अम्बुबासी-महोत्सवस्य प्रारम्भावसरे मुख्यमन्त्री कामाख्यादेव्यै प्रणामम् अकरोत्
गुवाहाटीनगरम्, २२ जूनमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा २२ जूनमासात् २६ जूनमासपर्यन्तं कामाख्याधाम्नि आयोज्यमानस्य ऐतिहासिकस्य अम्बुबासी-महोत्सवस्य पावनावसरे अद्य श्रीकामाख्यादेव्याः आराधनां कृत्वा अस्मिन् महोत्सवे सहभागिन
असमः मुख्यमंत्री द्वारा सोशल मीडिया पर शेयर वीडियो का छायाचित्र


गुवाहाटीनगरम्, २२ जूनमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा २२ जूनमासात् २६ जूनमासपर्यन्तं कामाख्याधाम्नि आयोज्यमानस्य ऐतिहासिकस्य अम्बुबासी-महोत्सवस्य पावनावसरे अद्य श्रीकामाख्यादेव्याः आराधनां कृत्वा अस्मिन् महोत्सवे सहभागिनां श्रद्धालूनां स्वागतम् अकरोत्।

मुख्यमन्त्री सामाजिक-माध्यमस्य स्वकीय-आधिकारिक-पृष्ठे प्रकाशिते सन्देशे उक्तवान् यत्— गुवाहाट्याः नीलाचल-पर्वते विराजमानायाः श्रीकामाख्यादेव्याः पावन-अम्बुबासी-महायोगस्य प्रारम्भावसरे जगज्जनन्याः चरणयोः कोटिशः प्रणामाः।

मुख्यमन्त्री उक्तवान् यत् अस्य महापर्वणः अवसरे असमराज्यम् आगतानां विश्वस्य विभिन्नदेशेभ्यः समागतानां श्रद्धालूनां सः हार्दिकं स्वागतम् करोति।

सः प्रार्थितवान् यत् श्रीकामाख्यादेव्याः कृपाकटाक्षेण सर्वेषां जीवनं सुखेन, शान्त्या, समृद्ध्या, आध्यात्मिक-शक्त्या च परिपूर्णं भवतु। जय श्रीकामाख्या।

Hindusthan Samachar / Divya Ranjan