भारतेंदु नाट्य अकादम्यां पठनं करिष्यतो बलियायाः ट्विंकक शुभं च
बलिया, 22 जूनमासः (हि.स.)। उत्तरप्रदेशस्य बलिया जनपदस्य द्वयोः उदीयमानकलाकारयोः चयनं भातखण्डे संस्कृतिविश्वविद्यालयेन सम्बद्धायां भारतेन्दु नाट्य अकादम्यां लखनऊ नगरे परास्नातकाध्ययनार्थम् अभवत्। साहित्यिकसांस्कृतिकसंस्थया संकल्प इत्यनेन सम्बद्धयो
नाट्य अकादमी में चयनित कलाकार


बलिया, 22 जूनमासः (हि.स.)।

उत्तरप्रदेशस्य बलिया जनपदस्य द्वयोः उदीयमानकलाकारयोः चयनं भातखण्डे संस्कृतिविश्वविद्यालयेन सम्बद्धायां भारतेन्दु नाट्य अकादम्यां लखनऊ नगरे परास्नातकाध्ययनार्थम् अभवत्। साहित्यिकसांस्कृतिकसंस्थया संकल्प इत्यनेन सम्बद्धयोः एतयोः कलाकारयोः चयनात् कलाजगति हर्षोल्लासस्य वातावरणं जातम्।

भारतेन्दु नाट्य अकादम्यां प्रवेशार्थं बहुषु चरणेषु गन्तव्यं भवति। अस्यां प्रक्रियायाम् अखिलभारतीयस्तरे केवलं विंशतिः आसनानि सन्ति, तेषु संकल्पसंस्थायाः द्वाभ्यां रङ्गकर्मिभ्यां ट्विंकल गुप्ता तथा शुभम सिंह इत्याभ्यां स्थानप्राप्तिः चर्चाविषयः अभवत्।

ट्विंकल गुप्ता विगतदशवर्षेभ्यः संकल्पसंस्थया सह सम्बद्धा सती रङ्गकर्मणि संलग्ना अस्ति। सा दशाधिकेषु नाटकेषु अभिनयम् तथा निर्देशनं कृतवती। एतस्मात् पूर्वं सा राष्ट्रीयनाट्यविद्यालयस्य वाराणसी केन्द्रात् इण्डियन क्लासिकल थियेटर इति विषयस्य एकवर्षीयं प्रमाणपत्रपाठ्यक्रमम् अपि सम्पन्नवती। ट्विंकल गुप्तायै भारतसरकारस्य संस्कृतिमन्त्रालयात् राष्ट्रियछात्रवृत्ति पुरस्कारः अपि प्राप्तः अस्ति।

अन्यतः गाजीपुर जनपदनिवासी शुभम सिंह विगतद्विवर्षेभ्यः संकल्पसंस्थया सह सम्बद्धः अस्ति। अस्मिन् काले तेन अनेकासु कालजयीषु नाट्यरचनासु महत्त्वपूर्णाः भूमिकाः निर्व्यूढाः। एतस्मात् पूर्वं सः लखनऊ तथा वाराणसी नगरयोः निवसन् नाट्यकर्म कुर्वन् आसीत्।

संकल्पसंस्थायाः सचिवः रङ्गनिर्देशकः प्रशिक्षकश्च आशीष त्रिवेदी संस्थायाः पक्षतः उभाभ्याम् कलाकाराभ्यां शुभकामनाः प्रदत्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani