Enter your Email Address to subscribe to our newsletters

बैतूले 12तमः अंतरराष्ट्रीय योग दिवसः उत्साहेन समाचरितः , हॉकी एस्ट्रोटर्फक्रीडांगणे सहस्रजनाः सामूहिकमकुर्वन् योगाभ्यासम्
बैतूलम्, 21 जूनमासः (हि.स.)।
अन्ताराष्ट्रिययोगदिवसस्य अवसर उपलक्ष्ये रविवासरे बैतूलस्य हॉकी एस्ट्रोटर्फक्रीडांगणे जिलास्तरीयः मुख्यकार्यक्रमः भव्येन उत्साहपूर्णेन च वातावरणेन आयोजितः। स्वस्थायुषे योगः इति विषयाधारिते अस्मिन् कार्यक्रमे भारतीयजनतापक्षस्य प्रदेशाध्यक्षः बैतूलविधायकः च हेमन्त खण्डेलवाल प्रशासनिकाधिकारिभिः, जनप्रतिनिधिभिः, विद्यार्थिभिः तथा नागरिकैः सह सामूहिकयोगाभ्यासं कृत्वा योगस्य महत्त्वस्य सन्देशं प्रदत्तवान्।
कार्यक्रमं सम्बोधयन् हेमन्त खण्डेलवाल उक्तवान् यत् योगः केवलं व्यायामः न, अपितु स्वस्थस्य जागरूकस्य सशक्तस्य च समाजस्य आधारशिला अस्ति। सः उक्तवान् यत् स्वस्थाः नागरिकाः एव सुदृढराष्ट्रस्य निर्माणं कुर्वन्ति तथा देशं विकासस्य समृद्धेः च नूतनशिखराणि प्रति नयन्ति। सः उक्तवान् यत् अद्यतनायां धावनपूर्णजीवनशैल्यां योगः शारीरिकस्वास्थ्येन सह मानसिकसन्तुलनम् आत्मिकशान्तिं च प्रददाति। मनः उत्तमं चेत् तनुः अपि उत्तमा इति सन्देशं प्रददत् सः सर्वान् नागरिकान् नियमितयोगाभ्यासं स्वदैनिकदिनचर्यायाः अङ्गत्वेन स्वीकर्तुम् अपीलं कृतवान्।
प्रधानमन्त्रिणो मोदिनः प्रयासैः योगाय प्राप्ता वैश्विकी मान्यता
प्रदेशाध्यक्षः खण्डेलवाल उक्तवान् यत् भारतस्य प्राचीना योगपरम्परा वैश्विकमञ्चे प्रतिष्ठां प्राप्नोतु इति विषये प्रधानमन्त्री नरेन्द्रमोदिनः महत्त्वपूर्णा भूमिका आसीत्। तस्य प्रयासानां परिणामस्वरूपं वर्ष २०१५ तः सम्पूर्णं विश्वम् अन्ताराष्ट्रिययोगदिवसं आचरति। अद्य योगः सीमाभाषाभेदातीतः मानवस्वास्थ्यस्य कल्याणस्य च वैश्विकजनान्दोलनं जातम् अस्ति। सः उक्तवान् यत् योगः शरीरस्य मनसः आत्मनः च मध्ये सामञ्जस्यं स्थापयति तथा तनावस्य, अवसादस्य, जीवनशैलीसम्बद्धानां बहूनां समस्याणां समाधानार्थं प्रभावी माध्यमम् अस्ति।
समाहर्त्रा पुलिस अधीक्षकेण च सह सहस्रशः जनैः कृतः योगाभ्यासः
कार्यक्रमे मध्यप्रदेश जनअभियान परिषदः उपाध्यक्षः मोहन नागर, समाहर्ता डॉ सौरभ संजय सोनवणे, पुलिस अधीक्षकः वीरेन्द्र जैन इत्यादयः जिलाप्रशासनस्य वरिष्ठाधिकारिणः उपस्थिताः आसन्। बहुसंख्यकाः जनप्रतिनिधयः, शिक्षकाः, विद्यार्थिनः, सामाजिकसङ्गठनानां प्रतिनिधयः तथा सामान्यनागरिकाः योगासनानि प्राणायामं च कृत्वा स्वस्थजीवनस्य संकल्पं कृतवन्तः। योगाभ्यासस्य समये सम्पूर्णे स्टेडियममध्ये अनुशासनस्य उत्साहस्य च वातावरणं दृष्टिगोचरम् अभवत्। कार्यक्रमानन्तरं विद्यार्थिनः बालकाः च प्रदेशाध्यक्षेन हेमन्त खण्डेलवालेन सह छायाचित्राणि अपि गृहीतवन्तः।
जिलाभरे योगमयं अभवत् वातावरणम्
अन्तरराष्ट्रीययोगदिवसे जिलामुख्यालयेन सह सर्वेषु विकासखण्डमुख्यालयेषु, ग्रामपञ्चायतेषु, शैक्षणिकसंस्थासु तथा विविधसामाजिकसङ्गठनैः अपि योगकार्यक्रमाः आयोजिताः। सहस्रशः जनाः सामूहिकरूपेण योगाभ्यासं कृत्वा स्वस्थजीवनशैलीस्वीकरणस्य संकल्पं कृतवन्तः।
स्मृतिचिह्नं प्रदाय सम्मानितः
कार्यक्रमस्य समापनसमये समाहर्ता डॉ सौरभ संजय सोनवणे विधायकं भारतीयजनतापक्षप्रदेशाध्यक्षं च हेमन्त खण्डेलवालं स्मृतिचिह्नं प्रदाय सम्मानितवान्। अपरं एसडीएम अभिजीत सिंह सर्वेभ्यः अतिथिभ्यः, प्रतिभागिभ्यः तथा सहयोगिसंस्थाभ्यः कृतज्ञतां प्रकट्य कार्यक्रमस्य सफलायोजनार्थं धन्यवादं प्रदत्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani