मुख्यमन्त्रिणा प्रधानमन्त्रिणे पत्रं प्रेषितम्, पश्चिमबङ्गदिवसस्य आयोजनाय नागरिकतासंशोधनविधेः कार्यान्वयनाय च कृतज्ञता व्यक्ता
कोलकातानगरम्, २२ जूनमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्द्वधिकारी प्रधानमन्त्रिणे नरेन्द्रमोदिने पत्रं सम्प्रेष्य राज्यस्य विकासाय, पश्चिमबङ्गदिवसस्य आयोजनाय, नागरिकतासंशोधनविधेः कार्यान्वयनाय तथा डॉ. श्यामाप्रसादमुखर्जी-महोदयस्य योगदानस
शुभेंदु अधिकारी


कोलकातानगरम्, २२ जूनमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्द्वधिकारी प्रधानमन्त्रिणे नरेन्द्रमोदिने पत्रं सम्प्रेष्य राज्यस्य विकासाय, पश्चिमबङ्गदिवसस्य आयोजनाय, नागरिकतासंशोधनविधेः कार्यान्वयनाय तथा डॉ. श्यामाप्रसादमुखर्जी-महोदयस्य योगदानस्य यथोचितसम्मानाय कृतज्ञतां व्यक्तवान्। मुख्यमन्त्री राज्यवासिनां पक्षतः प्रधानमन्त्रिणं प्रति धन्यवादं विनिवेद्य अवदत् यत् तस्य नेतृत्वे राज्यस्य कृते नूतनयुगस्य प्रारम्भः अभवत्।

मुख्यमन्त्री पत्रे लिखितवान् यत् प्रधानमन्त्रिणः प्रयत्नैः पश्चिमबङ्गे परिवर्तनम् अभवत् तथा दीर्घकालात् प्रवर्तमानात् भ्रष्टाचारात्, अव्यवस्थायाः तथा कुशासनस्य युगात् राज्यं शनैः शनैः विमुच्यते। पश्चिमबङ्गस्य जनाः अधुना विकासेन, शान्त्या, समृद्ध्या तथा आत्मसम्मानेन सह अग्रे गन्तुं स्वप्नं पश्यन्ति। मुख्यमन्त्री पश्चिमबङ्गवासिनां पक्षतः प्रधानमन्त्रिणं प्रति कृतज्ञताम् अपि प्रकटितवान्।

मुख्यमन्त्री जूनमासस्य २० दिनाङ्कस्य पश्चिमबङ्गदिवसः इति रूपेण आचर्यमाणस्य विशेषतया उल्लेखम् अकरोत्। तेन उक्तं यत् अयं दिवसः पश्चिमबङ्गस्य कृते परमगौरवस्य विषयः अस्ति, यतः अस्मिन्नेव दिने डॉ. श्यामाप्रसादमुखर्जी पश्चिमबङ्गं भारतस्य अभिन्नाङ्गरूपेण स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वुढवान्। तेन उक्तं यत् विभाजनकाले डॉ. मुखर्जी बाङ्गाली-हिन्दूनां पश्चिमबङ्गस्य च अस्तित्वरक्षणार्थं निर्णायकं संघर्षम् अकरोत्।

मुख्यमन्त्री लिखितवान् यत् डॉ. मुखर्जीणः उद्घोषः आसीत्—एकं विधानम्, एकं निशानम्, एकः प्रधानः। सः जम्मूकश्मीरस्य भारतेन सह पूर्णैकीकरणार्थं संघर्षम् अकरोत् तथा पृथक् संविधानस्य, पृथक् ध्वजस्य, पृथक् प्रधानमन्त्रिणः व्यवस्थायाः च विरोधम् अकरोत्। मुख्यमन्त्री अवदत् यत् मोदीसर्वकारेण २०१९ तमे वर्षे अनुच्छेदः ३७० निरस्तः, येन डॉ. मुखर्जीणः स्वप्नं साकारं कृतम्।

मुख्यमन्त्री पत्रे नागरिकतासंशोधनविधेः कार्यान्वयनम् अपि ऐतिहासिकं पदक्षेपम् इति वर्णितवान्। तेन उक्तं यत् पाकिस्तानात्, बाङ्गलादेशात् तथा अफगानिस्तानात् धार्मिकपीडनकारणेन भारतम् आगतानां हिन्दू-सिख-बौद्ध-जैन-पारसी-ईसाईसमुदायानां जनानां नागरिकताप्रदानस्य दिशि अयं विधिः अत्यन्तं महत्त्वपूर्णः अस्ति। दशकेभ्यः शरणार्थिजीवनं यापयतां लक्षशः जनानां नागरिकताधिकारप्राप्त्या तेषां जीवने सम्मानं, सुरक्षा तथा स्थैर्यं भविष्यति।

तेन उक्तं यत् १९४७ तमे वर्षे भारतविभाजनस्य, १९७१ तमे वर्षे बाङ्गलादेशमुक्तिसंग्रामस्य, ततः परं धार्मिकहिंसायाश्च कारणेन बहवः हिन्दू-बाङ्गाली-परिवाराः विस्थापनं सोढवन्तः। एते परिवाराः बहुवर्षाणि यावत् असुरक्षायाः परिचयसंकटस्य च मध्ये जीवनं यापितवन्तः। मुख्यमन्त्री अवदत् यत् नागरिकतासंशोधनविधेः माध्यमेन सर्वकारेण एतेभ्यः पीडितपरिवारेभ्यः न्यायः प्रदत्तः।

मुख्यमन्त्री अधिकारी प्रधानमन्त्रिणः पश्चिमबङ्गयात्रां राज्यस्य कृते अत्यन्तमहत्त्वपूर्णाम् अवदत्। तेन उक्तं यत् प्रधानमन्त्रिणः नेतृत्वे राज्यं विकासे, उद्योगे, शिक्षायाम्, संस्कृतौ, विज्ञाने, सामाजिकसुधारे तथा आर्थिकप्रगत्यां निरन्तरम् अग्रे गमिष्यति। तेन विश्वासः व्यक्तीकृतः यत् पश्चिमबङ्गः शीघ्रमेव देशस्य अग्रणी-राज्येषु समावेशं प्राप्स्यति।

पत्रस्य अन्ते मुख्यमन्त्री प्रधानमन्त्रिणं पश्चिमबङ्गदिवसस्य, डॉ. श्यामाप्रसाद-मुखर्जीणः १२५तमजन्म-जयन्त्याः, नागरिकतासंशोधनविधेः कार्यान्वयनस्य तथा राज्ये राष्ट्रवादी-सर्वकारस्य गठनस्य ऐतिहासिकावसरेषु धन्यवादम् अर्पितवान्। मुख्यमन्त्री प्रधानमन्त्रिणः दीर्घायुं निरामयं च जीवनं प्रार्थयन् अवदत् यत् तस्य नेतृत्वे पश्चिमबङ्गः नूनं ‘सोनार बाङ्ग्ला’ इति स्वप्नं साकारं करिष्यति।

Hindusthan Samachar / Divya Ranjan