Enter your Email Address to subscribe to our newsletters

पौड़ी गढ़वालम्, 22 जूनमासः (हि.स.)।
उत्तराखण्डे आयोजितायां राष्ट्रिय-जुजित्सु-चैम्पियनशिपप्रतियोगितायां कोरबानगरस्य प्रतिभासम्पन्नैः क्रीडकैः उत्कृष्टं प्रदर्शनं कृत्वा जनपदस्य प्रदेशस्य च नाम राष्ट्रियस्तरे गौरवान्वितं कृतम्। क्रीडकैः प्रतियोगितायां समष्टिरूपेण पञ्च स्वर्णपदकानि, द्वे रजतपदके तथा सप्त कांस्यपदकानि विजित्य स्वप्रतिभायाः श्रेष्ठत्वं प्रमाणितम्।
अस्याः उल्लेखनीयायाः सिद्धेः अनन्तरं छत्तीसगढ़शासनस्य उद्योग-श्रम-आबकारीमन्त्री लखनलालदेवाङ्गनः अद्य सोमवासरे क्रीडकैः सह सौहार्दपूर्णमेलनम् अकरोत् तथा तान् अभिनन्दनैः शुभाशंसाभिश्च सम्मानितवान्। मन्त्री देवाङ्गनः क्रीडकानां परिश्रमं, अनुशासनं समर्पणभावं च प्रशंसन् अवदत् यत् तेषां सफलता केवलं कोरबायाः न, अपितु समग्रस्य छत्तीसगढ़प्रदेशस्य गौरवविषयः अस्ति।
मन्त्रिणा यैः क्रीडकैः सह भेंटः कृता, तेषु अतिन् शर्मा, आदवितेय यादव, विधि विजयवर्गीय, दीपेन्द्र चन्द्रा, प्रणव निर्मलकर, अगस्य शर्मा, स्नेहा बनर्जी तथा अर्णव यादव इत्येते समाविष्टाः आसन्। सः क्रीडकान् भविष्येऽपि राष्ट्रिय-अन्तरराष्ट्रीयस्तरेषु उत्कृष्टप्रदर्शनाय प्रोत्साहितवान्।
लखनलालदेवाङ्गनः अवदत् यत् क्रीडाक्षेत्रे युवानां वर्धमाना सहभागिता प्रदेशस्य उज्ज्वलभविष्यस्य सूचिका अस्ति। तेन विश्वासः व्यक्तीकृतः यत् एते क्रीडकाः आगामिषु कालेषु देशस्य कृतेऽपि पदकानि विजित्य कोरबायाः छत्तीसगढ़स्य च नाम विश्वपटलस्य उपरि प्रतिष्ठापयिष्यन्ति।
अस्मिन् अवसरे क्रीडकानां प्रशिक्षकौ प्रेमराज बंजारे तथा स्नेहा बंजारे, अभिभावकगणश्च उपस्थिताः आसन्। सर्वे क्रीडकानां सफलतायाः विषये हर्षं व्यक्तीकृत्य तेषां उज्ज्वलभविष्यस्य कामनाम् अकुर्वन्।
राष्ट्रीय-जुजित्सु-चैम्पियनशिप्-प्रतियोगितायां कोरबायाः क्रीडकानाम् एषा उपलब्धिः जनपदस्य क्रीडाप्रेमिषु महदुत्साहमुत्पादितवती। क्रीडकानां सफलता युवपीढ्याः कृते प्रेरणास्रोतोरूपेण भवति तथा च एतत् सिद्धयति यत् प्रतिभया कठोरपरिश्रमेण च लघुनगराणां क्रीडकाः अपि राष्ट्रियस्तरे महान् उपलब्धीः प्राप्तुं समर्थाः भवन्ति।
Hindusthan Samachar / Dheeraj Maithani