Enter your Email Address to subscribe to our newsletters




- ग्वालियर विमानतले विहितं भावपूर्णं सौप्रस्थानिकम्
भोपालम्, 22 जूनमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः सोमवासरे श्योपुरजिलास्थितस्य प्रसिद्धस्य कूनो राष्ट्रियोद्यानस्य भ्रमणम् अकरोत्। अनेन सह तस्याः मध्यप्रदेशस्य पञ्चदिवसीयः प्रवासः सम्पन्नः अभवत्। राष्ट्रपतिः सोमवासरे प्रातः १०.३५ वादने वायुसेनायाः विमानद्वारा ग्वालियरनगरात् दिल्लीनगरं प्रति प्रस्थितवती। अस्मिन् अवसरे तस्यै सस्नेहं विदायः प्रदत्तः।
राष्ट्रपतिः मुर्मु रविवासरे सायंकाले कूनो राष्ट्रीयोद्यानम् आगता आसीत्। तया रात्रिविश्रामः कूनो उद्याने एव कृतः तथा सोमवासरे प्रातः उद्यानस्य भ्रमणं कृत्वा चीतमित्रैः तथा सहरियाजनजातिसदस्यैः सह संवादः कृतः। अस्मिन् समये तया प्रोजेक्ट चीता अभियाने तेषां योगदानस्य कृते प्रशंसा कृता।
कूनो भ्रमणस्य अनन्तरं राष्ट्रपतिः मुर्मु श्योपुरात् प्रातः ९.१५ वादने हेलिकॉप्टरयानद्वारा प्रस्थाय ग्वालियरस्थितं महाराजपुरा वायुसेनाविमानतलम् आगता। तया सह मध्यप्रदेशस्य राज्यपालः मंगुभाई पटेल अपि आगतः। ग्वालियरविमानतले राज्यपालः मंगुभाई पटेल, प्रदेशस्य जलसम्पदामन्त्री तुलसीराम सिलावट, सामाजिकन्यायमन्त्री नारायणसिंह कुशवाह, ऊर्जामन्त्री प्रद्युम्नसिंह तोमर, सांसदः भारतसिंह कुशवाह तथा महापौरा शोभा सिकरवार राष्ट्रपतिं विदायम् अददुः।
विमानतले अपरमुख्यसचिवः मनु श्रीवास्तव, होमगार्ड महानिदेशिका प्रज्ञा रिचा श्रीवास्तव, सम्भागीयायुक्तः मनोज खत्री, आईजी अरविन्दकुमार सक्सेना, डीआईजी असित यादव, जिलाधीशा रुचिका चौहान, पुलिसाधीक्षकः धर्मवीरसिंह, नगरनिगमायुक्तः संघ प्रिय तथा वायुसेनायाः अधिकारिणः उपस्थिताः आसन्।
अस्मात् पूर्वं रविवासरे सायंकाले राष्ट्रपतिः मुर्मुः कूनो राष्ट्रियोद्यानस्य चीतानिर्देशण नियंत्रणकेंद्रस्य अवलोकनम् अकरोत्। चीता कमाण्ड एण्ड कन्ट्रोल सेन्टरस्य अवलोकनसमये राष्ट्रपतये चीतानां निरीक्षणस्य अनुगमनस्य च प्रक्रियाविषये सूचना प्रदत्ता। राष्ट्रपतिः चीतानिर्देशणनियंत्रणकेंद्रस्य परिसरे चीता परियोजनायाः अद्यावधि प्रगतिविषये स्थापितायाः प्रदर्शिन्याः अपि अवलोकनम् अकरोत्। राष्ट्रपतये सूचितं यत् वर्तमानकाले भारते चीतानां संख्या ५२ अस्ति, तेषु ४९ चीताः कूनो उद्याने सन्ति, त्रयः चीताः मन्दसौरस्थितं गाँधीसागर अभयारण्यम् प्रेषिताः सन्ति।
राष्ट्रपतिः अस्मिन् समये चीतानां कृते कृतानां आवश्यकसुविधानां विषये अपि जानकारीम् अलभत। सूचितं यत् प्रतिद्विकिलोमीटरदूरे वने जलकुण्डानि निर्मितानि सन्ति, येषु आवश्यकतानुसारं जलं पूर्यते। अस्मिन् अवसरे तस्यै बोत्सवानादेशात् आनितानां चीतानां गतिविधीनाम् अपि सूचना प्रदत्ता।
उल्लेखनीयं यत् राष्ट्रपतिः मुर्मु स्वस्य बोत्सवानाप्रवासस्य समये अष्टौ चीता स्वीकृतवती आसीत्, ये पश्चात् कूनो राष्ट्रियोद्यानम् आनिताः सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani