Enter your Email Address to subscribe to our newsletters






भोपालनगरम्, २१ जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मू मध्यप्रदेशस्य श्योपुरजनपदस्थितं कुनो-राष्ट्रीयोद्यानं द्विदिवसीयप्रवासस्य द्वितीये दिने सोमवासरे चित्रकमित्रैः सह संवादं कृत्वा चित्रकसंरक्षणार्थं क्रियमाणानां प्रयत्नानां विषये सूचनाम् अलभत।
राष्ट्रपतिः चित्रकमित्रैः सह वार्तालापस्य समये तैः चित्रकाणां सुरक्षार्थं तथा सामान्यजनमध्ये चित्रकाणां स्वभावस्य विषये जनजागरूकतां प्रसारयितुं क्रियमाणानां प्रयत्नानामपि विषये सूचनाम् अलभत। सा सर्वैः चित्रकमित्रैः सह पृथक् पृथक् संवादं कृत्वा परियोजनायै तेषां मानसेविरूपेण क्रियमाणानां कार्याणां प्रशंसाम् अकरोत्।
राष्ट्रपतये निवेदितं यत् कुनो-राष्ट्रीयोद्यानस्य समीपवर्तिषु सर्वेषु ग्रामेषु चित्रकमित्राणि नियुक्तानि सन्ति, ये ग्रामवासिनः चित्रकसंरक्षणस्य विषये जागरूकान् कुर्वन्ति। चित्रकाणाम् जनसम्मर्दक्षेत्रेषु आगमनगमनस्य स्थितौ कर्तव्यकार्याणि अपि सर्वेभ्यः अवगतानि कृतानि। ग्रामवासिनः एतदपि बोध्यन्ते यत् चित्रका: स्वभावतः कस्यापि हानिं न कुर्वन्ति। यदि चित्रक: आबादीक्षेत्रे अथवा कृषिक्षेत्रे दृश्यते तर्हि तत्क्षणमेव वनविभागः सूचनीयः, येन चित्रकाणां किमपि अहितं न भवेत्। भारते चीतानां पुनर्स्थापनार्थम् एषा परियोजना अत्यन्तं महत्त्वपूर्णा अस्ति।
अस्मिन्नवसरे चित्रकमित्राणि—सिलोरीग्रामनिवासी कुलदीप-आदिवासी, हथेडीग्रामनिवासिनौ सङ्ग्राम-आदिवासी तथा राजनन्दिनी-आदिवासी, सेसईपुरा-ग्रामनिवासी मल्हा-आदिवासी, पालपुर-ग्रामनिवासी शिवम-आदिवासी, पैराग्राम-निवासी विनोद-आदिवासी, कराहलग्राम-निवासी रामलखन-आदिवासी, सेसईपुराग्राम-निवासी लालाराम-आदिवासी, दौलतराम-आदिवासी तथा मोरावनग्रामनिवासी सतीश-आदिवासी उपस्थिताः आसन्।
अस्मिनवसरे वनविभागस्य प्रमुखसचिवः सन्दीपयादवः, पीसीसीएफ शुभरञ्जनसेनः, चम्बलमण्डलस्य आयुक्तः सुरेशकुमारः, आईजी सचिन-अतुलकरः, श्योपुर-जनपदाधिकारी शीलादाहिमा, आरक्षक-अधीक्षकः सुधीर-अग्रवालः, कुनो-राष्ट्रीयोद्यानस्य सीसीएफ उत्तमकुमारः, डीएफओ आर. थिरूकुरालः तथा अन्ये अधिकारिणः अपि उपस्थिताः आसन्।
उल्लेखनीयम् अस्ति यत् कुनो-राष्ट्रीयोद्याने चित्रकपुनर्स्थापन-परियोजनायाः प्रारम्भात् सार्धत्रिवर्षाधिकः कालः व्यतीतः। अस्मिन् राष्ट्रीयोद्याने नामीबिया, दक्षिण-आफ्रिका तथा बोत्सवानादेशेभ्यः चीताः आनीताः। अधुना भारते चित्रकाणां संख्या ५२ अस्ति, तेषु ४९ चीताः कुनो-राष्ट्रीयोद्याने तथा ३ चीताः मन्दसौरस्थिते गान्धीसागर-अभयारण्ये सन्ति। भारते जातानां चित्रकाणान संख्या ३२ अस्ति तथा चित्रकपुनर्स्थापनपरियोजना निरन्तरं सफलतायाः दिशि अग्रे सरति।
कुनो-राष्ट्रीयोद्यानस्य द्विदिवसीय-भ्रमणानन्तरं राष्ट्रपतिः हेलिकॉप्टर-यानद्वारा ग्वालियरनगरस्य महाराजपुर-वायुसेनाविमानस्थलं प्राप्तवती। तया सह मध्यप्रदेशस्य राज्यपालः मङ्गुभाईपटेलः अपि ग्वालियरम् आगतः। राष्ट्रपतिः प्रातः १०:३५ वादने वायुसेनाविमानेन ग्वालियरात् देहलीनगरं प्रति प्रस्थितवती।
Hindusthan Samachar / Divya Ranjan