अद्य राष्ट्रं तथा राष्ट्रसीमाः उभे सुरक्षिते, विश्वं भारतस्य सामर्थ्यं स्वीकुरूत: - नित्यानन्दरायः
पटनानगरम्, २२ जूनमास: (हि.स.)। केन्द्रीयगृहराज्यमन्त्री नित्यानन्दरायः रविवासरे पटनानगरस्थिते श्रीकृष्णस्मृतिसभागारे आयोजिते अतिपृष्ठवर्गसम्मेलने सहभागित्वं कृत्वा केन्द्रसर्वकारस्य उपलब्धीनां तथा प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वस्य प्रशंसाम् अ
कार्यक्रम को संबोधित करते नित्यानन्द राय


पटनानगरम्, २२ जूनमास: (हि.स.)। केन्द्रीयगृहराज्यमन्त्री नित्यानन्दरायः रविवासरे पटनानगरस्थिते श्रीकृष्णस्मृतिसभागारे आयोजिते अतिपृष्ठवर्गसम्मेलने सहभागित्वं कृत्वा केन्द्रसर्वकारस्य उपलब्धीनां तथा प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वस्य प्रशंसाम् अकरोत्।

सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी विकासस्य भागीरथः, दरिद्रजनानां मसीहा तथा सामाजिकन्यायस्य वास्तविकः संवाहकः अस्ति। तस्य सर्वकारस्य योजनानां केन्द्रबिन्दुः समाजस्य दरिद्राः, वञ्चिताः, पृष्ठवर्गीयाः तथा अतिपृष्ठवर्गीयाः जनाः सन्ति।

सम्मेलनम् सम्बोधयन् नित्यानन्दरायः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे राष्ट्रे विकासस्य, सुशासनस्य तथा सामाजिकसशक्तीकरणस्य नूतनाः मानदण्डाः स्थापिताः सन्ति। सः अवदत् यत् अद्य राष्ट्रे दरिद्राः, तेषां सम्मानं तथा तेषामधिकाराः—एते त्रयः अपि सुरक्षिताः सन्ति। केन्द्रसर्वकारस्य विविधकल्याणकारीयोजनानां लाभः समाजस्य अन्तिमजनं यावत् प्राप्नोति, येन निर्धनानां वञ्चितवर्गस्य च जीवने सकारात्मकं परिवर्तनम् अभवत्।

सः अवदत् यत् एतत् समग्रराष्ट्रस्य गौरवस्य विषयः अस्ति यत् पृष्ठवर्गस्य पुत्रः राष्ट्रस्य प्रधानमन्त्री अभवत् तथा स्वकार्यैः भारतं वैश्विकमञ्चे नूतनाम् अभिज्ञानं प्रादात्। प्रधानमन्त्री नरेन्द्रमोदी समाजस्य सर्वान् वर्गान् विकासस्य मुख्यधारया सह संयोजितवान् तथा अतिपृष्ठवर्गस्य सम्मानवृद्धये अवसरप्रदाने च अनेकानि महत्त्वपूर्णानि पदानि स्वीकृतवान्।

राष्ट्रस्य विदेशनीतिं राष्ट्रियसुरक्षां च उल्लिख्य केन्द्रीयगृहराज्यमन्त्री अवदत् यत् अद्य भारतस्य स्थितिः पूर्वापेक्षया अधिका सुदृढा जाता। सः अवदत् यत् राष्ट्रं तथा राष्ट्रसीमा: उभे सुरक्षिते स्तः। भारतम् अधुना विश्वमञ्चे निर्णायिकां भूमिकां निर्वहति तथा वैश्विकस्तरे महत्त्वपूर्णनिर्णयेषु भारतस्य सहभागिता नेतृत्वं च विश्वेन स्वीकृतम्।

सः पुनरवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वे भारतस्य प्रतिष्ठा निरन्तरं वर्धते तथा विश्वं भारतस्य सामर्थ्यं सम्मानपूर्वकं पश्यति।

Hindusthan Samachar / Divya Ranjan