उज्जयिन्यां महाकालस्य भस्मारार्तिकी-दर्शनार्थं अधुना एकस्मात् दूरभाषसङ्ख्यात् त्रिमासे केवलम् एकवारमेव अनुमतिः भविष्यति
उज्जयिनीनगरम्, २१ जूनमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते ज्योतिर्लिङ्गे भगवत: महाकालेश्वरमन्दिरे भस्मारार्तिकी-दर्शनार्थं सोमवासरात् नूतना व्यवस्था प्रवर्तिता। अधुना श्रद्धालवः बाबा महाकालस्य भस्मारार्तिक्या: अनुमत्यर्थं त्रिमासे केवलम्
भगवान महाकाल का भस्म आरती में हुआ राजा स्वरूप श्रृगार


जयपुर के श्रद्धालु ने भगवान को अर्पित किया चांदी का छत्र


उज्जयिनीनगरम्, २१ जूनमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते ज्योतिर्लिङ्गे भगवत: महाकालेश्वरमन्दिरे भस्मारार्तिकी-दर्शनार्थं सोमवासरात् नूतना व्यवस्था प्रवर्तिता। अधुना श्रद्धालवः बाबा महाकालस्य भस्मारार्तिक्या: अनुमत्यर्थं त्रिमासे केवलम् एकवारमेव स्वस्य दूरभाषसङ्ख्याया: उपयोगं कर्तुं शक्नुवन्ति।

एषा व्यवस्था प्रोटोकॉल-पद्धत्या आगच्छन्तां तेषामपि दूरभाषसङ्ख्यानां विषये प्रवर्तिष्यते, येभ्यः प्रतिमासं भस्मारार्तिक्या: अनुमतिः गृह्यते। तथापि मन्दिरसमितेः कथनानुसारम् एषा व्यवस्था पूर्वमेव प्रवर्तिता आसीत्, अधुना तु अधिकप्रभावकरूपेण कार्यान्वीयते।

प्रायः द्विवर्षपूर्वं यावत् श्रद्धालवः भस्मारार्तिक्या: आरक्षणं पञ्चदशदिनपूर्वम् अन्तर्जालमार्गेण कर्तुं शक्नुवन्ति स्म। तदा दूरभाषसङ्ख्यासम्बद्धः कश्चन विशेषः नियमः नासीत्। तदानीन्तनः जनपदाधीशः नीरजसिंहः २०२४ तमे वर्षे भस्मारार्तिक्या: आरक्षणे अनियमिततासम्बद्धानां सूचनानाम् अनन्तरम् एकेन आधारपत्रेण एकेन च दूरभाषसङ्ख्ययख त्रिमासे एकवारमेव अनुमतिः इति नियमं प्रवर्तितवान्। किञ्चित्कालं यावत् एषा व्यवस्था प्रचलिता, परन्तु अनन्तरं स्थगिता अभवत्। अधुना पुनः सूचनानां वृद्धेः कारणात् एषः नियमः दृढतया कार्यान्वितः।

पूर्वं प्रोटोकॉल-पद्धत्या प्रतिमासं आरक्षणं सम्भवम् आसीत्, किन्तु अधुना नूतनव्यवस्थायां श्रद्धालुः एकवारम् अनुमतिं प्राप्य तेनैव दूरभाषसङ्ख्यया पुनरारक्षणार्थं नवतिदिनानि प्रतीक्षितुं बाध्यः भविष्यति। अधुना प्रत्येकस्या: दूरभाषसङ्ख्याया: त्रिमासे केवलम् एकवारमेव आरक्षणं भविष्यति। अस्याः व्यवस्थायाः उद्देश्यं पुनः पुनः दर्शनं कुर्वतां नियन्त्रणं कर्तुं सर्वेभ्यः समानम् अवसरं प्रदातुं च अस्ति।

महाकालमन्दिरस्य प्रशासकः प्रथमकौशिकः उक्तवान् यत् एषा व्यवस्था पूर्वमेव प्रवर्तिता आसीत्, अधुना तु अधिकप्रभावकरूपेण कार्यान्वीयते, येन सामान्यभक्ताः अपि सुलभतया दर्शनस्य अवसरं प्राप्नुयुः। अधुना एकस्यैव दूरभाषसङ्ख्याया: पुनः पुनः उपयोगः न भविष्यति। अनेन नियमेन तेषां सामान्यभक्तानां लाभः भविष्यति ये मासान् यावत् अन्तर्जालमार्गेण आरक्षणं कर्तुं न शक्नुवन्ति स्म। मन्दिरसमितेः दावेन भस्मारार्तिक्या: पारदर्शिता अपि वर्धिष्यते।

विश्वप्रसिद्धे ज्योतिर्लिङ्गे भगवत: महाकालेश्वरमन्दिरे सोमवासरे प्रातःकाले भस्मारात्रेः समये भगवान् महाकालः राजस्वरूपेण अलङ्कृतः। अस्मिन्नवसरे सहस्रशः श्रद्धालवः तस्य दिव्यस्वरूपस्य दर्शनं कृतवन्तः।

प्रातः चतुर्वादने मन्दिरस्य कपाटाः उद्घाटिताः। ततः पण्डितैः पूजकैश्च गर्भगृहे प्रतिष्ठितानां सर्वदेवतानां पूजनं कृत्वा भगवत: महाकालस्य जलाभिषेकः कृतः। अनन्तरं दुग्ध-दधि-घृत-शर्करा-फलरसैः निर्मितेन पञ्चामृतेन पूजनम् अर्चनं च सम्पन्नम्। प्रथमघण्टानादेन सह मन्त्रौच्चारणपूर्वकं हरिओम्-जलम् अर्पितम्। कर्पूरारार्तिक्या: अनन्तरं भगवतः मस्तके भाङ्गं चन्दनं त्रिपुण्ड्रं च समर्प्य अलङ्कारः कृतः। अलङ्कारसमाप्तेः अनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य भस्म समर्पितम्। ततः रजतनिर्मितः शेषनागमुकुटः, रजतमुण्डमाला, रुद्राक्षमाला तथा सुगन्धिपुष्पमालाः अपि समर्पिताः।

मोगरपुष्पैः गुलाबपुष्पैश्च अलङ्कृतः भगवान् महाकालः भक्तेभ्यः दिव्यदर्शनं दत्तवान्। तस्मै फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि। भस्मारार्तिक्यां बहुसंख्यकाः श्रद्धालवः उपस्थाय भगवत: महाकालस्य आशीर्वादं प्राप्तवन्तः। महा-निर्वाणी-अखाडा-संस्थया भगवते भस्म समर्पितम्।

जयपुरनगरस्य श्रद्धालुना १.३ किलोग्राम-रजतनिर्मितं छत्रं समर्पितम्

जयपुरनगरस्य सन-सिटी-नीदड़-निवासी भागचन्द-बलेसरः भगवते महाकालाय स्वकीयाम् अपारभक्तिं प्रदर्शयन् एककिलोग्राम-त्रिशतग्राम-परिमितेन रजतेन निर्मितं सुन्दरं कलात्मकं च छत्रं समर्पितवान्। सः स्वधर्मपत्न्या सीतादेव्या, पुत्राभ्यां गोविन्द-बलेसर-सीताराम-बलेसराभ्यां, पुत्रीभिः ममता-सुमन-अनीताभिः तथा पौत्रेण महावीर-बलेसरेण सह उपस्थाय प्रायः ३.२५ लक्षरूप्यक-मूल्यस्य रजतछत्रस्य समर्पणम् अकरोत्। महाकालेश्वरमन्दिरस्य पूजकैः वैदिक-विधिना मन्त्रोच्चारणेन च पूजां कृत्वा तत् दिव्यं छत्रं भगवत: मुखमण्डले धारितम्। छत्रसमर्पणानन्तरं मन्दि-रसमित्या श्रद्धालोः सम्मानं अपि कृतम्।

Hindusthan Samachar / Divya Ranjan