राखीगढीस्थमानवास्थिभिः उद्घाटिष्यन्ते हडप्पासभ्यतायाः रहस्यानि
नवदेहली, २२ जूनमास: (हि.स.)। हरियाणाराज्यस्य हिसारमण्डले स्थितात् राखीगढी-पुरातात्त्विकस्थलात् उत्खनने प्राप्तानि मानवकङ्कालानि विस्तृतवैज्ञानिक-अध्ययनाय विश्लेषणाय च भारतीयमानवविज्ञानसर्वेक्षणसंस्थायै समर्पितानि। भारतीयपुरातत्त्वसर्वेक्षणस्य भारती
राखीगढ़ी के कंकाल (फाइल फोटो)


नवदेहली, २२ जूनमास: (हि.स.)। हरियाणाराज्यस्य हिसारमण्डले स्थितात् राखीगढी-पुरातात्त्विकस्थलात् उत्खनने प्राप्तानि मानवकङ्कालानि विस्तृतवैज्ञानिक-अध्ययनाय विश्लेषणाय च भारतीयमानवविज्ञानसर्वेक्षणसंस्थायै समर्पितानि। भारतीयपुरातत्त्वसर्वेक्षणस्य भारतीयमानवविज्ञानसर्वेक्षणस्य च मध्ये सम्पन्नस्य समझौतास्मारकपत्रस्य आधारेण एषः महत्त्वपूर्णः निर्णयः कृतः। आधुनिकवैज्ञानिकप्रविधिभिः एतेषां कङ्कालानां परीक्षणेन सिन्धु-सरस्वती-सभ्यतायाः अथवा हडप्पासभ्यतायाः इतिहासः, समाजः, जीवनशैली, मानवविकासश्च सम्बन्धिनी बहूनि महत्त्वपूर्णानि तथ्यानि प्रकाशं गमिष्यन्ति।

केन्द्रीयसंस्कृतिमन्त्रालयस्य अनुसारं राखीगढी सिन्धु-सरस्वतीसभ्यतायाः अद्यावधि ज्ञातेषु नगरीयकेन्द्रेषु बृहत्तमं केन्द्रं मन्यते। एतत् स्थलम् भारतीयोपमहाद्वीपस्य प्राचीनइतिहासस्य दृष्ट्या अत्यन्तं महत्त्वपूर्णम् अस्ति तथा विश्वस्य प्राचीनतमासु नगरीयसभ्यतासु अन्यतमायाः अध्ययनस्य प्रमुखकेन्द्रमपि वर्तते। गतवर्षेषु अत्र सम्पन्नैः पुरातात्त्विकोत्खननैः अनेकानि प्रमाणानि प्राप्तानि, यैः हडप्पासभ्यतायाः सामाजिक-आर्थिक-सांस्कृतिकसंरचनायाः अवगमने नूतना दिशा प्रदत्ता।

वैज्ञानिकानां मते मानवकङ्कालानाम् अध्ययनात् तदानीन्तनजनानां जैविकसंरचना, आनुवंशिकपृष्ठभूमिः, आहारपद्धतिः, स्वास्थ्यावस्था, जीवनशैली च विषये विस्तृता सूचना प्राप्स्यते। एतेन सह तदा जनाः परिवर्तमानजलवायोः पर्यावरणीयपरिस्थितीनां च सह कथं सामञ्जस्यं स्थापितवन्त इति ज्ञातुमपि साहाय्यं भविष्यति।

विशेषज्ञानां मते एतेषु कङ्कालेषु प्राचीन-डीएनए-विश्लेषणम्, समस्थानिक-अध्ययनम्, जैवमानवविज्ञानपरीक्षणं तथा अन्याः अत्याधुनिकवैज्ञानिकप्रविधयः प्रयुज्यन्ते। डीएनए-परीक्षणस्य माध्यमेन हडप्पासभ्यतायाः जनाः के आसन्, तेषाम् आनुवंशिकी उत्पत्तिः का आसीत्, तेषां पूर्वजाः केभ्यः प्रदेशेभ्यः आगताः, अद्यतनजनसमूहेन सह तेषां कः सम्बन्धः आसीत् इति ज्ञातुं प्रयासः क्रियते।

तदतिरिक्तं वैज्ञानिकाः तदानीन्तनजनानाम् आहारः कीदृशः आसीत्, ते कान् कृष्युत्पादान् खाद्यपदार्थान् वा उपयुञ्जते स्म, कैः रोगैः पीडिताः आसन्, तेषां स्वास्थ्यस्तरः कीदृशः आसीदिति ज्ञातुं प्रयतिष्यन्ते। अस्थीनां दन्तानां च विश्लेषणेन तस्य कालस्य पोषणस्तरः, जीवनप्रत्याशा, सामाजिकपरिस्थितयश्च विषये महत्त्वपूर्णाः सङ्केताः लप्स्यन्ते।

संस्कृतिमन्त्रालयस्य अनुसारं वर्षे २०२५–२६ सम्पन्नोत्खनने राखीगढीस्थस्य ‘टीला-सङ्ख्या-७’ नामकात् प्राचीनश्मशानक्षेत्रात् अष्टौ समाधयः प्राप्ताः। तासु समाधिषु प्राप्तानि त्रीणि पूर्णमानवकङ्कालानि अन्ये च अस्थ्यवशेषाः अग्रिमवैज्ञानिकाध्ययनाय कोलकातानगरे स्थितं भारतीय-पुरातत्त्वसर्वेक्षणस्य प्राचीनमानव-कङ्काल-भाण्डारं प्रयोगशालां च प्रेषितानि। तत्र प्रारम्भिकसंरक्षणस्य तथ्यात्मक-करणस्य च प्रक्रिया सम्पन्ना भविष्यति, अनन्तरं विस्तृतवैज्ञानिक-परीक्षणं क्रियते।

अस्मिन् बहुसंस्थात्मक-अनुसन्धान-परियोजनायां देशविदेशयोः अनेकाः प्रतिष्ठिताः शैक्षणिक-वैज्ञानिकसंस्थाः सहकार्यं कुर्वन्ति। तासु बनारस-हिन्दू-विश्वविद्यालयः, बीरबलसाहनी-पुराजीव-विज्ञानसंस्थानम्, यूनिवर्सिटी-कॉलेज-लण्डन इत्यादयः प्रमुखाः सन्ति। एतासां संस्थानां विशेषज्ञाः आनुवंशिकी, मानवविज्ञानम्, पुरातत्त्वम्, जैवविज्ञानम्, पुरापर्यावरणाध्ययनम् इत्यादिषु क्षेत्रेषु संयुक्तरूपेण अनुसन्धानं करिष्यन्ति।

पद्मश्रीसम्मानितः वरिष्ठवैज्ञानिकः डॉ. कुमारस्वामी थङ्गराजः तथा बीएचयू-विश्वविद्यालयस्य प्राध्यापकः ज्ञानेश्वरचौबे इत्येतौ अवदताम् यत् प्रायः ३००० ईसापूर्वकालीनस्य मानवजीनोमस्य अध्ययनावसरः अत्यन्तं दुर्लभः भवति। तयोः मते एषः अनुसन्धानः हडप्पासभ्यतायाः जनानाम् आनुवंशिकीपरिचयं ज्ञातुं साहाय्यं करिष्यति, भारतीयोपमहाद्वीपे मानवजनसमूहेषु विकासस्य प्रव्रजनस्य च सम्बन्धिनः अनेकान् महत्त्वपूर्णान् प्रश्नान् अपि समाधानं दास्यति।

विशेषज्ञाः मन्यन्ते यत् राखीगढीतः प्राप्तानि जैविकप्रमाणानि हडप्पासभ्यतायाः उत्पत्तिः, विस्तारः, सामाजिकसंरचना, विभिन्नजनसमूहानां परस्परसंबन्धाश्च विषये दीर्घकालात् प्रवर्तमानायाः चर्चायाः नूतनां दिशं प्रदास्यन्ति। एतत् अध्ययनं प्राचीनभारतीयइतिहासस्य वैज्ञानिकाधारेण अवगमने वैश्विकपुरातात्त्विक-अनुसन्धाने च भारतस्य भूमिकां सुदृढां करिष्यति।

राखीगढ्यां प्रवर्तमानम् एतदनुसन्धानं भारतीयपुरातत्त्वस्य मानव-इतिहासस्य च क्षेत्रे महत्त्वपूर्णा उपलब्धिः मन्यते। अनुसन्धानकर्तारः आशां कुर्वन्ति यत् अग्रिमवर्षेषु अस्य अध्ययनस्य परिणामाः हडप्पासभ्यतायाः अनेकानाम् अनुत्तरितरहस्यानां उद्घाटने सहायकाः भविष्यन्ति तथा प्राचीनभारतीय-इतिहासस्य अवबोधनम् अधिकं समृद्धं करिष्यन्ति।

Hindusthan Samachar / Divya Ranjan