Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 22 जूनमासः (हि.स.)।
तमिलनाडुप्रदेशस्य तिरुवल्लुरनगरे जातस्य अमोनियावायोः स्रवणदुर्घटनायाः विषये ओडिशाप्रदेशस्य मुख्यमन्त्री मोहन चरण माझी गाढं दुःखं व्यक्तवान्। तेन अस्यां दुःखदघटनायां प्राणान् त्यक्तवतां श्रमिकाणां परिवारजनानां प्रति संवेदना प्रकटिता तथा आहतानां ओडियाश्रमिकाणां शीघ्रस्वास्थ्यलाभस्य कामना कृता।
मुख्यमन्त्री स्वस्य शोकसन्देशे उक्तवान् यत् अस्याः दुर्घटनायाः कारणात् सः अत्यन्तं व्यथितः अस्ति। तेन मृतकानां परिवारजनानां प्रति गाढसंवेदना व्यक्तीकृत्य आश्वासनं दत्तं यत् ओडिशासर्वकारः प्रभावितश्रमिकेभ्यः तेषां परिवारजनभ्यश्च सर्वसम्भवा सहायता प्रदातुं प्रतिबद्धः अस्ति।
राज्यसर्वकारः निरन्तरं तमिलनाडुप्रशासनेन सह सम्पर्के वर्तते तथा प्रभावितानाम् ओडियाश्रमिकाणां स्थितेः विषये सततं निरीक्षणं करोति। मुख्यमन्त्रिणः निर्देशानुसारम् ओडिशाप्रदेशस्य मुख्यसचिवा अनु गर्ग तमिलनाडुप्रदेशस्य मुख्यसचिवेन सह वार्तालापं कृत्वा आहतश्रमिकाणां समुचितचिकित्सां तथा अन्यावश्यकसहायतां सुनिश्चितकर्तुं चर्चा अकरोत्।
अस्मिन् मध्ये प्रभावितश्रमिकेभ्यः तेषां परिवारजनभ्यश्च आवश्यकसहयोगं प्रदातुं तथा स्थानीयप्रशासनेन सह समन्वयं स्थापयितुं ओडिशासर्वकारस्य त्रयः वरिष्ठाधिकारिणः तत्क्षणमेव तिरुवल्लुरनगरं प्रेषिताः। एते अधिकारिणः घटनास्थलं प्राप्य राहत्सहायताकार्याणां निरीक्षणं करिष्यन्ति तथा आवश्यकतायुक्तेभ्यः श्रमिकेभ्यः सर्वप्रकारेण सहाय्यं प्रदास्यन्ति।
ओडिशासर्वकारेण विश्वासः प्रदत्तः यत् सङ्कटस्य अस्यां घटिकायां प्रभावितश्रमिकाः तेषां परिवारजनाश्च कस्यापि प्रकारस्य कठिनतायाः सामना न कुर्युः। अस्य कृते सर्वाणि आवश्यकपदानि गृहीयन्ते तथा समुचितव्यवस्थाः क्रियमाणाः सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani