Enter your Email Address to subscribe to our newsletters

जम्मूनगरम्, २२ जूनमासः (हि.स.)। श्रीमातावैष्णोदेवी-विश्वविद्यालयस्य विद्यार्थिनां कृते आईसीआईसीआई-धनागारेण विशेषा शिक्षाऋणयोजना प्रारब्धा, यस्याः उद्देश्यं उच्चशिक्षायाः अधिकसुलभता तथा आर्थिकदृष्ट्या सुकरता च अस्ति। एषा योजना विश्वविद्यालयस्य विविधसंकायेषु पाठ्यक्रमेषु च अध्ययनरतानां वर्तमान-नवप्रवेशित-विद्यार्थिनां कृते उपलब्धा भविष्यति।
अस्याः ऋणयोजनायाः अन्तर्गतं शिक्षणशुल्कं, छात्रावासशुल्कं, परीक्षाशुल्कं, ग्रन्थालयशुल्कं, अध्ययनसामग्री, सङ्गणकयन्त्रं, उपकरणानि तथा अन्यासां शैक्षणिकावश्यकतानां पूर्त्यर्थं वित्तीयसहायता प्रदास्यते। तदतिरिक्तं शिथिलता पुनर्प्रदानव्यवस्था, शुल्कप्रतिपूर्तिसुविधा तथा सरला आवेदनप्रक्रियापि उपलभ्यते। योजनायां परिवारस्य सदस्य: सह-आवेदकरूपेण वा प्रत्याभूतिरूपेण स्वीकर्तुं शक्यते तथा पूर्वप्रदाने किमपि अतिरिक्तशुल्कं न विधीयते।
विश्वविद्यालयस्य कुलपतिः प्रो. प्रगतिकुमारः एतस्य प्रयत्नस्य स्वागतं कृत्वा अवदत् यत् अनेन आर्थिकदृष्ट्या दुर्बलवर्गीयविद्यार्थिनः उच्चशिक्षाप्राप्तौ विशेषं लाभं प्राप्स्यन्ति। तेन उक्तं यत् विश्वविद्यालयः प्रवेशप्रकोष्ठस्य माध्यमेन विद्यालक्ष्मी-पटलम् अधिकैः धनागारै: सह संयोजयित्वा शिक्षावित्तसुविधायाः व्यापकप्राप्यतां वर्धयितुं प्रयतते।
अस्मिन्नवसरे आईसीआईसीआई-धनागारस्य अधिकारी जयदीपः, रोहितः, राजेशः, जोनल-हेड् सन्दीपशर्मा, विश्वविद्यालयस्य कुलसचिवः, वित्ताधिकारी तथा प्रवेशप्रकोष्ठस्य प्रो. अमितकान्त-पण्डितः उपस्थिताः आसन्। सर्वैरपि एष: सहयोगात्मक: प्रयत्न: प्रशंसित:।
Hindusthan Samachar / Divya Ranjan