योग दिवसः - हिमाचले सहस्रं जनाः अकुर्वन् योगं, राज्यपालमाधृत्य मुख्यमंत्री सुक्खुः सांसदोऽपि सम्मिलितौ
शिमला, 21 जूनमासः (हि.स.)। हिमाचलप्रदेशे रविवासरे द्वादशमस्य अन्ताराष्ट्रिययोगदिवसस्य अवसर उपलक्ष्ये बृहद् स्तरस्य योगकार्यक्रमाः आयोजिताः। राज्यस्य विभिन्नेषु जनपदेषु जनाः सामूहिकयोगाभ्यासं कृत्वा स्वस्थजीवनस्य सन्देशं प्रदत्तवन्तः। अस्मिन् वर्ष
योग दिवस पर कार्यक्रम


शिमला, 21 जूनमासः (हि.स.)।

हिमाचलप्रदेशे रविवासरे द्वादशमस्य अन्ताराष्ट्रिययोगदिवसस्य अवसर उपलक्ष्ये बृहद् स्तरस्य योगकार्यक्रमाः आयोजिताः। राज्यस्य विभिन्नेषु जनपदेषु जनाः सामूहिकयोगाभ्यासं कृत्वा स्वस्थजीवनस्य सन्देशं प्रदत्तवन्तः। अस्मिन् वर्षे अन्ताराष्ट्रिययोगदिवसस्य विषयः स्वस्थवृद्धावस्थायै योगः इति निर्धारितः अस्ति।

राज्यस्तरीयः कार्यक्रमः हमीरपुरजनपदस्य अणुस्थाने स्थिते सिंथेटिक ट्रैक ग्राउण्ड इत्यत्र आयोजितः, यस्मिन् मुख्यमन्त्री सुखविन्द्र सिंह सुक्खू मुख्यातिथिरूपेण सहभागी अभवत्। मुख्यमन्त्री योगाभ्यासे भागं गृहीत्वा जनान् नियमितरूपेण योगस्य स्वीकरणाय सन्देशं प्रदत्तवान्।

अपरत्र सिरमौरजनपदे जिलास्तरीयः कार्यक्रमः नाहननगरस्य ऐतिहासिके पक्का तालाब परिसरे आयोजितः। आयुषविभागेन आयोजिते अस्मिन् कार्यक्रमे बहुसंख्यकाः जनाः एकत्रिताः सन्तः योगाभ्यासं कृतवन्तः। कार्यक्रमे शिमलासंसदीयक्षेत्रस्य सांसदः सुरेश कश्यप, नाहनस्य काङ्ग्रेसविधायकः अजय सोलङ्की तथा अन्ये गणमान्यजनाः उपस्थिताः आसन्। अस्मिन् अवसरे सांसदः सुरेश कश्यप उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः प्रयासैः योगाय वैश्विकी मान्यता प्राप्ता अस्ति तथा अद्य विश्वस्य अनेके देशाः भारतस्य अनुसरणं कृत्वा योगं स्वीकुर्वन्ति।

राजधानी शिमलानगरस्य ऐतिहासिके रिजक्रीडांगणे अपि अन्ताराष्ट्रिययोगदिवसस्य भव्यं आयोजनम् अभवत्। हिमाचलप्रदेशपुलिसविभागस्य आयुषविभागस्य च संयुक्ततत्त्वावधाने आयोजिते अस्मिन् कार्यक्रमे पञ्चसहस्राधिकाः जनाः सहभागी अभवन्। कार्यक्रमे हिमाचलप्रदेशस्य राज्यपालः कविन्द्र गुप्ता मुख्यातिथिरूपेण उपस्थितः आसीत्। तेन सह तस्य पत्नी बिन्दु गुप्ता अपि उपस्थितवती। प्रतिपक्षनेता जयराम ठाकुरः, शिमलानगरस्य महापौरः सुरेन्द्र चौहान, वरिष्ठपुलिसाधिकारिणः, विविधशासकीयविभागानां कर्मचारीणः, छात्राः, महिलाः, वरिष्ठनागरिकाः, पर्यटकाः तथा सामान्यजनाः अपि योगाभ्यासे सहभागिनोऽभवन्।

अस्मिन् अवसरे राज्यपालः कविन्द्र गुप्ता उक्तवान् यत् योगः भारतस्य परम्परायाः संस्कृतेः च महत्त्वपूर्णः अङ्गः अस्ति। सः उक्तवान् यत् अद्य सम्पूर्णं विश्वं योगदिवसं आचरति तथा एतत् भारतस्य प्राचीनज्ञानपरम्परायाः वैश्विकस्वीकारस्य प्रमाणम् अस्ति। सः जनान् योगं स्वदैनिकजीवनस्य अङ्गत्वेन स्वीकर्तुम् आह्वानं कृत्वा उक्तवान् यत् स्वस्थशरीरम् एव स्वस्थमनसः आधारः भवति।

कार्यक्रमे हिमाचलप्रदेशस्य पुलिसमहानिदेशकः अशोक तिवारी अपि उपस्थितः आसीत्। सः उक्तवान् यत् योगः केवलं शारीरिकव्यायामः न, अपितु जीवनयापनस्य एका पद्धतिः अस्ति। स्वस्थशरीरम्, शान्तमनः तथा सकारात्मकचिन्तनम् एकस्य सुदृढसमाजस्य आधारशिलाः सन्ति। सः उक्तवान् यत् हिमाचलप्रदेशपुलिसविभागः विधिव्यवस्थायाः संरक्षणेन सह स्वास्थ्यस्य, अनुशासनस्य तथा नशामुक्तसमाजस्य संवर्धनाय अपि प्रतिबद्धः अस्ति।

रिजक्रीडांगणे हिमाचलप्रदेशविश्वविद्यालयस्य योगविभागेन योगप्रदर्शनस्य सञ्चालनं कृतम्। प्रशिक्षकैः सहस्रशः प्रतिभागिनः विविधयोगासनानां, प्राणायामस्य तथा ध्यानविधीनाम् अभ्यासं कारितवन्तः। अस्मिन् समये सर्वेभ्यः प्रतिभागिभ्यः योगं दैनिकजीवने स्वीकर्तुं तथा स्वस्थस्य नशामुक्तस्य च समाजस्य निर्माणे योगदानं दातुं शपथः अपि दिलापिता।

अपरत्र कुल्लूजनपदे भुन्तरविमानस्थानके अपि अन्ताराष्ट्रिययोगदिवसस्य अवसर उपलक्ष्ये विशेषकार्यक्रमः आयोजितः। अत्र जनाः सामूहिकयोगाभ्यासं कृत्वा स्वास्थ्यस्य प्रति जागरूकतायाः सन्देशं प्रदत्तवन्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani