Enter your Email Address to subscribe to our newsletters

नवदेहली, २३ जूनमास:। इतिहासस्य पृष्ठेषु २३ जूनदिनाङ्कः अनेकाभिः महत्त्वपूर्णाभिः भावनापूर्णाभिश्च घटनाभिः अंकितः अस्ति। अयं दिवसः भारतीय-राजनीत्याः तथा नागरिक-विमान-परिवहनस्य इतिहासे द्वयोः महादुर्घटनयोः साक्षी अभवत्, याभ्यां भारतं विश्वं च गम्भीरतया प्रभावितम्।
१९८० तमे वर्षे अस्मिन्नेव दिने विमान-दुर्घटनायां तत्कालीन-प्रधानमन्त्रिणः इन्दिरा-गान्ध्याः पुत्रः युवा-नेता संजय-गान्धी निधनं गतः। देहल्यां जाता एषा दुर्घटना भारतीय-राजनीतौ आकस्मिकं महत्त्वपूर्णं परिवर्तनम् आनयत्। तस्मिन् काले संजय-गान्धी कांग्रेस-दलस्य राष्ट्रस्य च प्रभावशाली युवा-नेता इति परिगण्यते स्म।
तस्य निधनानन्तरं देशस्य राजनैतिक-परिस्थितिषु महत् परिवर्तनम् अभवत्। ततः परं राजीव-गान्धी सक्रिय-राजनीतौ प्रविष्टः, अनन्तरवर्षेषु राष्ट्रीय-राजनीत्याः प्रमुखः नेता अभवत्। एषा घटना भारतीय-राजनीतेः निर्णायकः पक्ष: अभवत्।
२३ जूनदिनाङ्कः १९८५ तमे वर्षे घटितां अन्यां भीषणां विमान-दुर्घटनामपि स्मारयति। एयर-इण्डिया-संस्थायाः अन्ताराष्ट्रिय-यात्री-विमानम् आयरलैण्ड-देशस्य तटस्य समीपे दुर्घटनाग्रस्तम् अभवत्। अस्मिन् भीषण-प्रसङ्गे विमाने स्थिताः सर्वे ३२९ यात्रिणः मृत्युम् अगच्छन्।
विमानं लण्डन-नगरस्य हीथ्रो-विमानस्थानकं प्रति गच्छत् आसीत्, किन्तु ततः पूर्वमेव दुर्घटनायाः शिकारः अभवत्। एषा दुर्घटना नागरिक-विमान-परिवहनस्य इतिहासे अत्यन्तं दुःखद-घटनासु गण्यते।
इतिहासे अंकिताः एताः घटनाः अद्यापि स्मारयन्ति यत् केचन क्षणाः केवलं स्वकालमेव न परिवर्तयन्ति, अपितु अग्रिम-वंशानामपि दिशां चिन्तनं च गाढतया प्रभावितुं शक्नुवन्ति।
प्रमुखाः घटनाः
१८१० — बम्बई-नगरस्य डङ्कन्-डॉक-निर्माणकार्यं सम्पन्नम्।१८६८ — क्रिस्टोफर-एलशोल्स टाइपराइटर-यन्त्रस्य आधिपत्यम् अलभत।१९५३ — भारतीय-जनसंघस्य संस्थापकः श्यामा-प्रसाद-मुखर्जी कश्मीर-प्रदेशे निरुद्धावस्थायां चिकित्सालये दिवंगतः।
१९६० — जापान-अमेरिका-देशयोः मध्ये सुरक्षा-सन्धि: सम्पन्न:।
१९८० — संजय-गान्धी विमान-दुर्घटनायां दिवंगतः।१९८५ — एयर-इण्डिया-विमान-दुर्घटनायां सर्वे ३२९ जनाः मृताः।१९९२ — न्यूयॉर्क-नगरस्य कुख्यातः माफिया-प्रमुखः जॉन-गोटी आजीवन-कारावास-दण्डेन दण्डितः।१९९४ — संयुक्त-राष्ट्र-महासभया दक्षिण-अफ्रीका-सदस्यत्वं स्वीकृतम्।१९९४ — उत्तर-कोरियया परमाणु-कार्यक्रमे विरामस्य घोषणा कृता।१९९५ — संयुक्त-राष्ट्र-सुरक्षा-परिषदः शततमं प्रस्तावं पारितवती।१९९६ — शेख-हसीना वाजिद् बाङ्ग्लादेशस्य प्रधानमन्त्री-पदस्य शपथं स्वीकृतवती।२००८ — सौमित्र-चट्टोपाध्यायाय दादासाहेब-फाल्के-पुरस्कारस्य अनुशंसा कृता।२००८ — जेके-टायर-निर्माण्या मेक्सिको-देशस्य टोर्नेल-निर्माणी अधिगृहीता।
२००८ — नेपाल-सर्वकारेण संयुक्त-राष्ट्र-अभियानस्य अवधि: वर्धिता।२०१३ — निक् वाल्लेण्डा ग्राण्ड-कैन्यनम् रज्ज्वा गत्वा प्रथमः मानवः अभवत्।२०१४ — गुजरातस्य ‘रानी-की-वाव’ तथा हिमाचलप्रदेशस्य ‘ग्रेट् हिमालयन नेशनल पार्क’ विश्व-धरोहर-सूच्यां समाविष्टौ।
२०१६ — ब्रिटेन-देशे यूरोपीय-संघात् पृथक्करणस्य पक्षे जनमतं दत्तम्।२०१७ — मोहम्मद्-बिन्-सलमान् सऊदी-अरब-देशस्य युवराजः नियुक्तः।
जन्म
१९०१ — राजेन्द्रनाथ-लाहिड़ी, अमरः भारतीय-क्रान्तिकारी।१९१२ — एलेन-ट्यूरिङ्ग:, आङ्ग्ल-गणितज्ञः तथा सङ्गणक-विज्ञानस्य अग्रणी।१९३४ — चण्डी-प्रसाद-भट्टः, गान्धीवादी-चिन्तकः समाजसेवी च।१९३४ — वीरभद्र-सिंहः, राजनीतिज्ञः।१९३६ — एन.भास्कर-रावः, भारतीय-राजनीतिज्ञः।
१९३६ — प्रदीप-कुमार-बैनर्जी, विख्यातः भारतीय-पादकन्दुक-क्रीडकः।१९३९ — सैयद-शाहिद-हाकिमः, पूर्व-भारतीय-पादकन्दुक-क्रीडकः।१९७२ — संजीव-कुमार-बालयानः, भारतीय-राजनीतिज्ञः।
निधनम्
१७६१ — बालाजी-बाजीरावः, महान् मराठा-पेशवा।१९५३ — श्यामा-प्रसाद-मुखर्जी, शिक्षाविद्, चिन्तकः, भारतीय-जनसंघस्य संस्थापकः।१९१४ — गङ्गाप्रसाद-वर्मा, समाज-सुधारकः राजनीतिज्ञश्च।१९३९ — गिजुभाई-बधेका, गुजराती-लेखकः महान् शिक्षाशास्त्री च।१९७१ — श्रीप्रकाशः, क्रान्तिकारी तथा पाकिस्ताने भारतस्य प्रथमः उच्चायुक्तः।१९८० — संजय-गान्धी, भारतीय-राजनीतिज्ञः।१९८० — वी. वी. गिरिः, भारतस्य चतुर्थः राष्ट्रपतिः।२०१५ — निर्मला-जोशी, ‘मिशनरीज आफ् चैरिटीज’ संस्थायाः अध्यक्षा।
महत्त्वपूर्णाः दिवसाः
अन्ताराष्ट्रिय-विधवा-दिवसः।संयुक्त-राष्ट्र-लोक-सेवा-दिवसः।
Hindusthan Samachar / Divya Ranjan