मुख्यमन्त्रिणे विजयाय जन्मदिने प्रधानमन्त्री मोदी, राहुल-गान्धी तथा विभिन्नदलीयनायकैः शुभकामनाः प्रदत्ता:
चेन्नईनगरमृ, २२ जूनमासः (हि.स.)। तमिलनाडुराज्यस्य मुख्यमन्त्री जोसेफ-विजयः स्वस्य द्विपञ्चाशत्तमं जन्मदिनम् आचरति। अस्मिन् अवसरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी, लोकसभायाः विपक्षनेता राहुल-गान्धी, पूर्वमुख्यमन्त्री एम.के.स्टालिनेन सह विभिन्न-राज
मुख्यमंत्री विजय


चेन्नईनगरमृ, २२ जूनमासः (हि.स.)। तमिलनाडुराज्यस्य मुख्यमन्त्री जोसेफ-विजयः स्वस्य द्विपञ्चाशत्तमं जन्मदिनम् आचरति। अस्मिन् अवसरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी, लोकसभायाः विपक्षनेता राहुल-गान्धी, पूर्वमुख्यमन्त्री एम.के.स्टालिनेन सह विभिन्न-राजनैतिकदलानां नेतारः चलचित्रजगतः अनेके प्रसिद्धव्यक्तयश्च तस्मै शुभकामनाः अभिनन्दनसन्देशांश्च प्रेषितवन्तः।

मुख्यमन्त्री विजयः रविवासरे स्वस्य द्विपञ्चाशत्तमं जन्मदिनम् आचरति। अस्मिन् अवसरे देशस्य राज्यस्य च अनेके राजनैतिकनेतारः तस्य उत्तमस्वास्थ्यं दीर्घायुष्यम् सफलं सार्वजनिकजीवनं च प्रार्थितवन्तः।

प्रधानमन्त्री नरेन्द्रमोदी स्वस्य शुभकामनासन्देशे उक्तवान्—“तमिलनाडुराज्यस्य मुख्यमन्त्रिणे जोसेफ-विजयाय जन्मदिनस्य हार्दिक्य: शुभकामनाः। अहम् ईश्वरं प्रार्थये यत् सः दीर्घायुष्मान् स्यात् तथा उत्तमस्वास्थ्येन सह जीवनं यापयेत्।”

लोकसभायाः विपक्षनेता राहुल-गान्धी अपि मुख्यमन्त्रिणे विजयाय शुभकामनाः प्रदाय उक्तवान्—“तमिलनाडुराज्यस्य मुख्यमन्त्रिणे जोसेफ-विजयाय जन्मदिनस्य हार्दिक्य: शुभकामनाः। तव उत्तमस्वास्थ्यं सर्वेषु प्रयत्नेषु सफलतां च कामये। तमिलजनानाम् अधिकाराणां सम्मानस्य आकाङ्क्षाणां च संरक्षणाय राज्यस्य विकासाय च क्रियमाणेषु प्रयत्नेषु अहं दृढतया सह स्थितो भविष्यामि।”

द्रविडमुनेत्रकडगम् दलस्य अध्यक्षः पूर्वमुख्यमन्त्री एम्.के.स्टालिन् स्वसन्देशे उक्तवान्—“मुख्यमन्त्रिणे जोसेफ-विजयाय मम जन्मदिनशुभकामनाः। त्वं हर्षेण उत्तमशारीरिकमानसिकस्वास्थ्येन सह सार्वजनिकजीवने निरन्तरं सेवां करोतु इति मम कामना।”

अन्नाद्रविडमुनेत्रकडगम् दलस्य महासचिवः एडप्पाडी के. पलानीस्वामी सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशिते सन्देशे मुख्यमन्त्रिणे विजयाय जन्मदिनशुभकामनाः प्रदाय तस्य दीर्घायुष्यम् उत्तमस्वास्थ्यं च प्रार्थितवान्।

नामतमिलरकाची दलस्य संयोजकः सीमान् अपि मुख्यमन्त्रिणे विजयाय शुभकामनाः प्रदाय उक्तवान् यत् तस्य राजनैतिकसार्वजनिकक्रियाकलापाः निरन्तरं सफलाः स्युः तथा सः तमिलजनसेवायां पूर्ववत् योगदानं ददातु।

भाजपादलस्य पूर्वप्रदेशाध्यक्षः अन्नामलै स्वसामाजिकमाध्यमसन्देशे उक्तवान् यत् सः ईश्वरं प्रार्थये यत् मुख्यमन्त्री विजयः उत्तमस्वास्थ्येन दीर्घायुषा च सह जनसेवाकार्यं निरन्तरं करोतु।

राज्यसभासदस्यः कमलहासनः, यः मक्कल नीधि मय्यम् दलस्य अध्यक्षः अस्ति, मुख्यमन्त्रिणे विजयाय जन्मदिनशुभकामनाः प्रदाय तम् “कोटिशः जनानां प्रियः नेता” इति वर्णयन् तस्य सफलसार्वजनिकजीवनस्य कामनाम् अकरोत्।

अम्मा मक्कल मुनेत्र कडगम् अदलस्य महासचिवः टीटीवी दिनकरणः अपि मुख्यमन्त्रिणे विजयाय जन्मदिनशुभकामनाः प्रदाय उक्तवान् यत् सः पूर्णस्वास्थ्येन ऊर्जया च सह जनसेवाकार्याणि निरन्तरम् अग्रे नयतु।

एतस्मिन् मध्ये तमिलनाडुविधानसभायाः प्रचलति सत्रे विधानसभाध्यक्षः जेसीडी प्रभाकरः अपि सदनस्य पक्षतः मुख्यमन्त्रिणे विजयाय जन्मदिनशुभकामनाः अयच्छत्। सदने उपस्थिताः सदस्याः अपि तस्य स्वस्थं सफलं च जीवनं प्रार्थितवन्तः।

मुख्यमन्त्रिणः विजयस्य जन्मदिनावसरे राज्यस्य विभिन्नेषु भागेषु तस्य दलस्य कार्यकर्तारः समर्थकाश्च विशेषकार्यक्रमान् आयोजितवन्तः। अनेकस्थानेषु सामाजिकसेवाकार्यक्रमाः, रक्तदान-शिबिराणि तथा जनकल्याणकार्यक्रमाश्च आयोजिताः।

Hindusthan Samachar / Divya Ranjan