Enter your Email Address to subscribe to our newsletters


उज्जयिनीनगरम्, २१ जूनमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते ज्योतिर्लिङ्गे भगवत: महाकालेश्वरमन्दिरे भस्मारार्तिकी-दर्शनार्थं सोमवासरात् नूतना व्यवस्था प्रवर्तिता। अधुना श्रद्धालवः बाबा महाकालस्य भस्मारार्तिक्या: अनुमत्यर्थं त्रिमासे केवलम् एकवारमेव स्वस्य दूरभाषसङ्ख्याया: उपयोगं कर्तुं शक्नुवन्ति।
एषा व्यवस्था प्रोटोकॉल-पद्धत्या आगच्छन्तां तेषामपि दूरभाषसङ्ख्यानां विषये प्रवर्तिष्यते, येभ्यः प्रतिमासं भस्मारार्तिक्या: अनुमतिः गृह्यते। तथापि मन्दिरसमितेः कथनानुसारम् एषा व्यवस्था पूर्वमेव प्रवर्तिता आसीत्, अधुना तु अधिकप्रभावकरूपेण कार्यान्वीयते।
प्रायः द्विवर्षपूर्वं यावत् श्रद्धालवः भस्मारार्तिक्या: आरक्षणं पञ्चदशदिनपूर्वम् अन्तर्जालमार्गेण कर्तुं शक्नुवन्ति स्म। तदा दूरभाषसङ्ख्यासम्बद्धः कश्चन विशेषः नियमः नासीत्। तदानीन्तनः जनपदाधीशः नीरजसिंहः २०२४ तमे वर्षे भस्मारार्तिक्या: आरक्षणे अनियमिततासम्बद्धानां सूचनानाम् अनन्तरम् एकेन आधारपत्रेण एकेन च दूरभाषसङ्ख्ययख त्रिमासे एकवारमेव अनुमतिः इति नियमं प्रवर्तितवान्। किञ्चित्कालं यावत् एषा व्यवस्था प्रचलिता, परन्तु अनन्तरं स्थगिता अभवत्। अधुना पुनः सूचनानां वृद्धेः कारणात् एषः नियमः दृढतया कार्यान्वितः।
पूर्वं प्रोटोकॉल-पद्धत्या प्रतिमासं आरक्षणं सम्भवम् आसीत्, किन्तु अधुना नूतनव्यवस्थायां श्रद्धालुः एकवारम् अनुमतिं प्राप्य तेनैव दूरभाषसङ्ख्यया पुनरारक्षणार्थं नवतिदिनानि प्रतीक्षितुं बाध्यः भविष्यति। अधुना प्रत्येकस्या: दूरभाषसङ्ख्याया: त्रिमासे केवलम् एकवारमेव आरक्षणं भविष्यति। अस्याः व्यवस्थायाः उद्देश्यं पुनः पुनः दर्शनं कुर्वतां नियन्त्रणं कर्तुं सर्वेभ्यः समानम् अवसरं प्रदातुं च अस्ति।
महाकालमन्दिरस्य प्रशासकः प्रथमकौशिकः उक्तवान् यत् एषा व्यवस्था पूर्वमेव प्रवर्तिता आसीत्, अधुना तु अधिकप्रभावकरूपेण कार्यान्वीयते, येन सामान्यभक्ताः अपि सुलभतया दर्शनस्य अवसरं प्राप्नुयुः। अधुना एकस्यैव दूरभाषसङ्ख्याया: पुनः पुनः उपयोगः न भविष्यति। अनेन नियमेन तेषां सामान्यभक्तानां लाभः भविष्यति ये मासान् यावत् अन्तर्जालमार्गेण आरक्षणं कर्तुं न शक्नुवन्ति स्म। मन्दिरसमितेः दावेन भस्मारार्तिक्या: पारदर्शिता अपि वर्धिष्यते।
विश्वप्रसिद्धे ज्योतिर्लिङ्गे भगवत: महाकालेश्वरमन्दिरे सोमवासरे प्रातःकाले भस्मारात्रेः समये भगवान् महाकालः राजस्वरूपेण अलङ्कृतः। अस्मिन्नवसरे सहस्रशः श्रद्धालवः तस्य दिव्यस्वरूपस्य दर्शनं कृतवन्तः।
प्रातः चतुर्वादने मन्दिरस्य कपाटाः उद्घाटिताः। ततः पण्डितैः पूजकैश्च गर्भगृहे प्रतिष्ठितानां सर्वदेवतानां पूजनं कृत्वा भगवत: महाकालस्य जलाभिषेकः कृतः। अनन्तरं दुग्ध-दधि-घृत-शर्करा-फलरसैः निर्मितेन पञ्चामृतेन पूजनम् अर्चनं च सम्पन्नम्। प्रथमघण्टानादेन सह मन्त्रौच्चारणपूर्वकं हरिओम्-जलम् अर्पितम्। कर्पूरारार्तिक्या: अनन्तरं भगवतः मस्तके भाङ्गं चन्दनं त्रिपुण्ड्रं च समर्प्य अलङ्कारः कृतः। अलङ्कारसमाप्तेः अनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य भस्म समर्पितम्। ततः रजतनिर्मितः शेषनागमुकुटः, रजतमुण्डमाला, रुद्राक्षमाला तथा सुगन्धिपुष्पमालाः अपि समर्पिताः।
मोगरपुष्पैः गुलाबपुष्पैश्च अलङ्कृतः भगवान् महाकालः भक्तेभ्यः दिव्यदर्शनं दत्तवान्। तस्मै फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि। भस्मारार्तिक्यां बहुसंख्यकाः श्रद्धालवः उपस्थाय भगवत: महाकालस्य आशीर्वादं प्राप्तवन्तः। महा-निर्वाणी-अखाडा-संस्थया भगवते भस्म समर्पितम्।
जयपुरनगरस्य श्रद्धालुना १.३ किलोग्राम-रजतनिर्मितं छत्रं समर्पितम्
जयपुरनगरस्य सन-सिटी-नीदड़-निवासी भागचन्द-बलेसरः भगवते महाकालाय स्वकीयाम् अपारभक्तिं प्रदर्शयन् एककिलोग्राम-त्रिशतग्राम-परिमितेन रजतेन निर्मितं सुन्दरं कलात्मकं च छत्रं समर्पितवान्। सः स्वधर्मपत्न्या सीतादेव्या, पुत्राभ्यां गोविन्द-बलेसर-सीताराम-बलेसराभ्यां, पुत्रीभिः ममता-सुमन-अनीताभिः तथा पौत्रेण महावीर-बलेसरेण सह उपस्थाय प्रायः ३.२५ लक्षरूप्यक-मूल्यस्य रजतछत्रस्य समर्पणम् अकरोत्। महाकालेश्वरमन्दिरस्य पूजकैः वैदिक-विधिना मन्त्रोच्चारणेन च पूजां कृत्वा तत् दिव्यं छत्रं भगवत: मुखमण्डले धारितम्। छत्रसमर्पणानन्तरं मन्दि-रसमित्या श्रद्धालोः सम्मानं अपि कृतम्।
Hindusthan Samachar / Divya Ranjan