सीतापुरस्य टाउन हॉल मध्ये सर्वकारी भूमौ निर्मिते सपा कार्यालये चलितं बुलडोजरयंत्रम्
सीतापुरम्, 22 जूनमासः (हि.स.)। उत्तरप्रदेशस्य सीतापुरजनपदे सर्वकारीयभूमेः अतिक्रमणमुक्तिकरणाभियानस्य अन्तर्गतं सोमवासरे प्रशासनद्वारा महती कार्यवाही कृता। अत्र टाउन हाल परिसरस्थे समाजवादीपक्षस्य कार्यालये बुलडोजर यन्त्रेण ध्वस्तीकरणकार्यवाही कृता
अवैध रूप से बने सपा कार्यालय पर चला बुलडोजर


सीतापुरम्, 22 जूनमासः (हि.स.)।

उत्तरप्रदेशस्य सीतापुरजनपदे सर्वकारीयभूमेः अतिक्रमणमुक्तिकरणाभियानस्य अन्तर्गतं सोमवासरे प्रशासनद्वारा महती कार्यवाही कृता। अत्र टाउन हाल परिसरस्थे समाजवादीपक्षस्य कार्यालये बुलडोजर यन्त्रेण ध्वस्तीकरणकार्यवाही कृता। सोमवासरस्य प्रातःकाले आरब्धा एषा कार्यवाही सम्पूर्णनगरे चर्चायाः विषयः अभवत्।

टाउन हाल परिसरस्य भूमेः विषये दीर्घकालात् प्रशासनिकप्रक्रिया प्रवर्तमाना आसीत्। सिटी मजिस्ट्रेट मीनाक्षी पाण्डेय इत्यनया उक्तं यत् सम्बन्धिता भूमि सर्वकारीयाभिलेखेषु अभिलिखिता अस्ति तथा तस्याः रिक्तीकरणाय निरन्तरं प्रयासाः क्रियमाणाः आसन्। द्विदिनपूर्वं समाजवादीपक्षेण कार्यालयं रिक्तीकृतम् आसीत्। ततः सोमवासरस्य प्रातःकाले निर्माणाधीनकार्यालयस्य ध्वस्तीकरणकार्यवाही आरब्धा। कार्यवाह्याः समये कापि अप्रिया स्थितिः मा भवेत् इति हेतोः पर्याप्तः पुलिसबलः नियुक्तः आसीत्।

अधिकारिणां उपस्थितौ बुलडोजरयन्त्रेण निर्माणं निष्कासितम्। स्थानीयजनाः अपि घटनास्थलं प्राप्य कार्यवाहीम् अपश्यन्। प्रशासनद्वारा एषा कार्यवाही सर्वकारीयसंपत्तेः अतिक्रमणमुक्तिकरणस्य नियमितप्रक्रिया इति कथिता। अपरतः अस्याः कार्यवाह्याः अनन्तरं राजनैतिकवर्तुलेषु अपि चर्चानां क्रमः तीव्रः अभवत्।

उल्लेखनीयम् अस्ति यत् टाउन हाल परिसरे विंशतिवर्षेभ्यः समाजवादीपक्षस्य कार्यालयम् आसीत्। सीतापुरजिलाप्रशासनेन नजूलभूमौ स्थितम् एतत् कार्यालयम् अवैधम् इति कथयित्वा गतदिनेषु रिक्तीकरणसूचना प्रदत्ता आसीत्। कार्यालयस्य रिक्तीकरणाय प्रशासनद्वारा सोमवासरस्य प्रातः १० वादनपर्यन्तं समयः दत्तः आसीत्, किन्तु अद्य विशालपुलिसबलस्य उपस्थितौ कार्यालयं बुलडोजरयन्त्रेण ध्वस्तीकृतम्।

अस्याः बुलडोजरकार्यवाह्याः विषये समाजवादीपक्षस्य जिलाध्यक्षः छत्रपाल यादवः उक्तवान् यत् एषः प्रशासनस्य तानाशाहीपूर्णः व्यवहारः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani