मध्यप्रदेश-हिन्दी-ग्रन्थ-अकादम्याः षट्पञ्चाशत्तमः स्थापना-दिवस-समारोहः अद्य, मन्त्री परमारः मुख्यातिथिः भविष्यति
भोपालनगरम्, २२ जूनमासः (हि.स.)। मध्यप्रदेश-हिन्दी-ग्रन्थ-अकादम्याः षट्पञ्चाशत्तमः स्थापना-दिवस-समारोहः अद्य सोमवासरे सायं चतुर्वादने मध्यप्रदेश-निजी-विश्वविद्यालय-विनियामक-आयोगस्य भोपालस्थिते सभागारे आयोज्यते। समारोहस्य मुख्यातिथिः उच्चशिक्षामन्त्र
मप्र हिंदी ग्रंथ अकादमी


भोपालनगरम्, २२ जूनमासः (हि.स.)। मध्यप्रदेश-हिन्दी-ग्रन्थ-अकादम्याः षट्पञ्चाशत्तमः स्थापना-दिवस-समारोहः अद्य सोमवासरे सायं चतुर्वादने मध्यप्रदेश-निजी-विश्वविद्यालय-विनियामक-आयोगस्य भोपालस्थिते सभागारे आयोज्यते। समारोहस्य मुख्यातिथिः उच्चशिक्षामन्त्री तथा अकादम्याः अध्यक्षः इन्दरसिंह-परमारः भविष्यति। कार्यक्रमस्य अध्यक्षतां अकादम्याः सञ्चालकः अशोक-कडेलः करिष्यति।

अकादम्याः सहायक-सञ्चालकेन रामविश्वास-कुशवाहेन उक्तं यत् समारोहे अपरमुख्यसचिवः अनुपम-राजन् विशिष्टातिथिरूपेण तथा उच्चशिक्षायुक्तः प्रबल-सिपाहा अतिथिरूपेण उपस्थितौ भविष्यतः। स्थापना-दिवसस्य अवसरे अकादम्या प्रकाशितयोः ‘प्रगति-पथ’ नामक-पुस्तिकायाः तथा द्विमासिक-पत्रिकायाः ‘रचना’ इत्यस्याः विमोचनं भविष्यति। एते प्रकाशनौ अकादम्याः शैक्षणिक-साहित्यिक-ज्ञानविस्तारसम्बद्ध-कार्यकलापानां महत्त्वपूर्णे तथ्ये स्तः।

तेन उक्तं यत् राष्ट्रीयशिक्षानीति-२०२० इत्यन्तर्गतं उच्चशिक्षायै स्नातक-स्नातकोत्तर- तथा सन्दर्भग्रन्थानां पाण्डुलिपि-निर्माणे उल्लेखनीयं योगदानं प्रदत्तवन्तः शिक्षाविदः समारोहे सम्मानिताः भविष्यन्ति। सम्मानितेषु शिक्षाविद्सु प्रवेश-शुल्क-विनियामक-समित्याः अध्यक्षः डॉ.रविन्द्र-कान्हेरे, मध्यप्रदेश-निजी-विश्वविद्यालय-विनियामक-आयोगस्य अध्यक्षः डॉ. खेमसिंह-डहेरिया, विक्रम-विश्वविद्यालयस्य पूर्वाचार्यः डॉ.राकेश-ढण्डः, तथा जबलपुरस्थित-प्रधानमन्त्री-कॉलेज-ऑफ-एक्सीलेन्स-शासकीय-महाकोशल-कला-वाणिज्य-महाविद्यालयस्य प्राचार्यः डॉ. अलकेश-चतुर्वेदी च समाविष्टाः सन्ति। तेभ्यः शालं, श्रीफलं, स्मृतिचिह्नं च प्रदाय सम्मानं विधास्यते।

कार्यक्रमस्य सञ्चालनं मध्यप्रदेश-हिन्दी-ग्रन्थ-अकादम्याः संयुक्त-सञ्चालकः डॉ. उत्तमसिंह-चौहानः करिष्यति। समारोहे विश्वविद्यालयानां कुलगुरवः, कुलसचिवाः, प्राचार्याः, प्राध्यापकाः, शिक्षाविदः, साहित्यकाराः, अकादम्याः लेखकाः तथा विविध-शैक्षणिक-संस्थानानां प्रतिनिधयः अपि उपस्थिताः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan