ब्राह्मण महासभा भरत भूषण तिवारिणो मृत्युः उच्चस्तरीयपरिशीलनाय राष्ट्रपति-प्रधानमंत्रिणोः नाम्ना समर्पितं ज्ञापनम्
जौनपुरम्, 22 जूनमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरे अखिलभारतीयब्राह्मणमहासभाया राष्ट्रियैककायाः पदाधिकारिभिः बिहारस्य भोजपुरनिवासिनः भरतभूषणतिवारी इत्यस्य कथितपुलिससंघर्षे जातायाः मृत्योः प्रकरणे उच्चस्तरीयअन्वेषणस्य याचना कृता। संस्थया दोषिषु विर
कलेक्ट्रेट परिसर स्थित डीएम ऑफिस के सामने प्रदर्शन करते हुए ब्राह्मण महासभा के लोग


ब्राह्मण महासभा के लोग अध्यक्ष रत्नाकर चौबे के नेतृत्व में सिटी मजिस्ट्रेट इंद्रानंदन सिंह को ज्ञापन सौंपते हुए


जौनपुरम्, 22 जूनमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरे अखिलभारतीयब्राह्मणमहासभाया राष्ट्रियैककायाः पदाधिकारिभिः बिहारस्य भोजपुरनिवासिनः भरतभूषणतिवारी इत्यस्य कथितपुलिससंघर्षे जातायाः मृत्योः प्रकरणे उच्चस्तरीयअन्वेषणस्य याचना कृता। संस्थया दोषिषु विरुद्धं कठोरकार्यवाह्याः अपि मागणी कृता।

संस्थायाः पदाधिकारिणः कार्यकर्तारश्च अस्य सम्बन्धे सोमवासरे राष्ट्रपतिं प्रधानमन्त्रिणं च उद्दिश्य लिखितं ज्ञापनं नगरदण्डाधिकरिणे इन्द्रनन्दनसिंहाय समर्पितवन्तः।

ज्ञापने उक्तं यत् सामाजिकमाध्यमेभ्यः समाचारमाध्यमेभ्यश्च प्राप्तसूचनानुसारं भरतभूषणतिवारिणो बिहारारक्षिभिः तथा एसटीएफदलेन कथितरूपेण आत्मसमर्पणस्य अनन्तरमपि गोलीप्रहारेण हत्या कृता।

अस्मिन् अवसरे अरविन्दकुमारसिद्धः, रमेशकुमारचौबे, राकेशतिवारी, रमाशङ्करपाठकः, अनुजमिश्रः, प्रदीपमिश्रः, कृपाशङ्करः तथा अरुणमिश्रः इत्यादयः अन्ये पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।-----------------

Hindusthan Samachar / Dheeraj Maithani