पेंशन से जुड़ी शिकायतों के समाधान के लिए एआई आधारित पोर्टल लॉन्च
नव दिल्ली, 22 जूनमासः (हि.स)। निवृत्तिवेतननिधिविनियामकविकासप्राधिकरणेन पीएफआरडीए स्वीयानां अंशधारकाणां कृते कृत्रिमबुद्धिमत्तासक्षमं परिवादनिवारणमञ्चं प्रारब्धम्। अनेन पेन्शनसेवाः अधिकसमावेशिन्यः सुलभाश्च भविष्यन्ति। पीएफआरडीए इत्यस्य अनुसारेण
पेंशन कोष विनियामक एवं विकास प्राधिकरण के लोगो का प्रतीकात्मक चित्र


नव दिल्ली, 22 जूनमासः (हि.स)।

निवृत्तिवेतननिधिविनियामकविकासप्राधिकरणेन पीएफआरडीए स्वीयानां अंशधारकाणां कृते कृत्रिमबुद्धिमत्तासक्षमं परिवादनिवारणमञ्चं प्रारब्धम्। अनेन पेन्शनसेवाः अधिकसमावेशिन्यः सुलभाश्च भविष्यन्ति।

पीएफआरडीए इत्यस्य अनुसारेण अस्मिन् मञ्चे भाषिणी इत्यनेन सह एकीकरणस्य माध्यमेन द्वाविंशतिः भारतीयभाषासु सेवाः उपलभ्यन्ते। ग्राहकाः स्वाभिमतभाषायां उत्तराणि प्राप्तुं शक्नुवन्ति तथा च श्रव्याधारितसञ्चारस्य अपि उपयोगं कर्तुं शक्नुवन्ति। अयं मञ्चः एवं प्रकारेण निर्मितः अस्ति यत् पेन्शनसदस्याः सहजतया साहाय्यं प्राप्तुं स्वपरिवादानां समाधानं च कर्तुं शक्नुवन्ति।

पीएफआरडीए इत्यस्य मते अयं मञ्चः विविधान् पेन्शनसेवासम्पर्कबिन्दून् एकस्मिन् एकीकृते अङ्कीयपरिवेशे संयोजयति। एतत् नागरिककेन्द्रितसेवानां क्षेत्रे अङ्कीयपरिवर्तनस्य च दिशि एकं महत्त्वपूर्णं पदम् अस्ति। द्वाविंशतिभिः भारतीयभाषाभिः परिवादनिबन्धनसुविधा, वास्तविकसमयअनुसरणव्यवस्था तथा कृत्रिमबुद्धिमत्तायाः साहाय्येन प्रश्नसमाधानसुविधा इत्यादिभिः विशेषताभिः युक्तः पेन्शनसहायकः सदस्येभ्यः सहजं नागरिककेन्द्रितं च अनुभवं प्रददाति।

---------------

Hindusthan Samachar / Dheeraj Maithani