Enter your Email Address to subscribe to our newsletters

पिथौरागढ़म्, 22 जूनमासः (हि.स.)। ग्राम्यविकास लघु सूक्ष्ममध्यमोद्यम खादीग्रामोद्योगमन्त्री भरतसिंहचौधरी सोमवासरे पिथौरागढजनपदसभागारे विविधविभागानां समीक्षोपवेशनं कृत्वा विकासयोजनानां कार्यक्रमाणां च प्रगतिं परीक्षितवान्। उपवेशने ग्राम्यविकासः प्रधानमन्त्रिग्रामसड्कयोजना पशुपालनम् मनरेगा प्रधानमन्त्रिआवासयोजना राष्ट्रियग्राम्याजीविकामिशनम् खादीग्रामोद्योगः तथा एमएसएमई इत्यादीनां विभागानां योजनानां समीक्षा कृता।
उपवेशने मन्त्री विभागवारप्रगतिप्रतिवेदनस्य अवलोकनं कृत्वा अधिकारिभ्यः निर्देशान् दत्तवान् यत् शासनस्य जनहितकारीयोजनानां लाभः समाजस्य अन्तिमव्यक्तिपर्यन्तं समयबद्धतया पारदर्शितया प्रभावकरूपेण च प्राप्यताम्। तेन उक्तं यत् राज्यशासनं ग्राम्यअर्थव्यवस्थायाः सुदृढीकरणाय स्वरोजगारस्य प्रोत्साहनाय युवानां महिलानां च आत्मनिर्भरतासम्पादनाय निरन्तरं प्रयतते। एतदर्थं सर्वैः विभागैः निर्धारितलक्ष्यानुरूपं योजनानां गुणवत्तापूर्णं क्रियान्वयनं सुनिश्चितीकर्तव्यम्।
मन्त्री चौधरी उक्तवान् यत् सीमाजनपदे पिथौरागढे विकासकार्याणां प्रगतिः सन्तोषजनका अस्ति तथा अधिकांशविभागाः पूर्णदायित्वेन कार्यं कुर्वन्ति। तेन अधिकारिणां कार्याणि प्रशंसितानि तथा उक्तं यत् सीमावर्तीपरिस्थितिषु अपि प्रशासनिकदलम् पूर्णसजगता समर्पणभावेन च जनसेवायां निरतम् अस्ति। एकद्वयोर्विभागयोः विना अन्यत्र कापि गम्भीरा शिकायतः न समुपस्थिता, यत् प्रशासनिककार्यप्रणाल्याः सकारात्मकस्थितिं प्रदर्शयति।
तेन उक्तं यत् राज्यशासनस्य नीतयः भूमितले प्रभावकरूपेण क्रियान्विताः सन्ति तथा उत्तरदायित्वं पारदर्शिता जनसंवेदनशीलता च स्पष्टतया दृश्यन्ते। मन्त्री अधिकारिभ्यः निर्देशान् दत्तवान् यत् विकासकार्येषु गुणवत्ता संरक्ष्यताम्, लम्बितप्रकरणानां शीघ्रनिस्तारणं क्रियताम्, दूरस्थप्रदेशेषु योजनालाभप्रदाने विशेषप्रयत्नाः क्रियन्ताम्।
समीक्षोपवेशनस्य समये अधिकारिभिः योजनानां क्रियान्वयने आगच्छन्त्यः विविधाः चुनौतीः समस्याश्च मन्त्रिणे निवेदिताः। अस्मिन् विषये मन्त्रिणा आवश्यकनिर्देशाः प्रदत्ताः तथा समस्यासु त्वरितसमाधानस्य आवश्यकता प्रतिपादिता। जनप्रतिनिधिभिः अधिकारिभिश्च जनपदस्य विकाससम्बद्धविषयेषु स्वस्वसुझावाः अपि प्रस्तुताः।
उपवेशनानन्तरं मन्त्री उक्तवान् यत् प्रदेशशासनं विकासजनकल्याणयोः प्रति पूर्णतया प्रतिबद्धम् अस्ति तथा योजनानां श्रेष्ठक्रियान्वयनाय सर्वेषु जनपदेषु निरन्तरनिगरानी क्रियते। तेन विश्वासः व्यक्तीकृतः यत् मुख्यमन्त्रिणः पुष्करसिंहधामिनो नेतृत्वे राज्यं विकासस्य नूतनान् आयामान् स्थापयति।---------------
Hindusthan Samachar / Dheeraj Maithani