विदेशमन्त्री डॉ.एस.जयशङ्करः मङ्गोलियादेशम् आगतः
नवदेहली, २२ जूनमासः (हि.स.)। विदेशमन्त्री डॉ.एस. जयशङ्करः सोमवासरे स्वस्य चतुर्दिवसीयस्य विदेशप्रवासस्य प्रथमचरणे मङ्गोलियादेशम् आगतः। तत्र मङ्गोलियादेशस्य विदेशसचिवः मुनक्तुशिगइल्खानाजवः तस्य हार्दिकं स्वागतम् अकरोत्। विदेशमन्त्री सामाजिकमाध्यममञ
मंगोलिया पहुंचने के बाद विदेश मंत्री डॉ. एस जयशंकर।


नवदेहली, २२ जूनमासः (हि.स.)। विदेशमन्त्री डॉ.एस. जयशङ्करः सोमवासरे स्वस्य चतुर्दिवसीयस्य विदेशप्रवासस्य प्रथमचरणे मङ्गोलियादेशम् आगतः। तत्र मङ्गोलियादेशस्य विदेशसचिवः मुनक्तुशिगइल्खानाजवः तस्य हार्दिकं स्वागतम् अकरोत्।

विदेशमन्त्री सामाजिकमाध्यममञ्चे एक्स इति मञ्चे अलिखत् यत् मङ्गोलियादेशम् आगत्य अतिशयं हर्षः अनुभूयते। मङ्गोलियादेशस्य विदेशसचिवेन मुनक्तुशिग-इल्खानाजवेन कृतस्य हार्दिकस्वागतस्य कृते सः कृतज्ञताम् अपि प्रकटितवान्। सः उक्तवान् यत् विशेषसहभागितायाः अधिकसुदृढीकरणाय सार्थकसंवादस्य प्रतीक्षा वर्तते।

विदेशमन्त्रालयेन उक्तं यत् डॉ.जयशङ्करः जूनमासस्य २२ तथा २३ दिनाङ्कयोः मङ्गोलियादेशस्य प्रवासे भविष्यति। अस्मिन् अवसरे सः मङ्गोलियादेशस्य नेतृत्वेन सह साक्षात्कारं करिष्यति तथा स्वसमकक्ष-विदेशमन्त्रिणा बीबटसेत्सेग इत्यनेश सह द्विपक्षीयवार्तां करिष्यति।

ततः परं विदेशमन्त्री जूनमासस्य २४ तथा २५ दिनाङ्कयोः दक्षिणकोरियादेशस्य प्रवासं करिष्यति। तत्र सः विदेशमन्त्रिणा चोह्यूनेन सह वार्तां करिष्यति तथा जूनमासस्य २५ दिनाङ्के जेजू-नगरे आयोजिते ‘शान्ति-समृद्ध्योः कृते जेजू-मञ्चे’ मुख्यभाषणम् अपि दास्यति।

Hindusthan Samachar / Divya Ranjan