रता वर्धते, शरीरे च नवचैतन्यस्य सञ्चारः भवति।

Hindusthan Samachar / Divya Ranjan