Enter your Email Address to subscribe to our newsletters

गांदरबलम्, 22 जूनमासः (हि.स.)।जम्मू कश्मीरस्य उपराज्यपालः मनोज सिन्हा सोमवासरे गांदरबल जनपदस्य तुलमुल्ला क्षेत्रस्थिते खीर भवानी मन्दिरे पूजाम् अर्चनां च कृतवान् तथा उक्तवान् यत् राज्ये शान्तिः भ्रातृत्वभावश्च निरन्तरं विद्यमानौ स्ताम्।
पत्रकारैः सह संवादं कुर्वन् उपराज्यपालः मनोज सिन्हा उक्तवान् यत् सर्वैः एषा प्रार्थना कृता यत् जम्मू कश्मीरे शान्तिः सद्भावश्च स्थिरौ स्ताम् तथा माता खीर भवानीदेव्याः आशीर्वादः सर्वेषां उपरि निरन्तरं वर्तताम्।
तेन मेलायाः सुचारुसम्पादनार्थं कृतानां व्यवस्थापनानां प्रशंसा कृता। तेन उक्तं यत् अहं श्रद्धालूनां कृते उत्कृष्टव्यवस्थां कर्तुं संलग्नानां सर्वेषां जनानां प्रशंसां कर्तुम् इच्छामि।
सिन्हा उक्तवान् यत् श्रद्धालवः दशकेभ्यः देवीमातुः आशीर्वादं प्राप्तुं वार्षिकमेलायां सहभागित्वं च कर्तुं अस्मिन् मन्दिरे आगच्छन्ति। अस्य मेलायाः अत्यधिकं धार्मिकं सांस्कृतिकं च महत्त्वम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani