अंबुबासी मेलापकस्य अद्य उद्घाटनं करिष्यति मंत्री अजंता नेओगः
गुवाहाटी, 22 जूनमासः, (हि.स.)। विश्वप्रसिद्धे कामाख्यामन्दिरे अम्बुबासीमेला अद्य आरब्धः। रात्रौ ९:३० वादने प्रवृत्ते सति मन्दिरस्य पटः निमीलितः भविष्यति। मेलायाः औपचारिकोद्घाटनकार्यक्रमः अद्य गुवाहाटीनगरस्य पाण्डुपत्तने सायं ६:३० वादने आयोज्यते।
कामाख्या मंदिर।


गुवाहाटी, 22 जूनमासः, (हि.स.)।

विश्वप्रसिद्धे कामाख्यामन्दिरे अम्बुबासीमेला अद्य आरब्धः। रात्रौ ९:३० वादने प्रवृत्ते सति मन्दिरस्य पटः निमीलितः भविष्यति। मेलायाः औपचारिकोद्घाटनकार्यक्रमः अद्य गुवाहाटीनगरस्य पाण्डुपत्तने सायं ६:३० वादने आयोज्यते। अनेन कार्यक्रमेण पूर्वोत्तरभारतस्य बृहत्तमेषु आध्यात्मिकसमारोहेषु अन्यतमस्य अम्बुबासीमेलायाः औपचारिकः शुभारम्भः भविष्यति।

असमप्रदेशस्य पर्यटनमन्त्री अजंता नेओग मुख्यातिथिरूपेण उद्घाटनसमारोहे मेलायाः उद्घाटनं करिष्यति। कार्यक्रमे साधुसन्तानाम्, श्रद्धालूनाम्, प्रशासनिकाधिकारिणाम् तथा गणमान्यजनानाम् उपस्थितेः सम्भावना वर्तते।

माता कामाख्याधाम्नि आयोज्यमानः अम्बुबासीमेला २२ जूनतः २६ जूनपर्यन्तं प्रवर्तिष्यते। अस्मिन् अवसरे देशविदेशेभ्यः लक्षशः श्रद्धालवः आगमिष्यन्ति इति सम्भावना वर्तते। श्रद्धालूनां सुविधार्थं मेलायाः सुचारुसञ्चालनार्थं च राज्यसर्वकारेण सुरक्षा, यातायातव्यवस्था, स्वच्छता, स्वास्थ्यसेवाः तथा अन्यावश्यकव्यवस्थाः व्यापकतया सुनिश्चिताः कृताः सन्ति।

-----------

Hindusthan Samachar / Dheeraj Maithani