रामभक्तानां श्रद्धायाम् आघातकुर्वद्भ्यः पापिभ्यो रामजिः दण्डयिष्यति : अम्बरीषः
लखनऊ, 22 जूनमासः (हि.स.)। विश्वहिन्दूपरिषदः केन्द्रीयमन्त्री प्रवक्ता च अम्बरीषः श्रीरामजन्मभूमिमन्दिरन्यासस्य चन्दासम्बद्धविषये स्वप्रतिक्रियाम् अददात्। तेन उक्तं यत् देशविदेशस्थितानां कोटिशः रामभक्तानां श्रद्धायाः उपरि आघातं कुर्वन्तः पापिनः श्
विहिप के प्रवक्ता अम्बरीष


लखनऊ, 22 जूनमासः (हि.स.)।

विश्वहिन्दूपरिषदः केन्द्रीयमन्त्री प्रवक्ता च अम्बरीषः श्रीरामजन्मभूमिमन्दिरन्यासस्य चन्दासम्बद्धविषये स्वप्रतिक्रियाम् अददात्। तेन उक्तं यत् देशविदेशस्थितानां कोटिशः रामभक्तानां श्रद्धायाः उपरि आघातं कुर्वन्तः पापिनः श्रीरामेण दण्डिताः भविष्यन्ति। अस्माकं श्रीरामे विश्वासः अस्ति, स्वनेतृत्वे विश्वासः अस्ति। अन्ततः श्रद्धा एव विजयं प्राप्स्यति, पापिनां निग्रहः भविष्यति, षड्यन्त्रकारिणः पराजयं गमिष्यन्ति।

विहिपप्रवक्त्रा सोमवासरे स्वसामाजिकमाध्यमसन्देशे लिखितं यत् विश्वासश्रद्धयोः दृढा शिला चञ्चुप्रहारैः न विदीर्यते। श्रीरामजन्मभूम्याः आन्दोलनस्य अनवरतयोधाः ये स्वसर्वस्वं समर्प्य एतां सङ्घर्षयात्रां नीतवन्तः तथा च ये देशस्य सर्वेषु प्रदेशेषु उपविष्टाः सन्ति, ते आहताः दुःखिताश्च सन्ति। तथापि तेषां स्वसहकार्येषु आन्दोलनस्य नेतृत्वे च लेशमात्रमपि अविश्वासः नास्ति, यतः तेषां रामभक्तिः परिस्थितिजन्या नास्ति। तेषां दृढः विश्वासः अस्ति यत् शीघ्रमेव नीरक्षीरविवेकस्य स्पष्टता दृश्यते, अविश्वासस्य कुहासा अपगमिष्यति।

किन्तु केचन जनाः अकस्मादेव प्रादुर्भूताः, येषां व्यवहारः केवलं निन्दां कृत्वा पलायनमेव अस्ति, ये च वर्षाकाले मण्डूकवत् सहसा दृश्यन्ते। अम्बरीषेण लिखितं यत् अस्माकं कस्यापि प्रति न मोहः अस्ति न च दुरावः। वयं श्रीरामस्य एव स्मः, किन्तु अस्मासु सम्यक् असम्यक् च विवेचयितुं विवेकः अस्ति। वयं कस्यचित् दीर्घकालिकसाधनां समर्पणं च प्रश्नचिह्नस्य अधीनं कर्तुं न शक्नुमः, विशेषतः तेषां विषये ये श्रीराममन्दिरान्दोलने प्रतिकूलभूमिकां निर्वहन्तः आसन् येषां निष्ठा अपि सन्दिग्धा आसीत्।

श्रीरामजन्मभूमितीर्थक्षेत्रस्य महामन्त्री चम्पतरायस्य विषये तेन लिखितं यत् सः आत्मविलोपी व्यक्तित्वस्य धनी अस्ति, यः राष्ट्रस्य समाजस्य च हिताय स्वजीवनं समर्पितवान्। श्रीरामजन्मभूम्यान्दोलनस्य यः कश्चन पक्षः आसीत्, व्यवस्थापनसम्बद्धः, न्यायालयीयसंघर्षसम्बद्धः वा, सर्वत्र चम्पतरायः एव केन्द्रबिन्दुरूपेण स्थितवान्। सः असंख्यकार्यकर्तॄणां प्रेरणाकेन्द्रम् अस्ति। मन्दिरनिर्माणान्दोलने सङ्कल्पात् सिद्धिपर्यन्तं प्रमुखभूमिकायां स्थितुं भगवता तस्मै सौभाग्यम् प्रदत्तम्।

------

Hindusthan Samachar / Dheeraj Maithani