पंजाबस्य सर्वेषु 117 आसनेषु निर्वाचनाय सज्जीभवेयुः कार्यकर्तारः : नितिन नवीनः
- लुधियानायां वरिष्ठ भाजपा नेतृभीः सह रणनीतिकोपवेशनं, मतदातृकेंद्रस्तरं यावतृ संगठनं दृढीकर्तुं बलम् लुधियाना, 22 जूनमासः (हि.स.)। पञ्जाबस्य त्रिदिवसीयप्रवासे आगतेन भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षेण नितिन नवीनेन सोमवासरे लुधियानानगरे पक्षस्य
राष्ट्रीय अध्यक्ष नितिन नबीन पंजाब के युवाओं से संवाद करते हुए


- लुधियानायां वरिष्ठ भाजपा नेतृभीः सह रणनीतिकोपवेशनं, मतदातृकेंद्रस्तरं यावतृ संगठनं दृढीकर्तुं बलम्

लुधियाना, 22 जूनमासः (हि.स.)।

पञ्जाबस्य त्रिदिवसीयप्रवासे आगतेन भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षेण नितिन नवीनेन सोमवासरे लुधियानानगरे पक्षस्य वरिष्ठनेतृभिः पदाधिकारिभिः च सह उपवेशनं कृत्वा आगामिविधानसभानिर्वाचने पञ्जाबस्य सर्वासु ११७ आसन्देषु स्पर्धितुं सज्जतां कर्तुं निर्देशाः प्रदत्ताः। तेन पक्षसङ्गठनस्य मतदानकेन्द्रस्तरपर्यन्तं सुदृढीकरणे, कार्यकर्तॄणां सक्रियीकरणे, राज्यव्यापिनः भाजपाकाडरस्य वर्धने च विशेषः बलः दत्तः। तेन उक्तं यत् पक्षस्य नेतारः कार्यकर्तारश्च स्वसुखक्षेत्रात् बहिर्निष्क्रम्य जनसामान्यस्य मध्ये गन्तव्यम्।

उपवेशने राज्यसभासांसदौ राघव चड्ढा आरके गुप्ता च, भाजपाया राष्ट्रियमहासचिवः तरुण चुघ, राष्ट्रियोपाध्यक्षः सौदान सिंह, पञ्जाबभाजपाध्यक्षः केवल सिंह ढिल्लों, अश्वनी शर्मा, सुनील जाखड़, नरिंदर रामूवालिया, इकबाल सिंह लालपुरा इत्यादयः अनेके वरिष्ठनेतारः उपस्थिताः आसन्।

लुधियानाबसस्थानकस्य समीपे स्थिते एकस्मिन् आतिथ्यगृहे सम्पन्ने अस्मिन् उपवेशने पूर्वमन्त्रिणः पूर्वविधायकाश्च सहभागिनः अभवन्। तेषु विजय सांपला, मनोरंजन कालिया, अविनाश राय खन्ना, मनप्रीत सिंह बादल, राणा गुरमीत सिंह सोढ़ी, तीक्ष्ण सूद, अरुणेश शंकर इत्यादयः नेतारः उपस्थिताः आसन्। उपवेशने सहभागिना एकेन वरिष्ठभाजपानेत्रा उक्तं यत् नितिन नवीनस्य प्रमुखः केन्द्रबिन्दुः सङ्गठनस्य भूमिस्तरे सुदृढीकरणमेव आसीत्। राष्ट्रियनेतृत्वस्य सन्देशः स्पष्टः आसीत् यत् सम्प्रति सङ्गठनविस्तारे जनसम्पर्काभियाने च ध्यानं केन्द्रितव्यम्, यदा तु गठबन्धनसम्बद्धनिर्णयाः केन्द्रीयनेतृत्वाय परित्याज्याः।

राजनीतिविश्लेषकाणां मते एतदुपवेशनं भाजपायाः तस्याः रणनीतेः अंशः अस्ति, यस्याः अन्तर्गतं पक्षः पञ्जाबे स्वस्य सङ्गठनात्मकशक्तिं स्वतन्त्ररूपेण परीक्षितुम् इच्छति तथा च २०२७ तमस्य वर्षस्य विधानसभानिर्वाचनात् पूर्वं स्वं दृढराजनीतिकविकल्परूपेण प्रतिष्ठापयितुं प्रयतते।

एतदतिरिक्तं नितिन नवीनेन पञ्जाबस्य युवभिः सह संवादोऽपि कृतः। अस्मिन् अवसरे युवभिः विधिव्यवस्था, रोजगारः, व्यापारः च सम्बद्धासु चुनौतीषु स्वविचाराः प्रस्तुताः। कार्यक्रमे चत्वारिंशद्वर्षात् न्यूनवयस्काः प्रायः १०० युवानः सहभागिनः अभवन् तथा च पञ्जाबस्य विकासं, शासनव्यवस्थां, भाव्यवसरान् च विषये स्वसुझावान् प्रदत्तवन्तः।

प्रवासस्य अनन्तरं मध्यान्हे अधिकांशाः वरिष्ठनेतारः हलवारा अन्ताराष्ट्रियविमानस्थानकात् दिल्लीनगरं प्रति प्रस्थितवन्तः। पञ्जाबस्य राज्यपालेन गुलाब चन्द कटारिया तथा नितिन नवीनेन हलवारायां परस्परं भेटिता, ततः पश्चात् तौ अनेकैः वरिष्ठभाजपानेतृभिः सह एकेनैव विमानयात्रया दिल्लीनगरं प्रत्यागतवन्तौ।

---------------

Hindusthan Samachar / Dheeraj Maithani