ब्राह्मणान् प्रत्याशिनः कर्तुं आरब्धे समाजवादीपक्षे वर्धिता व्याकुलता - मायावती
लखनऊनगरम्, २२ जूनमासः (हि.स.)। बहुजनसमाजपक्षस्य राष्ट्रियाध्यक्षा मायावती सोमवासरे उक्तवती यत् उत्तरप्रदेशे अग्रिम-विधानसभानिर्वाचनस्य सिद्धतायाः अन्तर्गतं यदा आरभ्य पक्षेण ब्राह्मणसमाजस्य अपरवर्णीयसमाजस्य च जनाः प्रत्याशिनः क्रियमाणाः सन्ति, तदा आ
मायावती की फाइल फोटो


लखनऊनगरम्, २२ जूनमासः (हि.स.)। बहुजनसमाजपक्षस्य राष्ट्रियाध्यक्षा मायावती सोमवासरे उक्तवती यत् उत्तरप्रदेशे अग्रिम-विधानसभानिर्वाचनस्य सिद्धतायाः अन्तर्गतं यदा आरभ्य पक्षेण ब्राह्मणसमाजस्य अपरवर्णीयसमाजस्य च जनाः प्रत्याशिनः क्रियमाणाः सन्ति, तदा आरभ्य विपक्षीदलेषु, विशेषतः समाजवादीपक्षे व्याकुलता वर्धिता अस्ति।

मायावती सोमवासरे एक्स इति सामाजिकमाध्यमे लिखितवती यत् २००७ तमवर्षवत् ब्राह्मणसमाजस्य योगदानेन बसपापक्षस्य पूर्णबहुमतस्य शासननिर्माणस्य यथा सफलता अभवत्, तथैव अस्य निर्वाचनस्य परिणामेषु पुनरावृत्तेः सम्भावना दृश्यते। सा अवदत् यत् उत्तरप्रदेशम् इव विशालजनसंख्यायुक्ते राज्ये अपरवर्णेषु विशेषतः ब्राह्मणसमाजस्य हितं बसपायामेव सुरक्षितम् अस्ति। 'सर्वजनहिताय सर्वजनसुखाय' इति सिद्धान्तस्य अनुरूपं बसपया पूर्वं पक्षस्तरे, ततः शासनकालेऽपि ब्राह्मणसमाजाय समुचितः आदरः, सम्मानः तथा सर्वेषु स्तरेषु पर्याप्ता सहभागिता प्रदत्ता। अन्यपक्षानां शासनेषु तु एषः वर्गः दीर्घकालात् उपेक्षितः, असुरक्षितः तथा वञ्चितः इव स्वानुभवं करोति।

सा पुनरवदत् यत् सामाजिकसौहार्दस्य आधारेण बसपया सह ब्राह्मणसमाजस्य सम्बद्धतायाः वर्धमानां प्रवृत्तिं दृष्ट्वा तेषां प्रत्याशित्वप्रदानस्य प्रक्रिया प्रवर्तते। यदि बसपायाः शासनं भविष्यति, तर्हि पूर्ववत् तेषां सर्वस्तरेषु यथोचितः आदरः प्रदास्यते। अपरवर्णेषु क्षत्रिय-वैश्य- तथा अन्यसमुदायानामपि बसपया सह सम्बद्धतायाः सिद्धतामनुसृत्य—'यस्य यावती सिद्धता तस्य तावती सहभागिता'—इति सिद्धान्तेन तेषामपि प्रत्याशित्वं प्रदास्यते। एतस्य कृते सर्वस्तरेषु सिद्धता निरन्तरं प्रचलति।

मायावती अवदत् यत् बसपा अन्यदलानीव केवलं कतिपयेभ्यः जनेभ्यः मिथ्याश्वासनानि न ददाति, अपितु सम्पूर्णसमाजस्य हितकल्याणयोः चिन्तनं स्वीयं संवैधानिककर्तव्यं मन्यते। अत एव बसपायाः नीतयः कार्यक्रमाश्च जनहिते, जनकल्याणे, अपराधनियन्त्रणे तथा विधिव्यवस्थायां देशहिताय जनहिताय च उत्कृष्टाः भवन्ति।

Hindusthan Samachar / Divya Ranjan