Enter your Email Address to subscribe to our newsletters

नवदेहली, २२ जूनमासः (हि.स.)। ईरानदेशस्य सर्वोच्चराष्ट्रीयसुरक्षापरिषदः उपसचिवः गादिर-नेजामी सोमवासरे ब्रिक्स-देशानां राष्ट्रियसुरक्षा-सलाहकाराणां सुरक्षासंस्थानां प्रमुखाणां च सभायां सहभागितायै नवदेहलीम् आगतः।
भारते ईरानी-दूतावासेन एक्स इत्यत्र सूचितं यत् गादिर-नेजामी स्वस्य प्रवासकाले विविधेषु विशेषसत्रेषु सहभागितां करिष्यति तथा सहभागीदेशानाम् अधिकारिभिः सह साक्षात्कारं कृत्वा सुरक्षाविषयेषु बहुपक्षीयसहकार्ये च विचारविमर्शं करिष्यति।
दूतावासस्य अनुसारं सभायां आतङ्कवादः, साइबर-सुरक्षा, ऊर्जासुरक्षा तथा बहुपक्षीयसहकार्यं इत्यादिषु विषयेषु चर्चा भविष्यति। नेजामी अस्मिन् अवसरे सहभागीदेशानाम् अधिकारिभिः सह अपि मिलिष्यति। अस्याः सभाया: उद्देश्यं सदस्यदेशानां मध्ये सुरक्षासम्बद्ध-सहकार्यस्य अधिकं सुदृढीकरणम् अस्ति।
उल्लेखनीयं यत् नवदेहल्यां जूनमासस्य २२ तथा २३ दिनाङ्कयोः ब्रिक्स-देशानां राष्ट्रियसुरक्षासलाहकाराणां सुरक्षासंस्थानां प्रमुखाणां च षोडशी सभा आयोज्यते।
भारतस्य राष्ट्रियसुरक्षासलाहकारस्य अजीत-डोभालस्य अध्यक्षतायां आयोजितायां अस्यां द्विदिवसीय-सभायां साइबर-सुरक्षा, कृत्रिमबुद्धिमत्ता, आतङ्कवादः तथा अन्याः अपरम्परागत-सुरक्षासमस्या: इत्यादिषु विषयेषु विस्तृतविमर्शः भविष्यति। एषा सभा सितम्बरमासे २०२६ तमे वर्षे भविष्यतः ब्रिक्स-शिखरसम्मेलनस्य पूर्वसज्जारूपेण आयोज्यते, यस्मिन् ब्राजील, रूस, भारत, चीन, दक्षिणाफ्रिका इत्यादयः विस्तारित-ब्रिक्स-सदस्यदेशाः सहभागितां करिष्यन्ति।
Hindusthan Samachar / Divya Ranjan