Enter your Email Address to subscribe to our newsletters





सारणनगरम्, २२ जूनमास: (हि.स.)। विश्व-सङ्गीत-दिवसस्य अवसरम् उपलक्ष्य कला-साहित्य-क्षेत्रे समर्पिता अखिलभारतीयसंस्था संस्कार-भारती-सारण-विभागेन सुरवन्दन-कार्यक्रमस्य आयोजनं कृतम्।
छपरानगरस्य दर्शन-नगरस्थिते सरस्वती-शिशु-विद्या-मन्दिरस्य सभागारे आयोजितः अयं कार्यक्रमः रात्रिपर्यन्तं प्रचलितः। अस्मिन् सुर-ताल-कला-विधीनां मनोहरः समन्वयः दृष्टः।
कार्यक्रमस्य शुभारम्भः मुख्यातिथिना विनोद-मिश्रेण, राष्ट्रिय-स्वयंसेवक-संघस्य विभाग-व्यवस्था-प्रमुखेन ओमप्रकाश-गुप्तेन, संस्कार-भारत्याः उत्तरबिहार-प्रान्तस्य महामन्त्रिणा सुरभित-दत्तेन, छपरा-नगरस्य विधायकया छोटी-कुमार्या, विद्यालय-प्रबन्धन-समित्याः उपाध्यक्षेन रामेश्वर-यादवेन तथा प्रधानाचार्येण विनोद-कुमारेण संयुक्तरूपेण दीप-प्रज्वलनेन कृतः।
ततः परं संस्कार-भारत्याः पारम्परिक-ध्येय-गीतस्य प्रस्तुतिर्मञ्जू-कुमार्या अन्यैः सहकर्मिभिः सह कृता, येन कार्यक्रमस्य औपचारिकः शुभारम्भः अभवत्। उत्तरबिहार-प्रान्तीय-कला-टोली-संयोजकेन चन्द्र-मिश्रेण विषय-प्रवेशः कृतः तथा जीवने सङ्गीतस्य कलायाश्च महत्त्वं विस्तरेण प्रतिपादितम्। कार्यक्रमस्य सञ्चालनं भँवर-किशोरेण कृतम्।
कार्यक्रमस्य संयोजकः मोहित-कुमार-सिंहः अवदत् यत् विश्व-सङ्गीत-दिवसस्य अस्मिन् पावनावसरे सरस्वत्याः उपासकाः कला-साधकाः च स्वस्व-विशिष्टाः कलात्मक-प्रस्तुतयः प्रदत्तवन्तः।
कलाकारैः कथक-नृत्यस्य मनोहर-मुद्राः, एकल-गीतानि, समूह-गीतानि तथा एकल-वाद्य-वादनस्य सुमधुर-प्रस्तुतयः प्रदर्शिताः, याभिः सभागारस्थाः सर्वे दर्शकाः मन्त्रमुग्धाः अभवन्। तदनन्तरं काव्य-पाठ-सत्रे कविभिः वीर-रसस्य हास्य-व्यङ्ग्यस्य च काव्य-प्रस्तुतयः कृताः, याः श्रोतृभिः सम्यक् प्रशंसिताः।
अस्मिन्नवसरे कला-सङ्गीत-काव्य-क्षेत्रेषु राष्ट्रियस्तरे विशिष्टं स्थानं प्राप्तवन्तः प्रतिभाशालिनः कलाकाराः अङ्गवस्त्रैः स्मृति-चिह्नैश्च सम्मानिताः।
अस्यां सांस्कृतिक-सन्ध्यायां आदित्य-सोनी, उदय-श्रीवास्तवः, सुरेश-चौबे, अनीशा-कुमारी, विवेक-समदर्शी, विश्वनेक-समदर्शी, अमरेन्द्र-सिंहः, राजनन्दिनी, ललितेश-गर्गः, राकेश-कुमार-सिंहः, कौशलेश-गर्गः, सौम्या-कुमारी, उदय-नारायण-सिंहः, सुप्रशात-कुमार-सिंहः, शालिनी-कुमारी, उदय-कुमारः, प्रेम-गुप्तः, मेहन्दी-शा इत्यादयः बहवः कलाकाराः, दर्शकाः, श्रोतारश्च उपस्थिताः आसन्। कार्यक्रमस्य समापनं वन्दे मातरम् इति गीतस्य सामूहिक-गायनेन अभवत्।
Hindusthan Samachar / Divya Ranjan