दिल्लीभाजपापक्षेण २५ जूनमासे आपत्काल-कृष्णदिवसे जनजागरणसभायाः आयोजनम्
नवदिल्ली, २२ जूनमासः (हि.स.)। भारतीयजनतापक्षः प्रतिवर्षमिव अस्मिन् वर्षेऽपि २५ जूनमासे आपत्कालस्य कृष्णदिवसस्य निमित्तं जनजागरणसभाम् आयोजयिष्यति। दिल्लीभाजपाध्यक्षः हर्षमल्होत्रा अवदत् यत् भारतीयजनतापक्षः १९८० तमे वर्षे स्थापनात् प्रभृति: प्रतिवर्
भारतीय जनता पार्टी (भाजपा) दिल्ली प्रदेश अध्यक्ष हर्ष मल्होत्रा (फाइल फोटो)।


नवदिल्ली, २२ जूनमासः (हि.स.)। भारतीयजनतापक्षः प्रतिवर्षमिव अस्मिन् वर्षेऽपि २५ जूनमासे आपत्कालस्य कृष्णदिवसस्य निमित्तं जनजागरणसभाम् आयोजयिष्यति।

दिल्लीभाजपाध्यक्षः हर्षमल्होत्रा अवदत् यत् भारतीयजनतापक्षः १९८० तमे वर्षे स्थापनात् प्रभृति: प्रतिवर्षं २५ जूनदिने आपत्कालविरोधि-जनजागरणसभां करोति। अस्मिन् वर्षे गुरुवासरे, २५ जूनदिने, प्रातः ११ वादने एनडीएमसी-कन्वेन्शन-केन्द्रं, जन्तर-मन्तर-स्थले जनजागरणसभायाः आयोजनं भविष्यति।

अस्याः सभायाः सफलसम्पादनार्थं प्रदेशाध्यक्षेन त्रिसदस्यात्मिका समिति: गठिता। तस्यां सांसदः योगेन्द्रचान्दोलिया, पूर्वयुवमोर्चाध्यक्षः धर्मवीरशर्मा, पूर्वजनपदाध्यक्षः देवेन्द्रसोलङ्की च समाविष्टाः सन्ति। एषा समिति: दिल्लीप्रदेशात् तथा दिल्ली-एनसीआर-क्षेत्रात् निवसन्तः आपत्कालबन्दिनः आमन्त्र्य सार्वजनिककार्यक्रमे तेषां सम्मानं करिष्यति।

तेन उक्तं यत् २५ जूनमासे १९७५ तमे वर्षे तत्कालीन-प्रधानमन्त्रिणी इन्दिरागान्धी आपत्कालस्य घोषणां कृत्वा राजनैतिककार्यकर्तॄणां सामान्य-नागरिकाणां च मौलिकाधिकारान् हृतवती। तदा सहस्रशः जनाः मीसा-सहिताभिः विभिन्नाभिः विधिधाराभिः अन्तर्गताः गृहीत्वा कारागारेषु निरुद्धाः आसन्।

Hindusthan Samachar / Divya Ranjan