Enter your Email Address to subscribe to our newsletters

प्रयागराजः, २२ जूनमासः (हि.स.)। विश्वविद्यालय-अनुदान-आयोगस्य मालवीय-मिशन-शिक्षक-प्रशिक्षण-परियोजनायाः अन्तर्गतं यूजीसी-एमएमटीटीसी-ईश्वरशरण-स्नातकोत्तर-महाविद्यालयेन सोमवासरे मासपरिमितस्य गुरुदक्षताकार्यक्रमस्य शुभारम्भः कृतः। उद्घाटनसत्रे ‘आधुनिकभारते राज्यं समाजश्च’ इति विषये देशस्य सुप्रसिद्धः समाजशास्त्री प्रो.आनन्दकुमारः उक्तवान् यत् भारतीयराज्यं समाजश्च अधिकलोकतान्त्रिकौ भवितुमर्हतः, यतः भारतीयसंविधाने निहितानि मूल्यानि राज्यं सामाजिकव्यवस्थां च अधिकसमतामूलकां उत्तरदायित्वपूर्णां च कर्तुं प्रेरयन्ति।
तेन उक्तं यत् आधुनिकभारते राज्यसमाजनिर्माणस्य प्रक्रिया स्वातन्त्र्यपूर्वकालः स्वातन्त्र्योत्तरकालश्च इति द्विधा द्रष्टुं शक्यते। स्वातन्त्र्यपूर्वे भारते राजनीति: समाजश्च ब्रिटिशसाम्राज्यस्य प्रभावाधीनौ आस्ताम्, स्वातन्त्र्योत्तरकाले तु भारतीयसंविधानप्रतिपादितमूल्यानामाधारेण तयोः निर्माणं प्रवर्तते। गतपञ्चसप्तति-वर्षेषु आधुनिकभारत-निर्माणस्य प्रक्रियां समाजनिर्माणं, राष्ट्रनिर्माणं, नागरिक-निर्माणञ्च इति क्रमशः अवगन्तुं शक्यते। अस्य कृते राज्येन प्रदीयमाना शिक्षा, अर्थव्यवस्था, प्रौद्योगिकी तथा संविधानं संसाधनरूपेण कार्यं कुर्वन्ति।
प्रो.आनन्दकुमारेण नवतितमे दशकादारभ्य भारते प्रवृत्तायाः वैश्वीकरणप्रक्रियायाः सकारात्मक-नकारात्मकप्रभावयोः विवेचनं कृत्वा शिक्षया, माध्यमैः तथा राजनैतिकदलैः सामूहिकरूपेण देशस्य राष्ट्रियपरिचयस्य निर्माणस्य आवश्यकता प्रतिपादिता।
ईश्वरशरण-स्नातकोत्तर-महाविद्यालयस्य प्राचार्यः तथा मालवीय-मिशन-शिक्षक-प्रशिक्षण-केन्द्रस्य निदेशकः प्रो. आनन्दशङ्करसिंहः गुरुदक्षताकार्यक्रमाय शुभकामनाः प्रदाय अवदत् यत् शिक्षकः विद्यया त्रयाणामपि लोकानां जयमवाप्तुं समर्थः भवति। तेन उक्तं यत् अस्मिन् कार्यक्रमे शिक्षकैः विद्यार्थिषु नागरिकगुणानां संवर्धनस्य उपायाः अधिगन्तव्याः, येन श्रेष्ठराष्ट्रनिर्माणं सम्भवेत्।
कार्यक्रमस्य द्वितीयसत्रे ‘समाजविज्ञानस्य विकासक्षेत्रस्य च अनुसन्धानप्रस्तावः’ इति विषये राजनीतिशास्त्रज्ञः, पीपुल्स-पल्स-संस्थायाः निदेशकः तथा निर्वाचन-विश्लेषकः डॉ.राजनपाण्डेयः अवदत् यत् सम्प्रति भारतीयसामाजिक-विज्ञान-अनुसन्धान-परिषद्, भारतीय-ऐतिहासिक-अनुसन्धान-परिषद्, भारतीयदार्शनिक-अनुसन्धान-परिषद् इत्यादयः संस्थाः अनुसन्धानस्य प्रोत्साहनार्थं प्रस्तावान् अनुमोदयन्ति। उच्चशिक्षाक्षेत्रे शिक्षकेभ्यः केवलं कक्षाशिक्षणमेव न पर्याप्तम्, अपितु श्रेष्ठानुसन्धानैः विचारविमर्शैश्च देशस्य शैक्षणिकपरिदृश्ये योगदानमपि आवश्यकम् इति तेन प्रतिपादितम्। विषयचयनं, परिकल्पना, उद्देश्यानि, अनुसन्धानपद्धतिः, साहित्यसमीक्षा तथा निष्कर्षाः उत्तमानुसन्धानप्रस्तावनिर्माणे महत्त्वपूर्णानि सन्तीति सः अवदत्। राजनैतिकपरामर्शक्षेत्रे दत्तांशसङ्ग्रहः, दत्तांशविश्लेषणं तथा रणनीतिनिर्माणविषयेऽपि तेन उक्तं यत् भारते एतत् क्षेत्रं नूतनम् अस्ति तथा अत्र अनुसन्धानस्य विपुला सम्भावना विद्यते।
केन्द्रस्य सहनिदेशकः डॉ.मनोजकुमारदुबे अवदत् यत् गुरुदक्षताकार्यक्रमः मासपर्यन्तं सञ्चाल्यते, यस्मिन् देशस्य विंशत्यधिकराज्येभ्यः आगताः १२५ प्रतिभागिनः सहभागीभूताः। अस्मिन् अवसरे कार्यक्रमस्य संयोजकः डॉ. अङ्कितपाठकः, सहसंयोजकः डॉ. अरविन्ददेवः, प्रो. धीरजचौधरी, डॉ. शाइस्ता इरशाद, डॉ. महेशप्रसादरायः, डॉ. अरविन्दमिश्रः, डॉ. विकासकुमारः तथा शताधिकाः शिक्षकाः उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं डॉ. अङ्कितपाठकेन कृतम् तथा धन्यवादज्ञापनं डॉ. अरविन्ददेवेन प्रस्तुतम्।
Hindusthan Samachar / Divya Ranjan