Enter your Email Address to subscribe to our newsletters

नवदेहली, २२ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् अन्ताराष्ट्रिययोगदिवसस्य अभूतपूर्वा सफलता अस्य प्रमाणम् अस्ति यत् योगः न केवलं विश्वस्य सर्वेषु भागेषु कोटिशः जनान् शारीरिकरूपेण स्वस्थं करोति, अपितु तान् आत्मविश्वासेन सह सकारात्मकजीवनं यापयितुमपि प्रेरयति।
प्रधानमन्त्री सोमवासरे सामाजिक-माध्यममञ्चे एक्स इति मञ्चे संस्कृत-सुभाषितं विलिख्य योगस्य महत्त्वं तथा जीवने तस्य सकारात्मकप्रभावं रेखाङ्कितवान्।
प्रधानमन्त्री अलिखत्—
चित्तप्रशमनोपायो योग इत्यभिधीयते।प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥
अस्यार्थः अस्ति यत् योगः मनसः पूर्णतया शान्तिं स्थैर्यं च प्राप्तुं श्रेष्ठतमः उपायः अस्ति। अस्य लक्ष्यस्य सिद्धये योगस्य द्वौ प्रमुखौ मार्गौ निर्दिष्टौ स्तः— मनसः प्रशमनम् तथा श्वासप्रश्वासयोः गतिनियन्त्रणम्। योगस्य माध्यमेन मनुष्यः मानसिकसन्तुलनम्, आध्यात्मिकीं शान्तिम्, सकारात्मकऊर्जां च प्राप्नोति।
प्रधानमन्त्री उक्तवान् यत् अद्य योगः विश्वस्य सर्वेषु भागेषु जनानां जीवनस्य महत्त्वपूर्णम् अङ्गं जातम् अस्ति तथा च सः स्वस्थं, सन्तुलितम्, आत्मविश्वासपूर्णं च जीवनं यापयितुं मार्गं प्रशस्तं करोति।
Hindusthan Samachar / Divya Ranjan