आयुष्मानभारतयोजना - दोषाः दृष्टाः, चिकित्सालयानां सेवाः निलम्बिताः, त्रयाणां सम्बद्धता समाप्ता
मुरादाबादः, २२ जूनमासः (हि.स.)। आयुष्मानभारतयोजनायाः अन्तर्गतं कतिपयेषु चिकित्सालयेषु दोषाः दृष्टाः, यस्य परिणामस्वरूपं केषाञ्चित् चिकित्सालयानां सेवाः निलम्बिताः, केषाञ्चित् चिकित्सालयानां देयधनस्य वितरणं स्थगितं, तथा त्रयाणां चिकित्सालयानां योजना
आयुष्मान भारत योजना


मुरादाबादः, २२ जूनमासः (हि.स.)। आयुष्मानभारतयोजनायाः अन्तर्गतं कतिपयेषु चिकित्सालयेषु दोषाः दृष्टाः, यस्य परिणामस्वरूपं केषाञ्चित् चिकित्सालयानां सेवाः निलम्बिताः, केषाञ्चित् चिकित्सालयानां देयधनस्य वितरणं स्थगितं, तथा त्रयाणां चिकित्सालयानां योजनासम्बद्धता समाप्ता कृता।

मुख्यचिकित्साधिकारी डॉ. कुलदीपसिंहः अवदत् यत् योजनायाः अन्तर्गतं यस्य कस्यचित् चिकित्सालयस्य विरुद्धं सूचनाप्राप्तौ परीक्षणं कृत्वा नियमानुसारं कार्यवाही विधास्यते। राज्यस्वास्थ्य-अभिकरणस्य निर्देशानुसारं जनपद-अनुबन्धन-समित्या आयुष्मान-भारतयोजनया सम्बद्धानां निजी-चिकित्सालयानां स्थलीयनिरीक्षणं कृतम्। निरीक्षणस्य प्रतिवेदनं साचीज-कार्यालयाय प्रेषितम्।

तदनन्तरं योजनायाः मानदण्डानां निर्धारितप्रावधानानां च उल्लङ्घनं तथा अन्ये दोषाः दृष्टाः इति कारणेन एबीएस-चिकित्सालयस्य रामपुर-दोराहा, एमआई-चिकित्सालयस्य सिरसवां-दोराहा, सर्जिमेड-चिकित्सालयस्य रामपुर-दोराहा, यूनिक-चिकित्सालयस्य दिल्ली-मार्गः तथा गैलेक्सी-सर्जिकल-चिकित्सालयस्य रामगङ्गाविहारः इत्येषां आयुष्मान-भारतयोजनान्तर्गताः सेवाः अग्रिमादेश-पर्यन्तं निलम्बिताः।

तथैव पुष्पाञ्जलि-नर्सिङ्ग-होम-इत्यस्य रामगङ्गाविहारः, गुप्ता-नर्सिङ्ग-होम-इत्यस्य आशियाना तथा आयुष्मान-चिकित्सालयस्य बिलारी इत्येषां योजनासम्बद्धता समाप्ता कृता। आयुष्मानभारतयोजनायाः नोडल-अधिकारी डॉ.राजीवकुमारशर्मा अवदत् यत् समये समये निरीक्षणं कृत्वा आवश्यककार्यवाही क्रियते। सर्वेभ्यः सूचीकृतचिकित्सालयेभ्यः शासन-निर्धारितमानदण्डानां निर्देशानां च अनिवार्यपालनाय आदेशाः प्रदत्ताः।

Hindusthan Samachar / Divya Ranjan