Enter your Email Address to subscribe to our newsletters

डा. मयङ्कचतुर्वेदी
विश्वहिन्दूपरिषदः अन्ताराष्ट्रियाध्यक्षः वरिष्ठः अधिवक्ता च आलोककुमारः मन्यते यत् हिन्दुत्वं केवलं धार्मिकपरिचयः नास्ति, अपितु सामाजिकसमरसतायाः, सांस्कृतिकात्मविश्वासस्य तथा राष्ट्रनिर्माणस्य व्यापकदर्शनम् अस्ति। देहलीविश्वविद्यालयस्य छात्रराजनीतेः आरभ्य न्यायालयेषु हिन्दुहित-सम्बद्धप्रकरणानां पक्षसमर्थनपर्यन्तं दीर्घानुभवं धारयन् आलोककुमारः अद्य विहिपः शीर्षनेतृत्वे प्रतिष्ठितः अस्ति।
‘हिन्दुस्थानसमाचार’ इत्यस्मै प्रदत्ते विशेषसाक्षात्कारे तेन सामाजिकविषमतानां समूलोन्मूलनम्, हिन्दुसमाजस्य संगठनम्, धर्मान्तरणम्, ‘लव-जिहाद’, युवाशक्तेः भूमिका, राममन्दिरम्, कृष्णजन्मभूमिः, काशी तथा भोजशाला इत्यादिषु विषयेषु स्वमतं स्पष्टतया प्रतिपादितम्। अयोध्यायाः राममन्दिरसम्बद्धे कथितवित्तीया-नियमितताप्रकरणेऽपि सः अवदत्—“भगवतः रामस्य नाम्ना प्राप्तस्य प्रत्येकं रूप्यकस्य विषये न्यासः उत्तरदायी अस्ति। दोषी यः कश्चन भवेत्, सः प्रभावशाली अपि चेत्, न कदापि क्षम्यते।”
विहिपः प्रथमप्राथमिकता—सामाजिक-विषमतायाः अन्तः
आलोककुमारः अवदत् यत् अद्यापि हिन्दुसमाजस्य सम्मुखे सर्वात् बृहत् समस्या सामाजिकासमानता अस्ति। तस्य मते शताब्दशः यावत् समाजस्य केचन वर्गाः ग्रामात् बहिः निवासाय, सम्मानपूर्णजीवनात् वञ्चनाय तथा सामाजिकभेदभावस्य सोढुं विवशाः आसन्। अतः विहिपः धार्मिकजागरणेन सह सामाजिक-आर्थिक-शैक्षणिक-कौशलसम्बद्धपश्चाद्भावस्य निवारणं स्वप्रमुखलक्ष्यं मन्यते।
सः वदति—“तादृशस्य विकसितस्य संस्कारितस्य च समाजस्य निर्माणम् आवश्यकम्, यः स्वाचारेण विश्वाय मार्गदर्शनं दातुं समर्थः भवेत्।” तस्य मते हिन्दुत्वस्य वास्तविकस्वरूपं समरसता, आत्मसम्मानः तथा समाजस्य अन्तिमव्यक्तेः उत्थानम् इत्येतैः सह सम्बद्धम् अस्ति।
राममन्दिरान्दोलनात् सामाजिक-जागरणपर्यन्तम्
विहिपः कार्यप्रणालीं स्वनेतृत्वस्य दिशां च विवृण्वन् आलोककुमारः अवदत्—“विश्वहिन्दूपरिषद् आरम्भात् एव सामूहिकनेतृत्वाधारितः संगठनं अस्ति। १९६४ तमे वर्षे संस्थापनात् आरभ्य सः कालानुसारं नूतनविषयान् स्वीकृतवान्। १९८४ तमे वर्षे रामजन्मभूम्याः आन्दोलनम् अखिलं हिन्दुसमाजम् एकसूत्रे बद्धम्।”
तस्य मते अयोध्यायां भव्यराम-मन्दिरनिर्माणं हिन्दुसमाजस्य कृते केवलं धार्मिकसफलता न, अपितु शताब्दीनां सामूहिकचेतनायाः, त्यागस्य संगठन-शक्तेश्च प्रतीकम् अस्ति। तथापि सः स्पष्टतया वदति—“मन्दिरं केवलं भूमौ न निर्मातव्यम्, अपितु हिन्दूनां हृदयेष्वपि निर्मातव्यम्।”
वर्तमानकाले विहिपः जनजातीयानां अनुसूचितसमाजस्य बालकानां शिक्षायै, छात्रावासनिर्माणाय, वेदविद्यालयानां सञ्चालनाय, संस्कृतसंरक्षणाय, गोसंरक्षणाय तथा भारतीयज्ञानपरम्परायाः पुनः प्रतिष्ठापनाय विविधेषु प्रकल्पेषु कार्यं करोति। विशेषतया ओडिशाराज्ये जनजातीयबालिकानां कृते सञ्चालितं वेदविद्यालयं तेन अद्वितीयः प्रयोगः इति वर्णितम्।
युवाशक्तिः—हिन्दुत्वचेतनायाः नूतनाधारः
देशस्य युवाशक्तेः विषये आलोककुमारः अत्यन्तम् आशावादी दृश्यते। तस्य मतम्—“वर्तमाने बजरङ्गदलम् देशस्य बृहत्तमं युवा-सङ्गठनम् अस्ति। विभिन्नासु सामाजिकपरिस्थितिषु तस्य कार्यकर्तारः सर्वप्रथमं सक्रियाः दृश्यन्ते।”
सः वदति यत् अद्यतनयुवकेषु हिन्दुत्वस्य प्रति स्वाभाविकम् आकर्षणं वर्धते। अस्य उदाहरणरूपेण सः महाकुम्भे यूनां विशालसहभागिता, नववर्षावसरे देवालयेषु दृश्यन्तीं जनसमृद्धिम् उल्लिखति। तस्य मते भारतीययुवकः पाश्चात्यजीवनशैल्याः अन्धानुकरणं परित्यज्य स्वसांस्कृतिक-मूलानि प्रति पुनरागच्छति। एषः धार्मिकप्रवृत्तेः नूतनः प्रवाहः वस्तुतः भारतीयचेतनायाः पुनर्जागरणम् इति सः मन्यते।
धर्मान्तरणविषये दृढः दृष्टिकोणः
धर्मान्तरणप्रकरणेषु आलोककुमारस्य दृष्टिकोणः स्पष्टः दृढश्च अस्ति। तस्य मतम्—“भारते बहूनि धर्मान्तरणानि आध्यात्मिकपरिवर्तनस्य कारणेन न, अपितु लोभेन, भयेन वा छलपूर्वकं क्रियन्ते।” महात्मा-गान्धिनः मतम् उद्धृत्य सः अवदत् यत्—“सेवा, शिक्षा अथवा चिकित्सायाः प्रतिफलरूपेण धर्मपरिवर्तनं कारयितुं धार्मिककार्यं न, अपितु व्यापारिकमानसिकता अस्ति।” मध्यप्रदेश, छत्तीसगढ, महाराष्ट्रादिराज्येषु धर्मान्तरण-विरोधिनियमस्य समर्थनं कृत्वा तेषां प्रभावीकार्यान्वयनस्य आवश्यकताम् अपि प्रतिपादितवान्।
‘लव-जिहाद’ तथा सांस्कृतिकजागरूकता
‘लव-जिहाद’-विषये सः अवदत्—“स्वपरिचयं गोपयित्वा सम्बन्धं स्थापयित्वा पश्चात् धर्मस्य प्रकटनं गम्भीरा छलना अस्ति।” नवीनदण्डविधानस्य उल्लेखं कृत्वा सः उक्तवान् यत् एतेषु प्रकरणेषु अधुना अधिकगम्भीरतया विचारः क्रियते। तेन हिन्दुसमाजाय आत्ममन्थनस्यापि परामर्शः दत्तः। यदि बालकाः स्वधर्मस्य, संस्कृतेः, परम्पराणां च ज्ञानं गृहे एव प्राप्नुयुः, तर्हि ते कदापि भ्रमिताः न भविष्यन्ति। पितामह-पितामहीभ्यां कथापरम्परायाः पुनर्जीवनस्य आवश्यकताम् अपि तेन प्रतिपादितम्।
परिवर्तितः चलचित्रलोकः हिन्दुत्वस्य सांस्कृतिकप्रभावश्च
अद्यतनकाले ‘रामायण’, ‘द कश्मीर फाइल्स’, ‘द केरला स्टोरी’ तथा ऐतिहासिकचरित्राधारितचलच्चित्राणां लोकप्रियतां सः हिन्दुसमाजस्य परिवर्तितमानसिकतायाः परिणामः मन्यते। तस्य मते चलचित्रोद्योगः अन्ततः जनाभिलाषानुसारमेव चलति। यदि हिन्दुत्वविषयकाणि चलचित्राणि निर्मीयन्ते सफलाश्च भवन्ति, तर्हि समाजः तादृशान् विषयान् इच्छति इत्यस्य प्रमाणम् एतत्। येषु चलचित्रेषु हिन्दू-आस्थायाः परम्पराणां वा अवमानं भवति, तान् प्रेक्षकाः नाङ्गीकुर्वन्ति इति तस्य मतम्।
राममन्दिरानन्तरं किम्?
राममन्दिरनिर्माणं ऐतिहासिकसफलताम् इति वर्णयन् आलोककुमारः वदति यत् विहिपः लक्ष्यं केवलं मन्दिरनिर्माणम् नास्ति, अपितु “रामराज्यस्य भावनायाः” समाजे प्रतिष्ठापनम् एव मूलध्येयम् अस्ति। संयमितजीवनम्, समाजहिताय समयस्य संसाधनानां च उपयोगः, नैतिकमूल्याधारितजीवनम्—एतानि रामराज्यस्य आधारभूतानि तत्त्वानि सन्ति। कृष्णजन्मभूमि:, काशी तथा भोजशालासम्बद्धेषु प्रकरणेषु तथ्यं तर्कश्च हिन्दुपक्षे सन्ति, अतः भविष्येऽपि अनुकूलपरिणामाः सम्भाव्यन्ते इति सः विश्वासं व्यक्तवान्।
सर्वकारतः अपेक्षाः—मन्दिराणां सञ्चालनाधिकारः हिन्दुसमाजाय
वर्तमानसर्वकारात् अपेक्षाणां विषये सः अवदत् यत् विहिपः समये समये स्वविचारान् सर्वकाराय निवेदयति। तेषु प्रमुखा अपेक्षा अस्ति—मन्दिरप्रशासने सर्वकारीयनियन्त्रणस्य समापनम्। यथा मस्जिदानां चर्चानां च सञ्चालनं सम्बन्धितसमुदायैः स्वयमेव क्रियते, तथैव हिन्दुसमाजाय स्वमन्दिराणां सञ्चालनाधिकारः प्रदातव्यः। शिक्षा-संस्थानानां सञ्चालनविषये समानाधिकारस्य समर्थनमपि तेन कृतम्।
वैश्विकहिन्दुसमाजस्य एकीकरणम्
विश्वस्य विभिन्नेषु देशेषु निवसतां हिन्दूनां विषये आलोककुमारः अवदत् यत् विहिपः केवलं सांस्कृतिकसम्बन्धं न धारयति, अपितु तेषां समस्यासमाधानेऽपि सक्रियभूमिकां निर्वहति। बाङ्गलादेशे हिन्दूनां विरुद्धं घटमानानां अत्याचाराणां विषये शताधिकेषु देशेषु जागरूकता-अभियानानि सञ्चालितानि, विभिन्न-सर्वकाराराणां समक्षं विषयोऽपि प्रस्तुतः इति तेन उक्तम्।
वयं विभाजनस्य न, एकतायाः समर्थकाः
समाजे विभाजनवर्धनस्य आरोपान् निराकुर्वन् सः अवदत्—“विश्वहिन्दूपरिषदः उद्देश्यं हिन्दुसमाजस्य संगठनम्, जातीयसामाजिकदूरीणां समापनं च अस्ति। यदि कश्चित् समाजः स्वसङ्गठनं स्वात्मबलं च सुदृढं करोति, तर्हि अन्यैः तस्मात् भयभीतैः न भवितव्यम्।” तस्य मते विहिप कस्यापि विरोधाय न, अपितु स्वसमाजस्य सशक्तीकरणाय कार्यं करोति।
राममन्दिरप्रकरणे स्पष्टः सन्देशः
अयोध्याराममन्दिरसम्बद्धे कथितवित्तीयानियमितताप्रकरणे आलोककुमारः स्पष्टतया अवदत् यत् “श्रीरामजन्मभूमितीर्थक्षेत्रन्यासः” भगवतः रामस्य नाम्ना प्राप्तस्य प्रत्येकं रूप्यकस्य विषये उत्तरदायी अस्ति। न्यासेन स्वयमेव मुख्यमन्त्रिणः योगी-आदित्यनाथस्य समीपे विशेषान्वेषणदलस्य गठनस्य अनुरोधः कृतः। अन्वेषणं प्रारब्धम् अस्ति, न्यासः पूर्णसहयोगं ददाति।
सः अवदत्—“अन्वेषणसमाप्तेः पूर्वं कस्यापि निष्कर्षस्य घोषणा उचितं न भविष्यति। किन्तु यदि कश्चिदपि दोषी सिद्ध्यति, तर्हि तस्य सामाजिक-राजनैतिकप्रतिष्ठां न दृष्ट्वा कठोरकार्यवाही भविष्यति।” तस्य मते एतत् केवलं वित्तीयानियमिततायाः विषयः न, अपितु कोटिशः श्रद्धालूनां श्रद्धाविश्वासयोः प्रश्नः अस्ति।
एतस्मात् विस्तृतसंवादात् स्पष्टं भवति यत् विश्वहिन्दूपरिषद् अग्रिमेषु वर्षेषु केवलं धार्मिकसङ्गठनरूपेण न, अपितु सामाजिकसमरसतायाः, सांस्कृतिक-पुनर्जागरणस्य तथा राष्ट्रियचेतनायाः प्रमुखवाहकरूपेण स्वस्थानं सुदृढीकर्तुं प्रयतते। राममन्दिरान्दोलनस्य सफलतायाः अनन्तरम् अधुना तस्य मुख्यलक्ष्यं समाजे समता, संस्कारः, संगठनभावना च दृढीकर्तुम् अस्ति। धर्मान्तरणम्, सांस्कृतिकपरिचयः, वैश्विकहिन्दूएकता, राष्ट्रियविषयाश्च इत्यादिषु तस्य दृष्टिकोणः यथापूर्वं स्पष्टः मुखरश्च अस्ति। तस्यैव शब्देषु—“मन्दिरनिर्माणम् महत्त्वपूर्णम् अस्ति, किन्तु ततोऽपि महत्त्वपूर्णं यत् हिन्दुसमाजस्य हृदये रामराज्यस्य भावना प्रतिष्ठापिता भवेत्।”
Hindusthan Samachar / Divya Ranjan