Enter your Email Address to subscribe to our newsletters

चित्तौडगढनगरम्, २२ जूनमास: (हि.स.)। विश्वोष्ट्रदिवसस्य अवसरे सोमवासरे रैबारीसमाजेन वीरहडमलजी रायका गौरवदिवसः इति रूपेण उत्सवः समाचरितः। अस्मिन्नवसरे नगरे भव्यशोभायात्रा निष्कासिता तथा सांवरिया-विश्रान्तिगृहे समारोहः आयोजितः। विधायकः चन्द्रभानसिंह: आक्या अवदत् यत् राष्ट्रीयपशोः उष्ट्रस्य निरन्तरं न्यूनायमानसंख्या चिन्ताजनका वर्तते, अतः तस्य संरक्षणस्य प्रोत्साहनम् अत्यावश्यकम्।
प्राप्तसूचनानुसारं सोमवासरे महाराणाप्रतापसेतुमार्गस्थितात् खरड़िया महादेवमन्दिरात् शोभायात्रा प्रारब्धा। वाद्यवृन्दस्य मधुरध्वनिमध्ये सुसज्जितोष्ट्राः, उष्ट्रयानानि तथा पारम्परिकवेशभूषाधारिणः समाजबान्धवाः शोभायात्रायां समाविष्टाः। महिलाः शिरसि कलशान् धारयन्त्यः मङ्गलगीतानि गायन्त्यः अग्रे जग्मुः। मार्गे स्थाने-स्थाने शोभायात्रायाः पुष्पवर्षया स्वागतं कृतम्। ततः कलेक्ट्रेटचतुष्पथम्, सुभाषचतुष्पथम् अतिक्रम्य किलामार्गस्थिते शेषावतारकल्लाजीमन्दिरे पूजार्चनां विधाय सर्वेषां सुख-समृद्ध्यर्थं प्रार्थना कृता।
समारोहस्य मुख्यातिथिः विधायकः चन्द्रभानसिंह: आक्या उक्तवान् यत् ‘मरुभूमेः पोतः’ इति विख्यातस्य उष्ट्रस्य मानवजीवने महत्त्वपूर्णं योगदानम् अस्ति। तस्य ऐतिहासिकमहत्त्वस्य प्रकाशनार्थमेव प्रतिवर्षं २२ जूनदिने विश्वोष्ट्रदिवसः आचर्यते। सः अवदत् यत् रैबारीसमाजः बहुवर्षेभ्यः उष्ट्रसंरक्षणस्य उत्तरदायित्वं वहति, अतः सः प्रशंसनीयः तथा धन्यवादस्य पात्रम् अस्ति।
भाजपाजनपदोपाध्यक्षः अशोकरायका अवदत् यत् उष्ट्रः राज्यपशुः अस्ति तथा रैबारीसमाजस्य तेन सह प्राचीनकालादेव घनिष्ठः सम्बन्धः वर्तते। अल्पायस्य कारणात् जनाः उष्ट्रपालनात् विमुखाः भवन्ति। शासनं उष्ट्रीदुग्धस्य दुग्धशालाः स्थापयेत् तथा तस्मात् विविधोत्पादान् निर्मापयेत्, येन पालकानां आर्थिकस्थितिः सुदृढा भविष्यति तथा उष्ट्रसंरक्षणमपि प्रोत्साहनं प्राप्स्यति।
हडमलसंरक्षणसमितेः जनपदसंयोजकः राजारामरायका अवदत् यत् अस्य दिवसस्य प्रारम्भः चत्वारि वर्षाणि पूर्वं जोधपुरतः अभवत्। पाली-सिरोही-जनपदयोः अनन्तरम् अद्य चित्तौडगढे बृहदाकारेण अस्य आयोजनम् अभवत्। अलवरनगरेऽपि प्रतिवर्षम् अयं उत्सवः समाचर्यते।
समारोहे मुख्यवक्तारौ लक्ष्मणनाथमहाराजः तथा प्रेमनाथमहाराजः आस्ताम्। अध्यक्षतां जिलाध्यक्षः श्रीलालरायका अकरोत्। समाजस्य प्रतिभाशालिनः सदस्याः सम्मानिताः। कार्यक्रमे झालारामरायका, हीरालालरायका, प्राचार्यः मिठुलालरेबारी, डाॅ.सुखरामरायका इत्यादयः बहुसंख्यकाः समाजबान्धवाः उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं पृथ्वीराजरेबारी अकरोत्।
Hindusthan Samachar / Divya Ranjan