अमितशाहः मङ्गलवासरे नेफेड-इत्यस्य नीलामी-पटलस्य शुभारम्भं करिष्यति
नवदेहली, २२ जूनमासः (हि.स.)। केन्द्रीयगृह-सहकारितामन्त्री अमितशाहः मङ्गलवासरे नवदेहल्यां स्थिते अटल-अक्षय-ऊर्जा-भवने राष्ट्रीय-कृषि-सहकारी-विपणन-सङ्घस्य नीलामी-पलस्य एनएएफईएक्स डॉट इन इत्यस्य शुभारम्भं करिष्यति। अस्मिन्नवसरे केन्द्रीयकृषि-किसान-कल्
केंद्रीय गृह एवं सहकारिता मंत्री अमित शाह शुक्रवार को 26वें अखिल भारतीय फिंगरप्रिंट सम्मेलन-2026 को संबोधित करते हुए


नवदेहली, २२ जूनमासः (हि.स.)। केन्द्रीयगृह-सहकारितामन्त्री अमितशाहः मङ्गलवासरे नवदेहल्यां स्थिते अटल-अक्षय-ऊर्जा-भवने राष्ट्रीय-कृषि-सहकारी-विपणन-सङ्घस्य नीलामी-पलस्य एनएएफईएक्स डॉट इन इत्यस्य शुभारम्भं करिष्यति। अस्मिन्नवसरे केन्द्रीयकृषि-किसान-कल्याणमन्त्री शिवराजसिंहचौहानः, नेफेड-अध्यक्षः जेठाभाई-अहीरः, प्रबन्धनिदेशकः दीपक-अग्रवालः तथा वरिष्ठाधिकारिणः अपि उपस्थिताः भविष्यन्ति।

सहकारितामन्त्रालयस्य अनुसारेण शाहः अस्मिन् कार्यक्रमे कृषकाणां सहकारीक्षेत्रस्य च सशक्तीकरणार्थं आरब्धानां अनेकेषां डिजिटल-कल्याणकारी-उपक्रमाणामपि शुभारम्भं करिष्यति। एतेषु कृषकसन्तानानां कृते नेफेड-कल्याण-छात्रवृत्तिः, दलहन-तिलहनयोः भण्डार-प्रबन्धनार्थं दृष्टि-पटलम्, उद्यम-संसाधन-योजनां सुदृढीकर्तुं ईआरपी-पटलम्, तथा एनएएफईएक्स डॉट इन नीलामी-पटलम् अन्तर्भवन्ति।

कार्यक्रमे एनएएफईएक्स डॉट इन पटले प्रत्यक्ष-पञ्जीकरणस्य प्रदर्शनं भविष्यति तथा नीलामी-प्रक्रियायाः शुभारम्भोऽपि भविष्यति। नेफेड-इत्यस्य मते एतत् पटलं कृष्युत्पादानां नीलामी-प्रक्रियायां पारदर्शितां, कार्यदक्षतां तथा सञ्चालनसौकर्यं वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति। अनेन नीलामीसम्बद्धानां सर्वेषां क्रियाकलापानां डिजिटलीकरणं भविष्यति तथा कृषकानां, सदस्यसंस्थानां, अन्येषां हितधारकाणां च कृते एकीकृतं मञ्चम् उपलब्धं भविष्यति।

शाहः अस्मिन्नवसरे कृषकसन्तानेभ्यः नेफेड-कल्याण-छात्रवृत्तेः धनादेशान् अपि वितरिष्यति। नेफेड-इत्यस्य कथनानुसारम् एषः उपक्रमः कृषककल्याणस्य शिक्षाप्रोत्साहनस्य च तस्य प्रतिबद्धतायाः महत्त्वपूर्णो भागः अस्ति।

कार्यक्रमानन्तरं गृहमन्त्री सहकारितामन्त्री च अमितशाहः नेफेड-इत्यस्य निदेशक-मण्डलस्य सदस्यैः सह सभां करिष्यति। अस्यां सभायां संस्थायाः गतिविधयः, प्रगतिः, पूर्वनिर्देशानां पालनम् तथा भविष्यस्य कार्ययोजना इत्यादिषु विषये चर्चाः भविष्यन्ति।

उल्लेखनीयम् अस्ति यत् नेफेडः देशे कृषिविपणनस्य, कृष्युपज-क्रयस्य तथा सहकारितामूलक-कृषिव्यापारस्य क्षेत्रे महत्त्वपूर्णां भूमिकां निर्वहति। संस्थायाः मते एते नूतना: डिजिटल-कल्याणकारी-प्रयत्ना: प्रधानमन्त्री नरेन्द्रमोदिनः “सहकारेण समृद्धिः” इति दृष्टिकोणं साकारयितुं तथा सहकारीसंस्थानां प्रौद्योगिक्या पारदर्शितया च सुदृढीकरणस्य दिशि महत्त्वपूर्णं पदम् अस्ति।

Hindusthan Samachar / Divya Ranjan