Enter your Email Address to subscribe to our newsletters

गोरखपुरम्, 22 जूनमासः (हि.स.)।
महायोगी गोरखनाथ विश्वविद्यालयः गोरखपुरम् एमजीयूजी तथा आरोग्य भारती इत्येतयोः संयुक्ततत्त्वावधानेन स्वस्थायुषः कृते योगः इति विषये एकदिवसीया वैज्ञानिकसङ्गोष्ठी आयोजिता। सोमवासरे आयोजितायाः अस्याः सङ्गोष्ठ्याः मुख्यवक्ता विश्वआयुर्वेदमिशनस्य अन्ताराष्ट्रियाध्यक्षः आरोग्य भारत्याः राष्ट्रियोपाध्यक्षः च डा जीएस तोमर उक्तवान् यत् योगः अनुशासितजीवनशैल्याः मूलमन्त्रः अस्ति।
डा तोमर उक्तवान् यत् योगः शारीरिकमानसिकसामाजिकाध्यात्मिकस्वास्थ्यस्य सम्पोषकः भवति, अनन्तऊर्जायाः प्रदाता च अस्ति। योगेन पुष्टं शरीरम्, सजगं मस्तिष्कं, सकारात्मकभावः तथा च सृजनात्मकता अपि जायते। योगः प्रतिदिनस्य दिनचर्यायाः अभिन्नः अङ्गः करणीयः, तदैव वयं स्वस्थनागरिकान् शान्तिपूर्णविश्वस्य च परिकल्पनां साकारयितुं शक्नुमः। तेन शिवावतारस्य महायोगिनः गोरखनाथस्य इडा पिङ्गला च सन्तुल्य सुषुम्नाजागरणं योगस्य चरमा उपलब्धिः इति निरूपितम् तथा च योगः केवलं शारीरिकव्यायामः न, अपितु सम्पूर्णजीवनदर्शनम् इति प्रतिपादितम्।
कार्यक्रमस्य प्रारम्भः भगवान् धन्वन्तरिः तथा शिवावतारः महायोगी गुरु गोरखनाथः इत्येतयोः पूजनार्चनेन दीपप्रज्वलनेन च अभवत्। कार्यक्रमस्य अध्यक्षतां कुर्वन् आरोग्य भारत्याः गोरक्षप्रान्ताध्यक्षः डा डीपी सिंह उक्तवान् यत् योगः चित्तशुद्धये, आयुर्वेदः शरीरशुद्धये, व्याकरणमहाभाष्यम् वाणीशुद्धये च महर्षिणा पतञ्जलिना आविर्भावितम्। अस्मिन् अवसरे योगप्रशिक्षकः डा जयन्त नाथ सहभागिभ्यः योगाभ्यासं कारितवान्। विषयप्रवर्तनं कृषिविज्ञानसंकायस्य अधिष्ठाता कार्यक्रमस्य संयोजकः च डा विमलकुमार द्विवेदी अकरोत् तथा च धन्यवादज्ञापनं गुरु गोरक्षनाथ इन्स्टिट्यूट आफ मेडिकल साइन्सेस इत्यस्य प्राचार्यः डा गिरिधर वेदान्तम् अकरोत्। अस्मिन् अवसरे फार्मेसी महाविद्यालयस्य प्राचार्यः डा शशिकान्त सिंह, आयुर्वेदसंकायस्य डा विनम्र शर्मा, डा डीके सिंह, फार्मेसीसंकायस्य दिलीप मिश्रः, पीयूष आनन्दः, दीपक कुमारः, पैरामेडिकल विभागस्य अभिनव राठौरः, डा अङ्किता दीक्षितः, आकाश वर्मा, कुलदीप यादवः इत्यादयः तथा विविधसंकायानां बहवः प्राध्यापकाः पराचिकित्साविभागस्य प्रायः द्विशतं छात्राश्च उपस्थिताः आसन्।
आयुर्वेदचिकित्सालये रोगिणां निःशुल्कं परीक्षणम् अभवत्
गोरखपुरम्। महन्त दिग्विजयनाथ आयुर्वेदचिकित्सालयस्य आरोग्यधाम्नः विशिष्ट ओपीडी विभागे विश्वआयुर्वेदमिशनस्य अन्ताराष्ट्रियाध्यक्षः डा जीएस तोमर संधिवातः, श्वासरोगः, मधुमेहः, हृदयरोगः, त्वग्रोगः इत्यादिभिः पीडितानां प्रायः द्विशतं रोगिणां परीक्षणं कृत्वा निःशुल्कचिकित्सापरामर्शं प्रदत्तवान्। डा तोमरेण सर्वेभ्यः रोगानुसारं औषधसेवनं कर्तुं तथा आयुर्वेदसम्मतां जीवनशैलीम् अवलम्बितुं परामर्शः प्रदत्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani