रायपुरम् : सोमनाथ मंदिरम् अस्माकं राष्ट्रियं स्वाभिमानं, सांस्कृतिक गौरवम् आस्थायाः प्रमुखं केन्द्रम् : मुख्यमंत्री सायः
-मुख्यमन्त्रिणा विशेषरेलयानाय हरितध्वजं प्रदर्श्य सोमनाथस्वाभिमानसांस्कृतिकयात्रायाः शुभारम्भः कृतः रायपुरम् 22 जूनमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे राजधानीरायपुरस्य रेलस्थानकात् सोमनाथगुजरातप्रदेशाय प्रस्थिताय व
मुख्यमंत्री साय विशेष ट्रेन को हरी झंडी दिखाकर  रवाना करते हुए


कार्यक्रम को संबोधित करते हुए मुख्यमंत्री साय


मुख्यमंत्री साय श्रद्धालुओं से मुलाकात कर उनकी मंगलमय यात्रा की कामना करते हुए


-मुख्यमन्त्रिणा विशेषरेलयानाय हरितध्वजं प्रदर्श्य सोमनाथस्वाभिमानसांस्कृतिकयात्रायाः शुभारम्भः कृतः

रायपुरम् 22 जूनमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे राजधानीरायपुरस्य रेलस्थानकात् सोमनाथगुजरातप्रदेशाय प्रस्थिताय विशेषरेलयानाय हरितध्वजं प्रदर्श्य सोमनाथस्वाभिमानसांस्कृतिकयात्रायाः शुभारम्भम् अकरोत्।

अस्मिन् अवसरे मुख्यमन्त्री सायः अवदत् यत् सोमनाथमन्दिरम् अस्माकं राष्ट्रियस्वाभिमानस्य सांस्कृतिकगौरवस्य श्रद्धायाश्च प्रमुखं केन्द्रम् अस्ति। सोमनाथमन्दिरम् अनेकवारम् आक्रान्तृभिः भग्नम् अभवत्, किन्तु प्रतिवारं तस्य पुनर्निर्माणम् अभवत्। एतत् देशवासिनाम् अखण्डश्रद्धायाः परिणामः अस्ति।

सोमनाथस्वाभिमानसांस्कृतिकयात्रायाः अन्तर्गतं विशेषरेलयानेन छत्तीसगढात् सोमनाथं प्रति सहस्राधिकाः विशिष्टजनाः, पद्मश्रीसम्मानप्राप्ताः, राज्यीयराष्ट्रियसम्मानैः सम्मानिताः कलाकाराः साहित्यकाराश्च प्रस्थितवन्तः। यात्रायां सम्मिलिताः श्रद्धालवः छत्तीसगढस्य शिवालयानां पुण्यभूमेः मृत्तिकाकलशान् तथा पुण्यनदीनां जलकलशान् बाबासोमनाथाय समर्पयिष्यन्ति। मुख्यमन्त्री श्रीसायः भगवान् सोमनाथात् छत्तीसगढस्य सुखसमृद्धेः कल्याणस्य च प्रार्थनाम् अकरोत्।

कार्यक्रमम् उद्दिश्य भाषमाणः मुख्यमन्त्री सायः अवदत् यत् अद्य छत्तीसगढस्य कृते अतीव गौरवशालिनी तिथिः अस्ति, यदा प्रदेशस्य विविधभागेभ्यः सहस्राधिकाः श्रद्धालवः भगवान् सोमनाथस्य दर्शनार्थं प्रस्थिताः सन्ति। अस्माकं प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे समग्रे भारते ११ जनवरी २०२६ तः ११ जनवरी २०२७ पर्यन्तं सोमनाथस्वाभिमानपर्व राष्ट्रियस्मरणोत्सवरूपेण आचर्यते। अस्य पर्वणः अन्तर्गतं सोमनाथस्वाभिमानयात्रायाः आयोजनं क्रियते।

मुख्यमन्त्री अवदत् यत् अद्य वयं लौहपुरुषं सरदारवल्लभभाईपटेलम् आदरेण स्मरामः। तेन भारतस्य स्वातन्त्र्यानन्तरं राष्ट्रियैक्यस्य सांस्कृतिकपुनरुत्थानस्य च प्रतीकरूपेण सोमनाथमन्दिरस्य पुनर्निर्माणस्य सङ्कल्पः कृतः आसीत्। पञ्चसप्ततिवर्षपूर्वं देशस्य प्रथमः राष्ट्रपतिः डा राजेन्द्रप्रसादः पुनर्निर्मितस्य सोमनाथमन्दिरस्य लोकार्पणम् अकरोत्।

मुख्यमन्त्री अवदत् यत् अस्माकं कृते एतत् गौरवस्य विषयः अस्ति यत् छत्तीसगढात् पद्मश्रीसम्मानप्राप्ताः, राज्यीयराष्ट्रियसम्मानैः सम्मानिताः कलाकाराः साहित्यकाराश्च अस्यां यात्रायां स्वस्वप्रदेशानां धार्मिकऐतिहासिकपुरातात्त्विकमहत्त्वयुक्तानां शिवालयानां पुण्यमृत्तिकां पुण्यनदीनां जलकलशांश्च स्वसह वहन्तः प्रस्थिताः सन्ति। एषा यात्रा भारतस्य सांस्कृतिकैक्यस्य जीवन्तम् उदाहरणम् अस्ति।

अस्मिन् अवसरे संस्कृतिमन्त्री राजेशअग्रवालः अवदत् यत् सोमनाथधाम्नः एषा यात्रा श्रद्धालून् केवलम् आध्यात्मिकानुभूतिम् एव न, अपितु भारतस्य महान् सांस्कृतिकपरम्परां राष्ट्रियगौरवं च समीपतः अनुभवनस्य अवसरम् अपि प्रदास्यति। भगवान् सोमनाथात् प्रार्थना अस्ति यत् सः अस्माकं छत्तीसगढप्रदेशं समग्रं भारतवर्षं च समृद्धेः शान्तेः विकासस्य च मार्गे अग्रसरं करोतु।

मुख्यमन्त्री सायः सोमनाथस्वाभिमानसांस्कृतिकयात्रां प्रति गच्छद्भिः श्रद्धालुभिः सह मेलनम् अकरोत् तथा तेषां मङ्गलमयी यात्रां कामयमानः तेषाम् अङ्गवस्त्राणि समर्पितवान्।

अस्मिन् अवसरे कौशलविकासमन्त्री गुरु खुशवन्त साहेबः, विधायकाः धरमलालकौशिकः, अनुजशर्मा, इन्द्रकुमारसाहू, डोमनलालकोर्सेवाडा, सम्पतअग्रवालः, चलचित्रविकासनिगमस्य अध्यक्षा मोनासेन तथा अन्ये जनप्रतिनिधयः वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani