Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, २२ जूनमासः (हि.स.)। द्वितीयज्येष्ठशुक्लदशम्यां, २४ जूनमासे, छोटीकाशी-क्षेत्रे गायत्रीजयन्ती उत्साहेन आचरिष्यते। ब्रह्मपुरी, वाटिका, कालवाड-स्थितेषु गायत्रीशक्तिपीठेषु तथा मानसरोवरस्थिते श्रीवेदनानिवारणकेन्द्रे मुख्यकार्यक्रमाः भविष्यन्ति। पूर्वसन्ध्यायां २३ जूनमासे प्रातःकालात् सायंकालपर्यन्तं सर्वेषां सद्बुद्ध्यर्थं गायत्रीमहामन्त्रस्य सामूहिकजपः भविष्यति। अस्मिन् वर्षे गायत्रीजयन्तीमहोत्सवः प्रखरसाधना-न्दोलनस्य रूपेण आचरिष्यते।
सोमवासरे गृहे गृहे गायत्रीयज्ञस्य अन्तर्गतं विभिन्नस्थानेषु यज्ञानुष्ठानं कृत्वा जनाः गायत्रीजयन्तीमहोत्सवे सहभागाय आमन्त्रिताः। गायत्रीजयन्तीसम्बद्धतया ब्रह्मपुरीस्थिते गायत्रीशक्तिपीठे आयोजनस्य सज्जताविषये सभापि अभवत्।
गायत्रीशक्तिपीठस्य ब्रह्मपुरी-व्यवस्थापकः सोहनलालशर्मा अवदत् यत् २३ जूनमासे मातुः गायत्र्याः पुरतः अखण्डदीपस्य साक्षिणि प्रातः षड्वादनात् सायं पञ्चवादनपर्यन्तम् अखण्ड-गायत्रीजपः भविष्यति। तस्मिन् बहुसंख्यकाः श्रद्धालवः सहभागिनः भूत्वा गायत्रीमन्त्रसाधनां करिष्यन्ति। २४ जूनमासे प्रातः अष्टवादनात् पञ्चकुण्डीय-गायत्रीमहायज्ञः भविष्यति। अस्मिन् यज्ञे श्रद्धालवः विश्वकल्याणाय, पारिवारिक-सुखसमृद्धये तथा उज्ज्वलभविष्याय यज्ञभगवते आहुतीः समर्पयिष्यन्ति। यज्ञे सर्वे जनाः सहभागिन: भवितुमर्हन्ति। ये साधकाः एकवर्षपर्यन्तं गायत्रीमहामन्त्र-जपस्य विशेषसाधनां कर्तुमिच्छन्ति, तेषां सङ्कल्पः कारयिष्यते तथा साधनासङ्कल्प-पत्राणि अपि पूरयिष्यन्ते।
श्रीवेदमातागायत्रीन्यासस्य पक्षतः किरणपथ-मानसरोवरस्थिते वेदनानिवारणकेन्द्रे गायत्रीजयन्त्याः निमित्तं त्रिदिवसीयाः आध्यात्मिक-कार्यक्रमाः आयोजयिष्यन्ते। केन्द्रस्य व्यवस्थापकः आर.डी.गुप्तः अवदत् यत् २३ जूनदिनपर्यन्तं प्रतिदिनं प्रातः अष्टवादनार्धात् सायं पञ्चवादनार्धपर्यन्तं गायत्रीमहामन्त्रजपसाधना भविष्यति। २३ जूनमासे सायं पञ्चवादनार्धात् षड्वादनार्धपर्यन्तं दीपयज्ञः भविष्यति। २४ जूनमासे प्रातः अष्टवादनात् एकादश-वादनपर्यन्तं नवकुण्डीयगायत्री-महायज्ञः आयोजयिष्यते।
वाटिका-कालवाडस्थितयोः गायत्रीशक्ति-पीठयोरपि २३ जूनदिने प्रातःकालात् सायंकालपर्यन्तं गायत्रीमहामन्त्रस्य जपः तथा २४ जूनमासे पञ्चकुण्डीय-गायत्रीमहायज्ञः भविष्यति। दुर्गापुरस्थिते गायत्रीचेतनाकेन्द्रे प्रातः सप्तवादनार्धात् नववादनार्धपर्यन्तं पञ्चकुण्डीय-गायत्रीमहायज्ञः आयोजयिष्यते।
जनताकॉलोनीस्थिते चेतनाकेन्द्रे २४ जूनदिने प्रातः षड्वादनात् अष्टवादनार्धपर्यन्तं सामूहिकगायत्रीजपः तथा अष्टवादनार्धात् दशवादनार्धपर्यन्तं पञ्चकुण्डीयगायत्रीमहायज्ञः भविष्यति। अस्मिन् अवसरे त्रिषु शक्तिपीठेषु चेतनाकेन्द्रेषु च दीक्षा, यज्ञोपवीतसंस्कारः, नामकरणसंस्कारः, पुंसवनसंस्कारः इत्यादयः विविधाः संस्काराः विधास्यन्ते। ये बालकाः प्रथमवारं विद्यालयं गमिष्यन्ति, तेषां कृते विद्यारम्भसंस्कारः विशेषरूपेण सम्पादयिष्यते।
Hindusthan Samachar / Divya Ranjan