विदेशमन्त्री मङ्गोलियादेशे दक्षिणकोरियादेशे च आधिकारिक-प्रवासं करिष्यति
नवदेहली, २२ जूनमासः (हि.स.)। विदेशमन्त्री डॉ.एस.जयशङ्करः २२ जूनमासात् २५ जूनमासपर्यन्तं मङ्गोलियादेशस्य दक्षिणकोरियादेशस्य च आधिकारिक-प्रवासं करिष्यति। विदेशमन्त्रालयेन सोमवासरे एतस्य सूचना प्रदत्ता। विदेशमन्त्री २२ तथा २३ जूनमासयोः मङ्गोलियादेशस्
EAM Dr.S Jaishankar


नवदेहली, २२ जूनमासः (हि.स.)। विदेशमन्त्री डॉ.एस.जयशङ्करः २२ जूनमासात् २५ जूनमासपर्यन्तं मङ्गोलियादेशस्य दक्षिणकोरियादेशस्य च आधिकारिक-प्रवासं करिष्यति। विदेशमन्त्रालयेन सोमवासरे एतस्य सूचना प्रदत्ता।

विदेशमन्त्री २२ तथा २३ जूनमासयोः मङ्गोलियादेशस्य प्रवासं करिष्यति। अस्मिन् प्रवासे सः मङ्गोलियादेशस्य नेतृत्वेन सह साक्षात्कारं करिष्यति तथा स्वसमकक्षया विदेशमन्त्रिण्या बी.बट्सेत्सेग: इत्यनया सह द्विपक्षीयवार्तां करिष्यति।

तदनन्तरं सः २४ तथा २५ जूनमासयोः दक्षिणकोरियादेशस्य प्रवासं करिष्यति। अस्मिन् प्रवासे सः दक्षिणकोरियादेशस्य विदेशमन्त्रिणा चोह्यून इत्यनेन सह वार्तां करिष्यति। सः २५ जूनमासे जेजू-नगरे आयोजिते ‘शान्ति-समृद्ध्यर्थं जेजू-मञ्चे’ मुख्यभाषणमपि दास्यति।

Hindusthan Samachar / Divya Ranjan