Enter your Email Address to subscribe to our newsletters

नवदेहली, २२ जूनमासः (हि.स.)। तमिलनाडुराज्यस्य मुख्यमन्त्रिणः जोसेफ-विजयस्य जन्मदिनावसरे देशस्य विभिन्नराजनैतिकदलानां शीर्षनेतारः तस्मै शुभकामनाः प्रदत्तवन्तः तथा तस्य उत्तमस्वास्थ्यं दीर्घायुः सफलं सार्वजनिकजीवनं च प्रार्थितवन्तः।
भारतस्य प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओम् बिरला, रक्षामन्त्री राजनाथसिंहः, केन्द्रीयमन्त्री नितिन-गडकरी, लोकसभायाः प्रतिपक्षनेता राहुलगान्धी तथा कांग्रेसदलस्य अध्यक्षः मल्लिकार्जुनखड्गे इत्येतै: सह अनेके नेतारः सामाजिकमाध्यमैः अन्यैश्च माध्यमैः विजयाय जन्मदिनशुभकामनाः अभिनन्दनसन्देशांश्च प्रेषितवन्तः।
प्रधानमन्त्री नरेन्द्रमोदी अपि मुख्यमन्त्रिणे विजयाय जन्मदिनशुभकामनाः प्रदत्तवान्। सः तस्य उत्तमस्वास्थ्यं दीर्घायुष्यं च प्रार्थयन् उक्तवान् यत् विजयः जनसेवाकार्येषु निरन्तरं सक्रियः भवेत् समाजस्य विविधवर्गाणां कल्याणार्थं स्वप्रयत्नान् अग्रे नयेत्। प्रधानमन्त्री तस्य उज्ज्वलभविष्यस्य निरन्तरसफलतायाश्च अपि शुभकामनाः व्यक्तवान्।
लोकसभाध्यक्षः ओम् बिरला सामाजिक-माध्यममञ्चे एक्स इत्यत्र प्रकाशिते स्वसन्देशे मुख्यमन्त्रिणे जोसेफ-विजयाय हार्दिकाः जन्मदिनशुभकामनाः प्रदाय तस्य उत्तमस्वास्थ्यं सुखमयं जीवनं दीर्घायुष्यं च प्रार्थितवान्। सः उक्तवान् यत् आगामिवर्षं तस्मै नवीनसफलताभिः आनन्दैश्च परिपूर्णं भवतु तथा सः जनसेवाक्षेत्रे निरन्तरं योगदानं ददातु।
रक्षामन्त्री राजनाथसिंहः स्वसन्देशे उक्तवान्—“मुख्यमन्त्रिणे विजयाय जन्मदिनस्य हार्दिकाः शुभकामनाः।” सः ईश्वरं प्रार्थितवान् यत् विजयाय उत्तमस्वास्थ्यं दीर्घायुष्यं राष्ट्रसमाजयोः सेवार्थं निरन्तरम् ऊर्जा शक्तिश्च प्रदीयेताम्।
केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी अपि मुख्यमन्त्रिणे विजयाय जन्मदिनशुभकामनाः प्रदाय उक्तवान् यत् अयं विशेषदिनं तस्य जीवने नवीनाः उपलब्धयः आनन्दांश्च आनयतु। सः मुख्यमन्त्रिणः स्वस्थं समृद्धं सफलं च जीवनं प्रार्थितवान्।
लोकसभायाः प्रतिपक्षनेता राहुलगान्धी स्वसन्देशे मुख्यमन्त्रिणः विजयस्य उत्तमस्वास्थ्यं सर्वेषु प्रयत्नेषु सफलतां च प्रार्थितवान्। सः उक्तवान् यत् तमिलजनानाम् अधिकाराणां सम्मानस्य आकाङ्क्षाणां च संरक्षणाय क्रियमाणेषु प्रयत्नेषु स्वसमर्थनं निरन्तरं भविष्यति। राहुलगान्धी तमिलनाडुराज्यस्य विकासे प्रगत्यां च मुख्यमन्त्रिणः विजयस्य भूमिकामपि प्रशंसितवान्।
कांग्रेसाध्यक्षः मल्लिकार्जुनखड्गे अपि मुख्यमन्त्रिणे विजयाय जन्मदिन-शुभकामनाः प्रदाय तस्य नेतृत्वस्य जनसेवां प्रति प्रतिबद्धतायाश्च प्रशंसाम् अकरोत्। सः उक्तवान् यत् मुख्यमन्त्रिणः प्रयत्नाः तमिलनाडुराज्यस्य जनानां कल्याणाय विकासाय सामाजिकप्रगत्यै च नूतनां दिशं प्रददतु। खड्गे तस्य स्वस्थं सुखमयं सफलं सार्वजनिकजीवनं च प्रार्थितवान्।
मुख्यमन्त्रिणः जोसेफ-विजयस्य जन्मदिनावसरे विभिन्नराजनैतिकदलानां नेतृभ्यः, जनप्रतिनिधिभ्यः, सामाजिक-सङ्घटनेभ्यः समर्थकेभ्यश्च अपि दिवसभरं शुभकामनानां प्रवाहः निरन्तरम् अभवत्। सामाजिकमाध्यमेषु सहस्रशः जनाः तस्मै जन्मदिनशुभकामनाः प्रदाय तस्य दीर्घराजनैतिकसार्वजनिकजीवनस्य कामनाम् अकुर्वन्।
तमिलनाडुराज्यस्य विभिन्नेषु भागेषु तस्य समर्थकैः जन्मदिनावसरे रक्तदान-शिबिराणि, वृक्षारोपणाभियानानि, निर्धनेभ्यः भोजनवितरणम्, स्वास्थ्य-परीक्षणशिबिराणि तथा अन्ये जन-कल्याणकार्यक्रमाः आयोजिताः। अनेक-स्थानेषु समर्थकैः पिष्टकच्छेदनं सांस्कृतिककार्यक्रमाणां आयोजनं च कृत्वा स्वनेतुः जन्मदिनम् उत्साहेन आचरितम्।
Hindusthan Samachar / Divya Ranjan